क्अ इ,१७७।१८-१७८।७ रो इ,५२५-५२७ अप्रत्ययः इति किमर्थम् । सनाशंसभिक्षः उः , अ साम्प्रतिके । अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति । अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् । प्रत्यये उदाहृतम् । आदेशे : इदमः इश् : इह , इतः । टिति । लविता लवितुम् । किति । बभूव । मिति । हे अनड्वन् । टितः परिहारः । आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति । यत् तर्हि वॄतः वा इति विभाषाम् शास्ति । सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति । प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति । यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् । अनभिधानात् न भविष्यति । इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते । ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते । यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति । कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् । ह्रस्वम् । यत्नाधिक्यात् न ग्रहीष्यति । प्लुतम् तर्हि गृह्णीयात् । अनण्त्वात् न ग्रहीष्यति । एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति ।
KA I,177.18-178.7 Ro I,525-527 apratyayaḥ iti kimartham . sanāśaṃsabhikṣaḥ uḥ , a sāmpratike . atyalpam idam ucyate : apratyayaḥ iti . apratyayādeśaṭitkinmitaḥ iti vaktavyam . pratyaye udāhṛtam . ādeśe : idamaḥ iś : iha , itaḥ . ṭiti . lavitā lavitum . kiti . babhūva . miti . he anaḍvan . ṭitaḥ parihāraḥ . ācāryapravṛttiḥ jñāpayati na ṭitaḥ savarṇānām grahaṇam bhavati iti yat ayam grahaḥ aliṭi dīrghatvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt : grahaḥ aliṭi dīrghaḥ eva iti . yat tarhi vṝtaḥ vā iti vibhāṣām śāsti . sarveṣām eva parihāraḥ : bhāvyamānena savarṇānām grahaṇam na iti evam bhaviṣyati . pratyaye bhūyān parihāraḥ : anabhidhānāt pratyayaḥ savarṇān na grahīṣyati . yān hi pratyayaḥ savarṇagrahaṇena gṛhṇīyāt na taiḥ arthasya abhidhānam syāt . anabhidhānāt na bhaviṣyati . idam tarhi prayojanam : iha ke cit pratīyante ke cit pratyāyyante . hrasvāḥ pratīyante ḍīrghāḥ pratyāyyante . yāvat brūyāt pratyāyyamānena savarṇānam grahaṇam na iti tāvat apratyayaḥ iti . kam punaḥ dīrghaḥ savarṇagrahaṇena gṛhṇīyāt . hrasvam . yatnādhikyāt na grahīṣyati . plutam tarhi gṛhṇīyāt . anaṇtvāt na grahīṣyati . evam tarhi siddhe sati yat apratyayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : bhāvyamānena savarṇānām grahaṇam na iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,१७८।८-१७९।१२ रो इ,५२८-५३१ किमर्थम् पुनः इदम् उच्यते । अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् । अण् सवर्णस्य इति उच्यते । स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् । इष्यते च सवर्णग्रहणम् स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् अनुपदेशात् । तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति । किम् कारणम् । अनुपदेशात् । यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् । ह्रस्वानाम् च क्रियते । ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् । ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति । ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् शब्दस्य अवचनम् । ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः । तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते । एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । किम् परा सूत्रात् क्रियते इति अतः अवरकाला । न इति आह । सर्वथा अवरकाला एव । वर्णानाम् उपदेशः तावत् । उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति । सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न । तस्मात् उपदेशः । तस्मात् उपदेशः कर्तव्यः । तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् । तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च । किम् कारणम् । अनण्त्वात् । न हि एते अणः ये अनुवृत्तिनिर्देशे । के तर्हि । ये अक्षरसमाम्नाये उपदिश्यन्ते । एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न । उच्यते च इदम् अण् सवर्णान् गृह्णाति इति । तत्र वचनात् भविष्यति । वचनात् यत्र तत् न अस्ति । न इदम् वचनात् लभ्यम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् ।
