यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतो ऽतिशयेन, विशेषबाहुल्यं प्रसज्यते । ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति । ज्ञानत्वादिधर्माश्चानिवार्याः । नच सविशेषं ब्रह्म परेणाङ्गीक्रियते । ज्ञेयादिकं च न स्वयम् । विरोधात् । परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् । ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् । ज्ञानत्वात् । प्रसिद्धज्ञानवत् । नच ज्ञानत्वमसिद्धमिति युक्तम् । अङ्गीकारविरोधात् । व्याप्तिमुपपादयति नेति ॥ न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद् भवेत् यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् । प्रसङ्गात्तस्यापि व्याप्तिमुपपादयति ज्ञेयेति ॥ ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा
yasmāccaitanyaṃ nāma jñānaṃ tasmāccaitanyasya brahmaṇo, viśeṣato 'tiśayena, viśeṣabāhulyaṃ prasajyate / jñānaṃ hi jñeyajñātṛkaraṇasāpekṣaṃ bhavati / jñānatvādidharmāścānivāryāḥ / naca saviśeṣaṃ brahma pareṇāṅgīkriyate / jñeyādikaṃ ca na svayam / virodhāt / parantu mithyeti tatsāpekṣaṃ jñānaṃ kathaṃ satsyāt / brahmaṇo jñānatve jñeyādyupetatā kuta iti cet / jñānatvāt / prasiddhajñānavat / naca jñānatvamasiddhamiti yuktam / aṅgīkāravirodhāt / vyāptimupapādayati neti // na jñeyajñātṛhīnaṃ hi jñānaṃ nāma kvacid bhavet yaduktaṃ prāgbrahmaṇaścetanatve jñeyajñānopetatvena bhāvyamiti, tatrāpi jñatvātsammatavaditi niyāmakamabhipretam / prasaṅgāttasyāpi vyāptimupapādayati jñeyeti // jñeyajñānavihīnaśca jña ityatra ca na pramā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.