अज्ञानिनां कर्मणो ऽस्तीति शेषः । साम्ये हि प्रतिबन्दीग्रहः । नच तदत्रास्ति । यतो ऽज्ञानिकृतकर्मणां सफलत्वे"कर्मजं बुद्धियुक्ता हिऽ; इत्यादिकं प्रमाणमस्ति । उपलक्षणं चैतत् । अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् । नह्येवं सति स्वभावकल्पनावकाशो ऽस्तीति । एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह तत्रेति ॥ तत्र कर्मणः फलवत्त्वे । तत् प्रमाणम् । अत्राप्यधिकारादिकमुपलक्षणीयम् । *११,२९८* किं तत्प्रमाणमित्यतस्तद्दर्शयति निष्काममिति । निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्
ajñānināṃ karmaṇo 'stīti śeṣaḥ / sāmye hi pratibandīgrahaḥ / naca tadatrāsti / yato 'jñānikṛtakarmaṇāṃ saphalatve"karmajaṃ buddhiyuktā hi'; ityādikaṃ pramāṇamasti / upalakṣaṇaṃ caitat / adhikāriṇaścaite vidhigocarāścetyapi draṣṭavyam / nahyevaṃ sati svabhāvakalpanāvakāśo 'stīti / evaṃ tarhi jñāniṣvapi na svabhāvakalpanā yuktetyāśayavānāha tatreti // tatra karmaṇaḥ phalavattve / tat pramāṇam / atrāpyadhikārādikamupalakṣaṇīyam / *11,298* kiṃ tatpramāṇamityatastaddarśayati niṣkāmamiti / niṣkāmaṃ jñānapūrvaṃ ca nivṛttamiha cocyate / nivṛttaṃ sevamānastu brahmābhyeti sanātanam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.