मानैरुक्तैरिति मानानामुक्तत्वादित्यर्थः । न चाल्यते नान्यथयितुं शक्यते । यदा मुक्तावपि तारतम्यं प्रमितम् । तदा का जीवब्रह्मैक्यप्रत्याशा । कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् । यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति । *११,२९३* मुक्तानां तारतम्ये प्रमाणान्तरमाह ज्ञानिनो ऽपीति ॥ ज्ञानिनो ऽपि यतो नित्यं कुर्वन्ति शुभमेव हि । तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते
mānairuktairiti mānānāmuktatvādityarthaḥ / na cālyate nānyathayituṃ śakyate / yadā muktāvapi tāratamyaṃ pramitam / tadā kā jīvabrahmaikyapratyāśā / kathaṃ ca tattvamasyādivākyasya tatparatvam / yato guṇānāṃ mithyātvakalpanaṃ yuktaṃ syāditi / *11,293* muktānāṃ tāratamye pramāṇāntaramāha jñānino 'pīti // jñānino 'pi yato nityaṃ kurvanti śubhameva hi / tāratamyaṃ tu muktau ca tenaivādhyavasīyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.