समसत्तामात्रं नापादकत्वेन विवक्षितम् । अतिप्रसङ्गात् । किन्तु समदर्शनमेवेत्याशयेनोक्तम् समान्दृष्ट्वेति ॥ प्रतिबन्दीग्रहणस्य प्रयोजनमाह दोषा इति ॥ दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् । एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गे ऽभिहिते तेनैतदेव वक्तव्यम् । अत्र लोके दोषा एव द्वेषादेः कारणम् । अन्वयव्यतिरेकाभ्यां तन्निश्चयात् । नतु साम्यम् । सत्यपि साम्ये सखिष्वभावात् । असत्यपि क्वचिद्भावात् । नच मुक्तेषु दोषास्सन्ति । अतः साम्ये ऽपि न (द्वै)दोषादिप्रसङ्ग इति । *११,१३७* अतः किमित्यत आह यदीति ॥ यदि निर्दोषता तत्र किमाधिक्येन दूष्यते यद्येवं दोषाणामेव द्वेषादिकारणत्वम् । तत्र मुक्तेषु । निर्देषता चाङ्गीकृता । तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन । किं दूष्यते न किमपि । साम्यमङ्गीकुर्वाणेनापि निर्देषतयैव द्वेषादिप्रसङ्गो वारणीयः । तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते । इयांस्तु विशेषः । यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः । शङ्कते यदीति ॥ यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्देषतया निवारयामः । नचैवम् । किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् । अपि तर्हि समदर्शनम् । नच मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति । एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं किन्तु स्वतो ऽधिकदर्शनमेव । नच मुक्तः स्वतो ऽधिकं मुक्तान्तरं पश्यति । तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्यव्यमिति परिहारो ऽत्र शक्यते वक्तुम् । तथापि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयति अदर्शनादिति ॥ अदर्शनादरत्यादिः कथं तेन निवार्यते
samasattāmātraṃ nāpādakatvena vivakṣitam / atiprasaṅgāt / kintu samadarśanamevetyāśayenoktam samāndṛṣṭveti // pratibandīgrahaṇasya prayojanamāha doṣā iti // doṣāṇāṃ samuditānāmeva kāraṇatvamityekavacanam / evamasmābhiḥ sāmyavādinaṃ pratyatiprasaṅge 'bhihite tenaitadeva vaktavyam / atra loke doṣā eva dveṣādeḥ kāraṇam / anvayavyatirekābhyāṃ tanniścayāt / natu sāmyam / satyapi sāmye sakhiṣvabhāvāt / asatyapi kvacidbhāvāt / naca mukteṣu doṣāssanti / ataḥ sāmye 'pi na (dvai)doṣādiprasaṅga iti / *11,137* ataḥ kimityata āha yadīti // yadi nirdoṣatā tatra kimādhikyena dūṣyate yadyevaṃ doṣāṇāmeva dveṣādikāraṇatvam / tatra mukteṣu / nirdeṣatā cāṅgīkṛtā / tadā ādhikyena hīnādhikabhāvenāṅgīkṛtena / kiṃ dūṣyate na kimapi / sāmyamaṅgīkurvāṇenāpi nirdeṣatayaiva dveṣādiprasaṅgo vāraṇīyaḥ / tāratamyamaṅgīkurvāṇairasmābhirapi tathaiva nirākariṣyate / iyāṃstu viśeṣaḥ / yattāratamyaṃ pramitaṃ na sāmyamiti samudāyārthaḥ / śaṅkate yadīti // yadyanyadarśanābhāvādīrṣyādirvinivāryate bhavedetadyadi sāmyena prasaktaṃ dveṣādikaṃ nirdeṣatayā nivārayāmaḥ / nacaivam / kinnāma samasattāmātraṃ hi na dveṣādikāraṇamatiprasaṅgāt / api tarhi samadarśanam / naca muktaḥ samaṃ muktāntaraṃ paśyatyato na dveṣādīti / evaṃ tarhi na tāratamyasattāmātraṃ dveṣādikāraṇaṃ kintu svato 'dhikadarśanameva / naca muktaḥ svato 'dhikaṃ muktāntaraṃ paśyati / tasmātsatyapi tāratamye na dveṣādiprasaṅga iti kuto na santoṣyavyamiti parihāro 'tra śakyate vaktum / tathāpi nāsau tāttvika ityanyadarśanābhāvameva dūṣayati adarśanāditi // adarśanādaratyādiḥ kathaṃ tena nivāryate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.