अनेनैव न्यायेन"नच कर्तुः करणम्ऽ; इत्येतदप्यपाकरणीयम् इति । तथाहि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः । व्यभिचारात् । अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः । प्रकृते ऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधो ऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् । उत जननविशेषाभ्युपगमे । नाद्यः । "अन्नमशितं त्रेधा विधीयतेऽ; इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः । तथात्वस्य प्रकृते ऽप्यसम्मतेः । एवं मनसो ऽप्यहङ्कारजन्मनि दोषः परिहरणीयः । *८,४६०* एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारो ऽ(वि)भिहितः । इदानीं वासुदेवात्सङ्कषर्णो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह जीवेति ॥ जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा
anenaiva nyāyena"naca kartuḥ karaṇam'; ityetadapyapākaraṇīyam iti / tathāhi / kiṃ karaṇaṃ karturna jāyata iti vyāptiḥ kiṃ vā yasyāṃ kriyāyāṃ yatkaraṇaṃ tattatkriyākarturna jāyata iti / nādyaḥ / vyabhicārāt / anyathā karaṇānāmanutpattiprasaṅgāt / na dvitīyaḥ / prakṛte 'pi tathābhāvāsiddheḥ / etasmājjāyata iti śrutivirodho 'pi kiṃ jīvānmanaso jananamātrābhyupagame syāt / uta jananaviśeṣābhyupagame / nādyaḥ / "annamaśitaṃ tredhā vidhīyate'; ityādiśruteḥ pratyahaṃ manaso jīvādutpatteḥ / na dvitīyaḥ / tathātvasya prakṛte 'pyasammateḥ / evaṃ manaso 'pyahaṅkārajanmani doṣaḥ pariharaṇīyaḥ / *8,460* evaṃ jīvādipadānāṃ yathāśrutārthābhyupagamena sūtradvayāropitadoṣaparihāro '(vi)bhihitaḥ / idānīṃ vāsudevātsaṅkaṣarṇo nāma jīvo jāyata ityādivākyasya parakalpitādarthādarthāntaramāha jīveti // jīvābhimāniśeṣasya nāmnā saṅkarṣaṇasya tu / vāsudevājjaniḥ proktā pradyumnasya tatastathā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.