क्अ इ,१७९।१२-१८०।१२ रो इ,५३१-५३५ एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । कुतः । आकृतिग्रहणात् । अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । ननु च अन्या आकृतिः अकारस्य आकारस्य च । अनन्यत्वात् च । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् भविष्यति । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । तद्वत् च हल्ग्रहणेषु । एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति । झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति । अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् । द्रुतविलम्बितयोः च अनुपदेशात् । द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति । यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । वृत्तिपृथक्त्वम् तु न उपपद्यते । वृत्तेः तु पृथक्त्वम् न उपपद्यते । तस्मात् तत्र तपरनिर्देशात् सिद्धम् । तस्मात् तत्र तपरनिर्देशः कर्तव्यः । न कर्तव्यः । क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति ।
KA I,179.12-180.12 Ro I,531-535 evam tarhi savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt . savarṇe aṇgrahaṇam aparibhāṣyam . kutaḥ . ākṛtigrahaṇāt . avarṇākṛtiḥ upadiṣṭā sā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . nanu ca anyā ākṛtiḥ akārasya ākārasya ca . ananyatvāt ca . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . aparaḥ āha : savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam . savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam bhaviṣyati . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . tadvat ca halgrahaṇeṣu . evam ca kṛtvā ca halgrahaṇeṣu siddham bhavati . jhalaḥ jhali : avāttām avāttam avātta yatra etat na asti aṇ savarṇān gṛhṇāti iti . anekāntaḥ hi ananyatvakaraḥ iti uktārtham . drutavilambitayoḥ ca anupadeśāt . drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt siddham iti . yat ayam kasyām cit vṛttau varṇān upadiśya sarvatra kṛtī bhavati . asti prayojanam etat . kim tarhi iti . vṛttipṛthaktvam tu na upapadyate . vṛtteḥ tu pṛthaktvam na upapadyate . tasmāt tatra taparanirdeśāt siddham . tasmāt tatra taparanirdeśaḥ kartavyaḥ . na kartavyaḥ . kriyate etat nyāse eva : ataḥ bhisaḥ ais iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.