लब्धमित्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् । स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः । तस्य प्रत्यक्षत्वे ऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात्किं लब्धमित्युच्यते । मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत् उतोपपत्तिव्युत्पादनेन । नाद्यः । आगमप्रामाण्याभ्युपगमप्रसङ्गात् । नास्ति अतीन्द्रियं किमपीत्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः । उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् । शास्त्रं शङ्कामेव निवारयति । विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न । स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् । शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ । नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत्(न) । तस्यापि प्रमाणत्वात् । तदिदं"दर्शनेनऽ; इति प्रकृतानुवृत्तौ सत्यां"शास्त्रात्किम्ऽ; इत्रत वदता सूचितम् । अन्यथा नरैश्चेत्यवक्ष्यत् । मोहनं विनेत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणायोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातो ऽधिकमिति । *७,२११* किमतो यद्येवमित्यत आह स्वेति ॥ स्वपरार्थविहीनत्वात् ॥।
labdhamityanuvartate / atrāpi pūrvavaduttaram / syādetat / dharmādyatīndriyābhimatārthābhāvaḥ śāstrasya viṣayaḥ / tasya pratyakṣatve 'pi vaidikavāsanānimittaśaṅkākalaṅkitatvena viṣayatvamupapadyate / prayojanaṃ ca dharmādharmaśaṅkoparuddhārthakāmopabhogaḥ / tatkathaṃ naraiḥ śāstrātkiṃ labdhamityucyate / maivam / viṣayapratipattau hi prayojanāvāptiḥ / viṣayaṃ ca kiṃ śāstramāptavākyatayā pratipādayet utopapattivyutpādanena / nādyaḥ / āgamaprāmāṇyābhyupagamaprasaṅgāt / nāsti atīndriyaṃ kimapītyetāvataiva pūrṇatve(naiva)na vākyavistaravaiyarthyācca / na dvitīyaḥ / upapattiprāmāṇyābhyupagamaprasaṅgāt / śāstraṃ śaṅkāmeva nivārayati / viṣayapratipattistu pratyakṣeṇaiveti cenna / svayaṃ vopapattivyutpādanena vā kamapyarthamanupadarśayataḥ śaṅkānivāraṇāsāmarthyāt / śaṅkā hi saṃśayo vā syādviparyayo vā / dvāvapi viparītārthagocarabalavatpratyayanirasanīyau / nājñāmātreṇa / tarkavyutpādanaṃ śāstreṇa kriyata iti cet(na) / tasyāpi pramāṇatvāt / tadidaṃ"darśanena'; iti prakṛtānuvṛttau satyāṃ"śāstrātkim'; itrata vadatā sūcitam / anyathā naraiścetyavakṣyat / mohanaṃ vinetyubhayavākyaśeṣaḥ parihāsaḥ / śāstrapraṇetrā suraguruṇāyogyajanavyāmohanaṃ prayojanaṃ labdham / anyaiśca mithyājñānam / nāto 'dhikamiti / *7,211* kimato yadyevamityata āha sveti // svaparārthavihīnatvāt ...
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.