भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात् । तस्याज्ञानस्य च भेदसापेक्षत्वात् । अज्ञानमनादित्वात्कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नाज्ञानेति ॥ नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः यतो ब्रह्मव्यतिरिक्तजीवादृते नाज्ञानकल्पकं किञ्चिदस्ति । *४,४१२* एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम् । तथापि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम् । अनादित्वे ऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात् । अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् । न चाविद्यारोपो ब्रह्मण्येवेति युक्तम् । सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति । अथवा भेदस्य भ्रान्तिकल्पितत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् । अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न । वैषम्यात् । व्यक्तिभेदेन हि तत्रादोषत्वम् । नच जीवाविद्यव्यक्तिभेदो ऽस्तीति । *४,४१५* यदुक्तं नादेहयोगिन इत्यादि तदनुपपन्नम् । देहादेरपि भ्रान्तिकल्पितत्वात् । नच तत्र कारणाभावः पूर्वदेहादेर्विद्यमानत्वात् । नचैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिद्धो ऽर्थ इत्युक्तम् । किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात् । अन्यथैवं, सर्वत्रानवस्थापरिहारः प्रसज्येत । नचात्र प्रमाणं अस्ति । ननु कथं नास्ति,"नेह नानाऽ; इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह(इत्यत आह) भ्रमत्वे त्विति ॥ भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि
bhrānterjīvabrahmabhedahetorbhāvarūpājñānakāraṇatvāt / tasyājñānasya ca bhedasāpekṣatvāt / ajñānamanāditvātkathaṃ bhedavyapekṣayā syādityata uktam nājñāneti // nājñānakalpakaṃ kiñcidanyonyāśrayatā yataḥ yato brahmavyatiriktajīvādṛte nājñānakalpakaṃ kiñcidasti / *4,412* etaduktaṃ bhavati / jīvabrahma(ṇoḥ)bhedo yayā bhrāntyā siddhaḥ, sā tāvadajñānāpekṣā / bhrānteḥ svarūpato viṣayaścājñānakāryatvāṅgīkārāt / yadyapi bhedaviṣayā bhrāntiḥ sākṣicaitanyam / tathāpi tasyāsaṅgasyāropitārthasaṃsṛṣṭarūpaṃ(patā) nājñānena vinotpadyate / taccājñānaṃ bhedasāpekṣam / anāditve 'pi bhrāntikalpitatvasyāṅgīkṛtatvāt / anyathā satyatāpātāt / bhrānteḥ (ca) jīvāśritatvasyāṅgīkṛtatvāt / bhedakalpanayā vinā ca jīvasyābhāvāt / na cāvidyāropo brahmaṇyeveti yuktam / sarvasyāpi tadāśrayatvopapattau ardhajaratīyānupapatteḥ / ato bhramajñānajīvabhedānāmanyasāpekṣatvāccakrakamiti / athavā bhedasya bhrāntikalpitatve bhrānteśca bhedasāpekṣatvādanyonyāśrayatvamanenoktam / vyutpādanārthamevājñānaṃ madhye niveśitamiti draṣṭavyam / anena jīvājñānavādo(pakṣo)'pi nirastaḥ / itaretarāśrayādidoṣasāmyāt / bījāṅkuravadadoṣa iti cenna / vaiṣamyāt / vyaktibhedena hi tatrādoṣatvam / naca jīvāvidyavyaktibhedo 'stīti / *4,415* yaduktaṃ nādehayogina ityādi tadanupapannam / dehāderapi bhrāntikalpitatvāt / naca tatra kāraṇābhāvaḥ pūrvadehādervidyamānatvāt / nacaivamanavasthā, anāditvāditi / maivam / ādisarge dehādidarśanānupapatteḥ / na hyayaṃ sākṣimātrasiddho 'rtha ityuktam / kiñca syādayamanavasthāparihāraḥ, yadi pūrvapūrvatarādidehāderapi bhrāntisiddhatvaṃ pramitaṃ syāt / anyathaivaṃ, sarvatrānavasthāparihāraḥ prasajyeta / nacātra pramāṇaṃ asti / nanu kathaṃ nāsti,"neha nānā'; ityādiśrutervidyamānatvāditi etadāha(ityata āha) bhramatve tviti // bhramatve tviyamuktiśca tadantaḥpatanānnahi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.