तत् तत्र मुक्तौ । तत्र अन्यदर्शनविषये । इच्छा नैवास्तीति मृषैव कल्प्य तेयदीति योजना । भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता । स्वयं साक्षाच्छत्युक्तेति सम्बन्धः । तर्हीति शेषः । तच्छब्दो वा तर्ह्यर्थः । इदमुक्तं भवति । मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्यान्यदर्शनेच्छाभावेन चारत्यादिकं परिहरतो ऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम् । *११,१४०* सामान्यदर्शनाभावेनाभाववतदिच्छाभावानामप्रामाणिकत्वात् । तारतम्यादेः प्रामाणिकत्वात् । ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्देषतास्वीकार इति । एतेन तारतम्यं साम्यं वाङ्गीकृत्य निर्देषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहो ऽपि निरस्तो वेदितव्यः । उक्तमेव स्पष्टमाह तारतम्यं चेति ॥ तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना
tat tatra muktau / tatra anyadarśanaviṣaye / icchā naivāstīti mṛṣaiva kalpya teyadīti yojanā / bhidyate hṛdayagranthirityādiśrutyuktā / svayaṃ sākṣācchatyukteti sambandhaḥ / tarhīti śeṣaḥ / tacchabdo vā tarhyarthaḥ / idamuktaṃ bhavati / muktānāṃ sāmyamaṅgīkṛtyānyadarśanābhāvena dveṣādiparihṛtyānyadarśanecchābhāvena cāratyādikaṃ pariharato 'prāmāṇikānekakalpanaṃ prāmāṇikaparityāgaśca syātām / *11,140* sāmānyadarśanābhāvenābhāvavatadicchābhāvānāmaprāmāṇikatvāt / tāratamyādeḥ prāmāṇikatvāt / tato varaṃ tāratamyamaṅgīkṛtya dveṣādinirāsāya śrautanirdeṣatāsvīkāra iti / etena tāratamyaṃ sāmyaṃ vāṅgīkṛtya nirdeṣatvena dveṣādisamādhānaṃ vidhātavyamiti sandeho 'pi nirasto veditavyaḥ / uktameva spaṣṭamāha tāratamyaṃ ceti // tāratamyaṃ ca kāmaṃ ca śrutamevātihāya tu / aśrutā samatā kena kalpyate yuktimāninā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.