इति वचनादिति शेषः । अस्य पुरुषस्यैतावान्महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदमित्येतत्पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात्तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकषर्हेतुत्वात् । किन्तु सर्वाधिपत्यमेव । नच तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् । *१०,३०७* इतो ऽप्येतदेवमित्याह सो ऽमृतस्येति ॥ सो ऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च
iti vacanāditi śeṣaḥ / asya puruṣasyaitāvānmahimā yaḥ pūrvavākyokta ityuttaravākyabalāt tat puruṣa evedamityetatpuruṣasya mahimno vācakaṃ vaca iti tāvajjñāyate / tataśca mahimapratipādakaṃ yathā syāttathā vyākhyeyam / na ca sarvātmatvaṃ mahimā / apakaṣarhetutvāt / kintu sarvādhipatyameva / naca tadatirikta(ktaṃ)mahimno vacanam / saṅkoce kāraṇābhāvāt / *10,307* ito 'pyetadevamityāha so 'mṛtasyeti // so 'mṛtasyābhayasyeśo martyamannaṃ yadatyagāt / ityamuktādhipatyaṃ tu pūrvārdhoktamanūdya ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.