गौण्या लक्षणातो भेदाभावप्रसङ्गात् । गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्यसत् । गुणानां भेदस्य साधयिष्यमाणत्वात् । वाहीके वृत्तौ निमित्ताभावाच्च । तसमात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् । *४,१९१* लक्षणापि द्वेधा । रूढारूढभेदात् । तत्राद्या यथा । राजायं गच्छतीति । द्वितीया यथा । गङ्गायां घोष इति । केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः । तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् । स्याच्च शब्दातप्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावो ऽत्र सम्बन्धमात्रम् । तथापि लक्षितलक्षणायामव्याप्तिः । नहि तत्राभिधेयसम्बन्धिनी वृत्तिः । किन्तु लक्षितसम्बन्धिनी । यथा प्राग्विरुद्धा इदानीं परस्परमेकीभूता इति । परम्परयायमर्थो ऽभिधेयसम्बन्धीति चेत् । तर्हि किमनया क्लिष्यकल्पनया । प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु । *४,१९४* व्यञ्जनं नामापरा वृत्तिरस्तीति चेन्न । अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम् । वचनलिङ्गानुमा हि सेति । तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति । *४,२०५* ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् "मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियाऽ; ॥ इति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति ॥ ॥। पूर्वायोगे परग्रहः
gauṇyā lakṣaṇāto bhedābhāvaprasaṅgāt / gośabdasya vāhīke vṛttau lakṣyamāṇaguṇānāṃ nimittatāyāścopapattiśūnyatvāt / lakṣyamāṇaguṇasādṛśyādguṇāntaraṃ tato guṇī lakṣyata iti tu nānubhāvikam / svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyanta ityapare / tadapyasat / guṇānāṃ bhedasya sādhayiṣyamāṇatvāt / vāhīke vṛttau nimittābhāvācca / tasamātsadṛśaguṇāśrayatvaṃ nimittīkṛtya parārthe vṛttirgauṇīti sādhūktam / *4,191* lakṣaṇāpi dvedhā / rūḍhārūḍhabhedāt / tatrādyā yathā / rājāyaṃ gacchatīti / dvitīyā yathā / gaṅgāyāṃ ghoṣa iti / kecidabhidheyāvinābhūtapratītirlakṣaṇocyata ityāhuḥ / teṣāṃ mañcāḥ krośantītyādau lakṣaṇā na syāt / syācca śabdātapratītena liṅgenānumitārthasya / athāvinābhāvo 'tra sambandhamātram / tathāpi lakṣitalakṣaṇāyāmavyāptiḥ / nahi tatrābhidheyasambandhinī vṛttiḥ / kintu lakṣitasambandhinī / yathā prāgviruddhā idānīṃ parasparamekībhūtā iti / paramparayāyamartho 'bhidheyasambandhīti cet / tarhi kimanayā kliṣyakalpanayā / prayogayuktasambandha iti yathoktamevāstu / *4,194* vyañjanaṃ nāmāparā vṛttirastīti cenna / anumānatayā tasya śabdaśaktitvānaṅgīkārāt / yathoktam / vacanaliṅgānumā hi seti / tātparyavṛttistu nātiricyata iti svayamevācāryo vakṣyati / *4,205* nanu mukhyārthānupapattiṃ tatsādṛśyaṃ prayojanaṃ cāpekṣya gauṇī pravartate / mukhyārthānupapattitatsambandhaprayojanānyapekṣya tu lakṣaṇā / yathoktam "mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt / anyārtho lakṣyate yatsā lakṣaṇāropitā kriyā'; // iti / tatkathaṃ sādṛśyasambandhāvevoktāvityata āha pūrveti // ... pūrvāyoge paragrahaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.