Library·Patanjali: Vyakaranamahabhasya·1·1.1·1.1.58·1.1.58.3

Patanjali: Vyakaranamahabhasya 1.1.58.3

P 1.1.58.3

क्अ इ,१५३।४-१५४।६ रो इ,४५५-४५९ क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् । क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् । क्वौ किम् उदाहरणम् । कण्डूयतेः अप्रत्ययः कण्डूः इति । न एतत् अस्ति । यलोपविधिम् प्रति न स्थानिवत् । इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः । न एतत् अस्ति । दीर्घत्वम् प्रति न स्थानिवत् । इदम् तर्हि : लावयतेः लौः , पावयतेः पौः । न एतत् अस्ति । अकृत्वा वृद्ध्यावादेशौ णिलोपः । प्रत्ययलक्षणेन वृद्धिः भविष्यति । इदम् तर्हि : लवम् आचष्टे लवयति । लवयतेः अप्रत्ययः लौः , पौः । स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति । क्वौ लुप्तम् न स्थानिवत् इति भवति । एवम् अपि न सिध्यति । कथम् । क्वौ णिलोपः णौ अकारलोपः । तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते : क्वौ लुप्तम् न स्थानिवत् इति । कथम् तर्हि । क्वौ विधिम् प्रति न स्थानिवत् । लुकि किम् उदाहरणम् । बिम्बम् , बदरम् । न एतत् अस्ति । पुंवद्भावेन अपि एतत् सिद्धम् । इदम् तर्हि : आमलकम् । एतत् अपि न अस्ति । वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति । इदम् तर्हि : पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति । ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् । कथम् पुंवद्भावः । भस्य अढे तद्धिते पुंवत् भवति इति । भस्य इति उच्यते । यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः । प्रत्ययलक्षणेन यजादिः । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति । टक्छसोः च इति उच्यते । न च अत्र टक्छसौ पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः । न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः । किम् तर्हि । अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः । उपधात्वे किम् उदाहरणम् । पिपठिषतेः अप्रत्ययः पिपठीः इति । न एतत् अस्ति । दीर्घविधिम् प्रति न स्थानिवत् । इदम् तर्हि: सौरी बलाका । न एतत् अस्ति । यलोपविधिम् प्रति न स्थानिवत् । इदम् तर्हि : पारिखीयः । चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् । वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन । किम् पुनः कारणम् न सिध्यति । यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति । ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् । विशेषे एतत् वक्तव्यम् । क्व । प्रत्ययविधौ इति । इह मा भूत् : पटयति लघयति इति । कुत्वे च उपसङ्ख्यनम् कर्तव्यम् । अर्चयतेः अर्कः , मर्चयतेः मर्कः । न एतत् घञन्तम् । औणादिकः एषः कशब्दः । तस्मिन् आष्टमिकम् कुत्वम् । एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति ।

KA I,153.4-154.6 Ro I,455-459 kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam . kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam kartavyam . kvau kim udāharaṇam . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ . na etat asti . dīrghatvam prati na sthānivat . idam tarhi : lāvayateḥ lauḥ , pāvayateḥ pauḥ . na etat asti . akṛtvā vṛddhyāvādeśau ṇilopaḥ . pratyayalakṣaṇena vṛddhiḥ bhaviṣyati . idam tarhi : lavam ācaṣṭe lavayati . lavayateḥ apratyayaḥ lauḥ , pauḥ . sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti . kvau luptam na sthānivat iti bhavati . evam api na sidhyati . katham . kvau ṇilopaḥ ṇau akāralopaḥ . tasya sthānivadbhāvāt ūṭh na prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate : kvau luptam na sthānivat iti . katham tarhi . kvau vidhim prati na sthānivat . luki kim udāharaṇam . bimbam , badaram . na etat asti . puṃvadbhāvena api etat siddham . idam tarhi : āmalakam . etat api na asti . vakṣyati etat : phale lugvacanānarthakyam prakṛtyantaratvāt iti . idam tarhi : pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti . nanu ca etat api puṃvadbhāvena eva siddham . katham puṃvadbhāvaḥ . bhasya aḍhe taddhite puṃvat bhavati iti . bhasya iti ucyate . yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ . pratyayalakṣaṇena yajādiḥ . varṇāśraye na asti pratyayalakṣaṇam . evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati . ṭakchasoḥ ca iti ucyate . na ca atra ṭakchasau paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na khalu api ṭhak eva krītapratyayaḥ krītādyarthāḥ eva vā taddhitāḥ . kim tarhi . anye api taddhitāḥ ye lukam prayojayanti : pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ , pañcāgniḥ , daśāgniḥ . upadhātve kim udāharaṇam . pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti . na etat asti . dīrghavidhim prati na sthānivat . idam tarhi: saurī balākā . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pārikhīyaḥ . caṅparanirhrāse ca upasaṅkhyanam kartavyam . vāditavantam prayojitavān : avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti . nanu ca etat api upadhātvavidhim prati na sthānivat iti eva siddham . viśeṣe etat vaktavyam . kva . pratyayavidhau iti . iha mā bhūt : paṭayati laghayati iti . kutve ca upasaṅkhyanam kartavyam . arcayateḥ arkaḥ , marcayateḥ markaḥ . na etat ghañantam . auṇādikaḥ eṣaḥ kaśabdaḥ . tasmin āṣṭamikam kutvam . etat api ṇicā vyavahitatvāt na prāpnoti .

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/P/1.1.58.3

Cite as: Patanjali: Vyakaranamahabhasya 1.1.58.3, in HREEM (hreem.cc/library/P/1.1.58.3), after GRETIL, Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay….

Edition, numbering and licence

GRETIL 6_sastra/1_gram/pmbhasuu.htm — Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-196

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text