आलयं प्रलयपर्यन्तम् । कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः । *७,४५* एतदुक्तं भवति । कार्यं तावत्कारणव्यापारात्प्रागपि सत् । असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं नास्य सत्त्वं कर्तुं शक्यम् । नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् । किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः । असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वे ऽपि कारणं तदेवं करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत् । सा शक्तिः शक्यविषया वा स्यात्सवर्त्र वा । सर्वत्र चेत्सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । नच कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदो ऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य । उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावो, यथा घटपटयोः । संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः । अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । नचेह संयोगाप्राप्ती । तस्मान्नार्थान्तत्वम् । गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च । एवञ्च कार्याणां परस्परं भेदे ऽपि स्वस्वकारणैरभेदात्क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव, इत्येनेनाभिप्रायेणान्यद्भिदोज्खितमित्युक्तमिति । तच्चोक्तम्"असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणाभावाच्च सत्कार्यम्ऽ; इति । *७,४८* तेष्वपि मतभेदमाह भोक्तृतामिति ॥ भोक्तृणां चेतनस्याहुः केचित् तामपि नापरे सर्वे ऽपि साङ्खयाः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न चात्मनः परिस्पन्दलक्षणा क्रियोपपद्यते । सर्वगतत्वात् । नापि प्रयत्नलक्षणा । तस्याः अन्तःकरणवृत्तित्वात् । नच विक्रियालक्षणा । निर्विकारत्वात् । यथोक्तम् । "तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चऽ; इति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः । यथा भोक्तृभावादिति । अपरे तामपि नाहुः । यथा"तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिःऽ; इति । *७,५१* ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति ॥ स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम्
ālayaṃ pralayaparyantam / kāryāṇāṃ parasparavibhedaśca bhavediti nigadyate taiḥ / *7,45* etaduktaṃ bhavati / kāryaṃ tāvatkāraṇavyāpārātprāgapi sat / asadakaraṇāt / asaccet kāraṇavyāpārātpūrvaṃ nāsya sattvaṃ kartuṃ śakyam / nahi nīlaṃ śilpisahasreṇāpi pītaṃ śakyaṃ kartum / kiñca kāryeṇa sambaddhaṃ kāraṇaṃ kāryasya janakam, asambaddhaṃ vā / ādye tvasatā sambandhānupapatteḥ sattvamaṅgīkāryam / na dvitīyaḥ / asambaddhatvāviśeṣeṇa sarvasmātsarvasambhavāpatteḥ / asambaddhatve 'pi kāraṇaṃ tadevaṃ karoti yatra śaktamato nātiprasaṅga iti cet / sā śaktiḥ śakyaviṣayā vā syātsavartra vā / sarvatra cetsaivāvyavasthā / ādye tvasati śakye kathaṃ tadviṣayā syāditi sadeva kāryam / naca kāraṇādanyatkāryaṃ sadupalabhyata iti kāryakāraṇayorabhedo 'ṅgīkaraṇīyaḥ / kiñca na paṭastantubhyo bhidyate tantudharmatvāt, yadyato bhidyate tattasya dharmo na bhavati, yathā gauraśvasya / upādānopādeyabhāvācca / yayorarthāntaratvaṃ na tayorupādānopādeyabhāvo, yathā ghaṭapaṭayoḥ / saṃyogāprāptyabhāvācca / arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ / aprāptirvā yathā himavadvindhyayoḥ / naceha saṃyogāprāptī / tasmānnārthāntatvam / gurutvāntarakāryasyāvanatibhedasyāgrahaṇācca / evañca kāryāṇāṃ parasparaṃ bhede 'pi svasvakāraṇairabhedātkrameṇa mahāpralaye mūlakāraṇabhāvaṃ gatānāmabheda eva, ityenenābhiprāyeṇānyadbhidojkhitamityuktamiti / taccoktam"asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / śaktasya śakyakaraṇātkāraṇābhāvācca satkāryam'; iti / *7,48* teṣvapi matabhedamāha bhoktṛtāmiti // bhoktṛṇāṃ cetanasyāhuḥ kecit tāmapi nāpare sarve 'pi sāṅkhayāḥ puruṣasya kartṛtvaṃ nānumanyante / kriyāveśo hi kartṛtvam / na cātmanaḥ parispandalakṣaṇā kriyopapadyate / sarvagatatvāt / nāpi prayatnalakṣaṇā / tasyāḥ antaḥkaraṇavṛttitvāt / naca vikriyālakṣaṇā / nirvikāratvāt / yathoktam / "tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca'; iti / tatra keciccetanasya bhoktṛtāmāhuḥ / yathā bhoktṛbhāvāditi / apare tāmapi nāhuḥ / yathā"tasmānna badhyate na mucyate nāpi saṃsarati kaścit / badhyate saṃsarati mucyate ca nānāśrayā prakṛtiḥ'; iti / *7,51* nanu kartṛtābhāve bhoktṛtvamapi katham / tasyāpi kriyāveśātmakatvādityata āha svarūpeti // svarūpacaitanyabalāt svaprakāśācca bhogitām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.