*६,३१२फ़्।* यत एवं"क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनीऽ; इति तस्मात् श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्सृष्टं केवललीलैव सृष्टयादिप्रवृत्तिर्निर्णीता लीलाकैवल्यमिति । नतु लीलार्थेति ततो ऽप्ययुक्तमिदं व्याख्यानमिति । यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी तस्मादेतत्सूत्रे केवललीलैव सूत्रकृता निर्णीता व्याख्याता न पुनर्लीलार्थेति । *६,३१३* किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः । किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् । आद्ये साधने ऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव । दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । नचादृष्टार्थमिति वाच्यम् । पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । नच प्रयोजनोद्देशिता कृपालुता चेति सम्भवति । द्वितीये ऽप्यनैकान्त्यादिकमेव । स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतो ऽपि स्वप्रयोजनाभावे ऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्यापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च । अत एव न तृतीयो ऽपि । अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् । *६,३१४* स्यादेतदेवम् । यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यान्न चासावङ्गीकर्तुमुचितः । का स्पृहा न कापीति श्रुत्या नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आह आत्मेति ॥ आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् श्रुतिरिति सूत्रकृतो ऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः । *६,३२४* कुत एतदवगम्यत इत्यत आह नेति ॥ *६,३२५* न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः
*6,312f.* yata evaṃ"krīḍāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī'; iti tasmāt śrutyanusāriṇā prabhuṇā svayaṃ sākṣātsṛṣṭaṃ kevalalīlaiva sṛṣṭayādipravṛttirnirṇītā līlākaivalyamiti / natu līlārtheti tato 'pyayuktamidaṃ vyākhyānamiti / yadvā pūrvavākyokto hetuḥ, ayaṃ sādhyanirdeśaḥ / yasmāllīlāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī tasmādetatsūtre kevalalīlaiva sūtrakṛtā nirṇītā vyākhyātā na punarlīlārtheti / *6,313* kiñca kartṛtvena prayojanavattāṃ sādhayannāpādayanvā praṣṭavyaḥ / kiṃ prayojanaṃ svasambandhi vivakṣitam, uta parasambandhi, atha sādhāraṇam / ādye sādhane 'naikāntyam / āpādane vyāptyabhāvaḥ / viparyayaparyavasāne vyabhicāra eva / dṛśyante hi kṛpālavaḥ svaprayojanamanuddiśya paraprayojanārthameva pravartamānāḥ / nacādṛṣṭārthamiti vācyam / paśūnāṃ paśuprāyāṇāṃ cāpatyapālanādau pravṛttidarśanāt / naca prayojanoddeśitā kṛpālutā ceti sambhavati / dvitīye 'pyanaikāntyādikameva / svaprayojanārthaṃ pravṛtterbahulamupalambhāt / bhagavato 'pi svaprayojanābhāve 'pi paraprayojanoddeśitāṅgīkāreṇa krameṇa siddhasādhaneṣyāpādanāsiddhatvaprasaṅga(ṅgā)śca / ata eva na tṛtīyo 'pi / ata eva (yena) kenacitkartṛtva(tve)viśeṣaṇaṃ, pravṛttisvabhāvatve sadā pravartetetyatiprasañjanaṃ ca pratyuktam / *6,314* syādetadevam / yadīśvarapravṛttau paraprayojanoddeśaḥ syānna cāsāvaṅgīkartumucitaḥ / kā spṛhā na kāpīti śrutyā neti sūtrakāreṇa ca sarvathā prayojanoddeśasya nivāritatvādityata āha ātmeti // ātmaprayojanārthāya spṛhāṃ śrutiravārayat śrutiriti sūtrakṛto 'pyupalakṣaṇam / paraprayojanārthatāṃ tvaṅgīkuruta eveti śeṣaḥ / *6,324* kuta etadavagamyata ityata āha neti // *6,325* na prayojanavattvenetyata āha jagadguruḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.