क्अ इ,१५४।७-१५५।७ रो इ,४५९-४६१ पूर्वत्रासिद्धे च । पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः । लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् । दधः आकारलोपे आदिचतुर्थत्वे । दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति । दधः तथोः च इति चकारः न कर्तव्यः भवति । हलः यमाम् यमि लोपे । हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः । हलः यमाम् यमि लोपः सिद्धः भवति । अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु । अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः । द्विर्वचनादीनि च । द्विर्वचनादीनि च न पठितव्यानि भवन्ति । पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति । किम् अविशेषेण । न इति आह । वरेयलोपस्वरवर्जम् । वरेयलोपम् स्वरम् च वर्जयित्वा । तस्य दोषः संयोगादिलोपलत्वणत्वेषु । तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु । संयोगादिलोप : काक्यर्थम् , वास्यर्थम् । स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति । लत्वम् : निगार्यते निगाल्यते । अचि विभाषा इति लत्वम् न प्राप्नोति । णत्वम् : माषवपनी व्रीहिवापनी । प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति ।
KA I,154.7-155.7 Ro I,459-461 pūrvatrāsiddhe ca . pūrvatrāsiddhe ca na sthānivat iti vaktavyam . kim prayojanam . prayojanam ksalopaḥ salope ksalopaḥ salope prayojanam : adugdha , adugdhāḥ . luk vā duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam . dadhaḥ ākāralope ādicaturthatve . dadhaḥ ākāralope ādicaturthatve prayojanam : dhatse dhaddhve dhaddhvam iti . dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati . halaḥ yamām yami lope . halaḥ yamām yami lope prayojanam : ādityaḥ . halaḥ yamām yami lopaḥ siddhaḥ bhavati . allopaṇilopau saṃyogāntalopaprabhṛtiṣu . allopaṇilopau saṃyogāntalopaprabhṛtiṣu prayojanam : pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ , yājayateḥ yāṣṭiḥ . dvirvacanādīni ca . dvirvacanādīni ca na paṭhitavyāni bhavanti . pūrvatrāsiddhena eva siddhāni bhavanti . kim aviśeṣeṇa . na iti āha . vareyalopasvaravarjam . vareyalopam svaram ca varjayitvā . tasya doṣaḥ saṃyogādilopalatvaṇatveṣu . tasya etasya lakṣaṇasya doṣaḥ saṃyogādilopalatvaṇatveṣu . saṃyogādilopa : kākyartham , vāsyartham . skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti . latvam : nigāryate nigālyate . aci vibhāṣā iti latvam na prāpnoti . ṇatvam : māṣavapanī vrīhivāpanī . prātipadikāntasya iti ṇatvam prāpnoti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.