नाद्यः । विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः । द्वितीये स विशेषः प्रतीतो न वा । आद्ये वाक्यवैयर्थ्यम् । द्वितीये ऽप्रसिद्धविशेषणता । विशेषस्यान्यत्राभावादनैकान्त्यं च । मतुबार्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा । आद्ये साक्षाल्लिङ्गतया वा । न प्रथमः । अनुमानवैयर्थ्यात् । अपसिद्धान्ताच्च । द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धे ऽर्थे वाक्यस्य लिङ्गतानुमानमेव । तत्र च दृष्टान्तो ऽन्यतरसाध्यविकलः । न द्वितीयः । तदभावेन बाधात् । *५,५३९* अथैवं प्रयुज्यते, विवादाध्यसितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादिति । तदयुक्तम् । विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् । आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः । पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् । मूलप्रमानुमाने ऽपि वेदेषु अनुपपत्तेः । तदपौरुषेयत्वस्य साधितत्वात् । *५,५४२* अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति । तेषां तु स्फुटो वेदे व्यभिचारः । किञ्च पदानामन्विताभिधाने शक्तिः । पदान्येव च वाक्यम् । नच वैदिकपदेभ्यो ऽन्यान्येव लौकिकानि पदानि । वक्ता तु पदज्ञान एवोपयुज्यते । तत्कथं लोकवेदयोः प्रकारभेदः स्यात् । अपि च वेदानुसारेण पठ्यमानेषु लौकिकवाक्येषु कथम् । अन्वयप्रतीतिरुत्पद्यत एव । किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति । एवं तर्हि वाक्यादेव वाक्याथर्ज्ञानम् । तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातमित्यास्ताम् । *५,५४४* तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि । तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव । तथापि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोति अनुभूतिरिति ॥ अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते *५,५४४फ़्।* नन्वनुभूतिरित्युक्त एव स्मृतावप्रसङ्गः । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात् । नहि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति । मैवम् । स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् । स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् । किमिदं स्मृतित्वम् । न तावज्जातिः । गुणेषु जातेरनङ्गीकृतत्वात् । संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति । अदृष्टादिजन्यत्वात् । असाधारणकारणविवक्षायामपि तथा । स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् । एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्यग्रत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम् । स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् । संस्कारस्य कारणत्वे ऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव । तथाच कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम् । अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् । किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव । नचावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति । *५,५४९* यद्वा अनुभूतिः प्रमाणं चेत्तदा स्मृतावव्याप्तिरिति शेषः । ननु स्मृतिः प्रमाणमेव न भवति । तत्कथं तत्राव्याप्तिदोष इत्यत आह केनेति ॥ स्मृतिः केन निमित्तेनापोद्यते प्रमाणाद्बहिः क्रियते न केनापीत्यर्थः । तथाहि । किमयथार्थत्वात् । याथार्थ्ये ऽप्यननुभूतित्वाद्वाप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा । आद्यं दूषयति केनेति ॥ स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते । येन यथार्था न स्यात् । बाधकाभावान्नायथार्थत्वं वाच्यमिति । द्वितीयं निराकरोति केनेति ॥ किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाननुभूतित्वात्स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन । आद्ये ऽन्योन्याश्रयत्वम् । तथाच केन स्मृतिरपोद्यते । द्वितीये ऽपि स्मृतिरेव केनापोद्यते । अस्मृतित्वेनानुभूतिः कुतो नापोद्यते विशेषाभावादिति । तृतीयमपाकरोति पूर्वेति ॥ पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम्
