भूतमप्याकाशशब्दोक्तं तच्च घटादिवदुत्पद्यत इति श्रुत्याभिधीयत इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् असितमिति ॥ रूपित्वादित्यर्थः । तथाच श्रुतिः । "आकाशो नीलिमोदेतिऽ; इति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तम् दिव्येति ॥ तुशब्देनानुद्भूतत्वविशेषं सूचयति । इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यमुतास्मदादीन्प्रति । आद्ये त्विष्यापादनम् । दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने ऽत्रापि तत्समानं श्रुतिप्रामाण्यादिति । *८,४८९* नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह अव्याकृतमिति ॥ ॥। अव्याकृतं हि गगनं साक्षिगोचरम् यतो ऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः । तस्यानुत्पत्तौ हेत्वन्तरमप्याह नित्यं हि तदिति ॥ नचैतदसिद्धम् । विनाशकारणाभावात् । नहि कारणान्तरमनपेक्ष्येश्चरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न । तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम् । आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति । कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् साक्षीति ॥ तत्कथमित्यत आह प्रदेश इति ॥ प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्
bhūtamapyākāśaśabdoktaṃ tacca ghaṭādivadutpadyata iti śrutyābhidhīyata iti sambandhaḥ / kuto bhūtākāśasyotpattimattvamityata uktam asitamiti // rūpitvādityarthaḥ / tathāca śrutiḥ / "ākāśo nīlimodeti'; iti / tathā sati cākṣuṣatvaprasaṅga ityata uktam divyeti // tuśabdenānudbhūtatvaviśeṣaṃ sūcayati / idamuktaṃ bhavati / kiṃ cākṣuṣatvamātramāpādyamutāsmadādīnprati / ādye tviṣyāpādanam / divyadṛṣṭigocaratvābhyupagamāt / dvitīye tu bhūtādiśarīreṣu vyāptibhaṅgaḥ / tatrānudbhūtādikalpane 'trāpi tatsamānaṃ śrutiprāmāṇyāditi / *8,489* nanvākāśasyābhūtvābhavanalakṣaṇāmutpattimadhunaiva nirākṛtyātra punastadaṅgīkāre kathaṃ pūrvottaravyāghāto na bhavedityata āha avyākṛtamiti // ... avyākṛtaṃ hi gaganaṃ sākṣigocaram yato 'vyākṛtameva gaganaṃ notpadyata ityuktaṃ na tu bhūtamato na virodhaḥ / tasyānutpattau hetvantaramapyāha nityaṃ hi taditi // nacaitadasiddham / vināśakāraṇābhāvāt / nahi kāraṇāntaramanapekṣyeścarecchā vināśaheturdṛṣṭā / utpattiśrutestadapi kalpanīyamiti cenna / tasyā bhūtatadabhimāniviṣayatvena sāvakāśatvāt / avaśyaṃ caitadevam / ātmana ākāśaḥ sambhūta ityāderbhūtaprakaraṇatvāt / nanvavyākṛtākāśe pramāṇameva nāsti / kasyānutpattirucyata ityata uktam sākṣīti // tatkathamityata āha pradeśa iti // pradeśa iti vijñeyaṃ nityaṃ notpadyate hi tat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.