जीवस्तावदनीश इत्यनुभवसिद्धम् । तदभेदे परमात्माप्यनीश इत्युक्तमेव । तथाच अनीशस्येशतास्त्विति शङ्कितं स्यात् । एतच्च सर्वप्रमाणैर्विरुद्धं स्वव्याहतं च । न चैवंविधमनुन्मत्तः शङ्कते । शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दः(ब्दार्थः) । *९,४३२* स्यादेतत् । सेशतानुपपन्नैवेति तर्को ऽनुमानं वा । नाद्यः । ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः । न द्वितीयः । जीवैकताया भवतामसिद्धत्वात् । यदि पदवैयर्थ्याच्चेति । मैवम् । यस्य जीवैक्यं सिद्धं (स्यात्) तस्यानीशताविषयस्वार्थानुमानापादनस्याभिमतत्वात् । तर्कपक्षे ऽपि न दोषः । श्रुतीनामैक्यपरत्वाभावादित्याशयवानाह ईशत्वेनैवेति ॥ ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः । अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत्
jīvastāvadanīśa ityanubhavasiddham / tadabhede paramātmāpyanīśa ityuktameva / tathāca anīśasyeśatāstviti śaṅkitaṃ syāt / etacca sarvapramāṇairviruddhaṃ svavyāhataṃ ca / na caivaṃvidhamanunmattaḥ śaṅkate / śaṅkāyā evānudaye kuto bādhakopanyāsāvasara ityevaśabdaḥ(bdārthaḥ) / *9,432* syādetat / seśatānupapannaiveti tarko 'numānaṃ vā / nādyaḥ / aikyasya śrutisiddhatvena viparyayaparyavasānānupapatteḥ / na dvitīyaḥ / jīvaikatāyā bhavatāmasiddhatvāt / yadi padavaiyarthyācceti / maivam / yasya jīvaikyaṃ siddhaṃ (syāt) tasyānīśatāviṣayasvārthānumānāpādanasyābhimatatvāt / tarkapakṣe 'pi na doṣaḥ / śrutīnāmaikyaparatvābhāvādityāśayavānāha īśatvenaiveti // īśatvenaiva vijñātamanīśatvena cecchrutiḥ / anīśatvena vijñātamīśatvenāthavā diśet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.