KA I,178.8-179.12 Ro I,528-531 kimartham punaḥ idam ucyate . aṇ savarṇasya iti svarānunāsikyakālabhedāt . aṇ savarṇasya iti ucyate . svarabhedāt ānunāsikyabhedāt kālabhedāt ca aṇ savarṇān na gṛhṇīyāt . iṣyate ca savarṇagrahaṇam syāt iti . tat ca antareṇa yatnam na sidhyati iti evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra pratyāhāragrahaṇe savarṇāgrahaṇam anupadeśāt . tatra pratyāhāragrahaṇe savarṇānām grahaṇam na prāpnoti : akaḥ savarṇe dīrghaḥ iti . kim kāraṇam . anupadeśāt . yathājātīyakānām sañjñā kṛtā tathājātīyakānām sampratyāyikā syāt . hrasvānām ca kriyate . hrasvānām eva sampratyāyikā syāt dīrghānām na syāt . nanu ca hrasvāḥ pratīyamānāḥ dīrghān sampratyāyayiṣyanti . hrasvasampratyayāt iti cet uccāryamāṇasampratyāyakatvāt śabdasya avacanam . hrasvasampratyayāt iti cet uccāryamāṇaḥ śabdaḥ sampratyāyakaḥ bhavati na sampratīyamanaḥ . tat yathā ṛk iti ukte sampāṭhamātram gamyate na asyāḥ arthaḥ gamyate . evam tarhi varṇapāṭhe eva upadeśaḥ kariṣyate . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . kim parā sūtrāt kriyate iti ataḥ avarakālā . na iti āha . sarvathā avarakālā eva . varṇānām upadeśaḥ tāvat . upadeśottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ . pratyāhārottarakālā savarṇasañjñā . savarṇasañjñottarakālam aṇudit savarṇasya ca apratyayaḥ iti . sā eṣā upadeśottarakālā avarakālā satī varṇānām utpattau nimittatvāya kalpayiṣyate iti tat na . tasmāt upadeśaḥ . tasmāt upadeśaḥ kartavyaḥ . tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti : asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttinirdeśe . ke tarhi . ye akṣarasamāmnāye upadiśyante . evam tarhi anaṇtvāt anuvṛttau na anupadeśāt ca pratyāhāre na . ucyate ca idam aṇ savarṇān gṛhṇāti iti . tatra vacanāt bhaviṣyati . vacanāt yatra tat na asti . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . ye ete pratyāhārāṇām āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam yathā syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इ,१७९।१२-१८०।१२ रो इ,५३१-५३५ एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । कुतः । आकृतिग्रहणात् । अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । ननु च अन्या आकृतिः अकारस्य आकारस्य च । अनन्यत्वात् च । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् भविष्यति । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । तद्वत् च हल्ग्रहणेषु । एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति । झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति । अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् । द्रुतविलम्बितयोः च अनुपदेशात् । द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति । यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । वृत्तिपृथक्त्वम् तु न उपपद्यते । वृत्तेः तु पृथक्त्वम् न उपपद्यते । तस्मात् तत्र तपरनिर्देशात् सिद्धम् । तस्मात् तत्र तपरनिर्देशः कर्तव्यः । न कर्तव्यः । क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति ।
KA I,179.12-180.12 Ro I,531-535 evam tarhi savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt . savarṇe aṇgrahaṇam aparibhāṣyam . kutaḥ . ākṛtigrahaṇāt . avarṇākṛtiḥ upadiṣṭā sā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . nanu ca anyā ākṛtiḥ akārasya ākārasya ca . ananyatvāt ca . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . aparaḥ āha : savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam . savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam bhaviṣyati . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . tadvat ca halgrahaṇeṣu . evam ca kṛtvā ca halgrahaṇeṣu siddham bhavati . jhalaḥ jhali : avāttām avāttam avātta yatra etat na asti aṇ savarṇān gṛhṇāti iti . anekāntaḥ hi ananyatvakaraḥ iti uktārtham . drutavilambitayoḥ ca anupadeśāt . drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt siddham iti . yat ayam kasyām cit vṛttau varṇān upadiśya sarvatra kṛtī bhavati . asti prayojanam etat . kim tarhi iti . vṛttipṛthaktvam tu na upapadyate . vṛtteḥ tu pṛthaktvam na upapadyate . tasmāt tatra taparanirdeśāt siddham . tasmāt tatra taparanirdeśaḥ kartavyaḥ . na kartavyaḥ . kriyate etat nyāse eva : ataḥ bhisaḥ ais iti .
Sanskrit only: no published translation is held for this verse.