nādyaḥ / viśeṣapramiternirnibandhanatvāpatteḥ / dvitīye sa viśeṣaḥ pratīto na vā / ādye vākyavaiyarthyam / dvitīye 'prasiddhaviśeṣaṇatā / viśeṣasyānyatrābhāvādanaikāntyaṃ ca / matubārthaśca kiṃ pratipādyapratipādakabhāvaḥ, sambandhāntaraṃ vā / ādye sākṣālliṅgatayā vā / na prathamaḥ / anumānavaiyarthyāt / apasiddhāntācca / dvitīye tu nedaṃ vākyārthānumānaṃ kintu siddhe 'rthe vākyasya liṅgatānumānameva / tatra ca dṛṣṭānto 'nyatarasādhyavikalaḥ / na dvitīyaḥ / tadabhāvena bādhāt / *5,539* athaivaṃ prayujyate, vivādādhyasitāni padāni svasmāritārthānvayapramitipūrvakāṇi ākāṅkṣādimatpada(kadambaka)tvāditi / tadayuktam / vināpyanvayapramitiṃ daivātprayukteṣvākāṅkṣādimatsu padeṣvanaikāntyāt / āptaprayuktatvena hetuviśeṣaṇe sādhyārthasya hetvarthe praveśāpatteḥ / puruṣaviśeṣaprayuktatvasyādhyāpakaprayukteṣu vyabhicārāt / mūlapramānumāne 'pi vedeṣu anupapatteḥ / tadapauruṣeyatvasya sādhitatvāt / *5,542* apare tvapauruṣeyasyāgamatvamupagamya pauruṣeyasyānumānatvamabhyupagacchanti / teṣāṃ tu sphuṭo vede vyabhicāraḥ / kiñca padānāmanvitābhidhāne śaktiḥ / padānyeva ca vākyam / naca vaidikapadebhyo 'nyānyeva laukikāni padāni / vaktā tu padajñāna evopayujyate / tatkathaṃ lokavedayoḥ prakārabhedaḥ syāt / api ca vedānusāreṇa paṭhyamāneṣu laukikavākyeṣu katham / anvayapratītirutpadyata eva / kinnāma punaḥ pauruṣeyatvajñānādapanīyata iti / evaṃ tarhi vākyādeva vākyātharjñānam / tatprāmāṇyaniścayāya tu vaktrādyanusaraṇamityāyātamityāstām / *5,544* tadevaṃ sāmānyato viśeṣataśca pramāṇāni lakṣitāni / tatra svīyasāmānyalakṣaṇasamarthanenārthādvādyantaroktasāmānyalakṣaṇāni nirastānyeva / tathāpi smṛtiviṣaye vaktavya(vi)śeṣasya vidyamānatvātprābhākaralakṣaṇaṃ viśeṣato nirākaroti anubhūtiriti // anubhūtiḥ pramāṇaṃ cet kena smṛtirapodyate *5,544f.* nanvanubhūtirityukta eva smṛtāvaprasaṅgaḥ / smṛtivyatiriktaṃ jñānamanubhūtirityabhidhānāt / nahi smṛtiḥ smṛtivyatiriktā bhavatīti / maivam / smṛterapi smṛtyantaravyatiriktatvasambhavenāvyavacchedakatvāt / smṛtitvānadhikaraṇaṃ jñānamanubhūtiriti cet / kimidaṃ smṛtitvam / na tāvajjātiḥ / guṇeṣu jāteranaṅgīkṛtatvāt / saṃskāramātrajanyajñānatvaṃ tu na sambhavati / adṛṣṭādijanyatvāt / asādhāraṇakāraṇavivakṣāyāmapi tathā / smṛtermānasatvasya vakṣyamāṇatvāt / etena niyamena pratyutpannāsādhāraṇakāraṇakapratyagratvamanubhūtitvamityapyavacchedakaṃ draṣṭavyam / smṛterapi mānasapratyakṣajanyāyāstathātvāt / saṃskārasya kāraṇatve 'pi nāsau sattāmātreṇa smṛtiṃ janayati kinnāmodbuddha eva / tathāca kathaṃ na pratyutpannāsādhāraṇakāraṇajanyatvam / anyathendriyādimā(yamā)tramupādāyānubhūterapi tannirākuryāt / kiñca smṛtirapi kācitpratyutpannasaṃskārajanyā sambhavatyeva / nacāvacchedakena vinā niyamo jñātuṃ śakyata iti / *5,549* yadvā anubhūtiḥ pramāṇaṃ cettadā smṛtāvavyāptiriti śeṣaḥ / nanu smṛtiḥ pramāṇameva na bhavati / tatkathaṃ tatrāvyāptidoṣa ityata āha keneti // smṛtiḥ kena nimittenāpodyate pramāṇādbahiḥ kriyate na kenāpītyarthaḥ / tathāhi / kimayathārthatvāt / yāthārthye 'pyananubhūtitvādvāprāmāṇye bādhakābhāvādvā prāmāṇye sādhakābhāvādbādhakasadbhāvādvā / ādyaṃ dūṣayati keneti // smṛtiḥ kena prabalena pramāṇenāpodyate bādhyate / yena yathārthā na syāt / bādhakābhāvānnāyathārthatvaṃ vācyamiti / dvitīyaṃ nirākaroti keneti // kimanubhūtitvaṃ pramāṇalakṣaṇamiti kṛtvānanubhūtitvātsmṛtirapramāṇamityucyate kiṃ vā ghaṭādidṛṣṭāntāvaṣṭambhena / ādye 'nyonyāśrayatvam / tathāca kena smṛtirapodyate / dvitīye 'pi smṛtireva kenāpodyate / asmṛtitvenānubhūtiḥ kuto nāpodyate viśeṣābhāvāditi / tṛtīyamapākaroti pūrveti // pūrvānubhūte kiṃ mānamityukte syāt kimuttaram
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.