क्अ इ,१८७।१-१८८।२३ रो इ,५५५-५६१ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् । पदाधिकारे किम् प्रयोजनम् । प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या । अङ्गाधिकारे किम् प्रयोजनम् । महदप्स्वसृतॄणाम् दीर्घविधौ । महदप्स्वसृतॄणाम् दीर्घविधौ प्रयोजनम् : महान् , परममहान् । महत् । अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति । अप् । स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः । स्वसृ । नप्तृ : नप्ता नप्तारौ नप्तारः । एवम् परमनप्ता परमनप्तारौ परमनप्तारः । पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् । पद्भावः प्रयोजनम् : दिव्पदः पश्य । अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् । न अस्ति इति आह । एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः । यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् । एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् । ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति । अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे । पद् । युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् । अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना । अनडुहः नुम् : अनड्वान् , परमानड्वान् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका । स्त्रीग्रहणम् च प्रयोजनम् । स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः । वर्णग्रहणम् च सर्वत्र । वर्णग्रहणम् च सर्वत्र प्रयोजनम् । क्व सर्वत्र । अङ्गाधिकारे च अन्यत्र च । अन्यत्र उदाहृतम् । आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यात् : आभ्याम् । घटाभ्याम् इति अत्र न स्यात् । प्रत्ययग्रहणम् च अपञ्चम्याः । प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् : यञिञोः फक् भवति । गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः । अपञ्चम्याः इति किमर्थम् । दृषत्तीर्णा परिषत्तीर्णा । अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् । किम् प्रयोजनम् । हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् । उद्ग्रहणे गर्मुद्ग्रहणम् । स्त्रीग्रहणे शस्त्रीग्रहणम् । सङ्ग्रहणे पायसम् करोति इति मा भूत् । किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् । न च इदम् तत् न अपि तदुत्तरपदम् । तत् न वक्तव्यम् भवति । किम् पुनः अत्र ज्यायः । तदन्तविधिः एव ज्यायान् । इदम् अपि सिद्धम् भवति : परमातिमहान् । एतत् हि न एव तत् न अपि तदुत्तरपदम् । अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति । अन् : राज्ञा इति अर्थवता साम्ना इति अनर्थकेन । अन् । इन् : दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन । इन् । अस् : सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन । अस् । मन् : सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।
KA I,187.1-188.23 Ro I,555-561 padāṅgādhikāre tasya ca taduttarapadasya ca . padāṅgādhikāre tasya ca taduttarapadasya ca iti vaktavyam . padādhikāre kim prayojanam . prayojanam iṣṭikeṣīkāmālānām citatūlabhāriṣu : iṣṭakacitam cinvīta , pakveṣṭikcitam cinvīta , iṣīkatūlena muñjeṣīkatūlena mālabhāriṇī kanyā , utpalamālabhāriṇī kanyā . aṅgādhikāre kim prayojanam . mahadapsvasṛtṝṇām dīrghavidhau . mahadapsvasṛtṝṇām dīrghavidhau prayojanam : mahān , paramamahān . mahat . ap : āpaḥ tiṣṭhanti , svāpaḥ tiṣṭhanti . ap . svasṛ : svasā svasārau svasāraḥ , paramasvasā paramasvasārau paramasvasāraḥ . svasṛ . naptṛ : naptā naptārau naptāraḥ . evam paramanaptā paramanaptārau paramanaptāraḥ . padyuṣmadasmadasthyādyanḍuhaḥ num . padbhāvaḥ prayojanam : divpadaḥ paśya . asti ca idānīm kaḥ cit kevalaḥ pācchabhdaḥ yadarthaḥ vidhiḥ syāt . na asti iti āha . evam tarhi aṅgādhikāre prayojanam na asti iti kṛtvā padādhikārasya idam prayojanam uktam : himakāṣihatiṣu ca : yathā patkāṣiṇau patkāṣiṇaḥ evam paramapatkāṣiṇau paramapatkāṣiṇaḥ . yadi tarhi padādhikāre pādasya tadantavidhiḥ bhavati pādasya pada ājyatigopahateṣu : yathā iha bhavati : pādena upahatam padopahatam atra api syāt : digdhapādena upahatam digdhapādopahatam . evam tarhi aṅgādhikāre eva prayojanam . nanu ca uktam na asti kevalaḥ pācchabdaḥ iti . ayam asti pādayateḥ apratyayaḥ pāt : padā pade . pad . yuṣmat asmat : yūyam , vayam atiyūyam ativayam . asthyādi : asthnā dadhnā sakthnā parmāsthnā paramadadhnā paramasakthnā . anaḍuhaḥ num : anaḍvān , paramānaḍvān . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam prayojanam : dyauḥ , sudyauḥ , panthāḥ , supanthāḥ , manthāḥ , sumanthāḥ , paramamanthāḥ , pumān paramapumān , gauḥ , sugauḥ , sakhā sakhāyau sakhāyaḥ , susakhā susakhāyau susakhāyaḥ , paramasakhā paramasakhāyau paramasakhāyaḥ , catvāraḥ paramacatvāraḥ , anaḍvāhaḥ , parmānaḍvāhaḥ , trayāṇām , paramatrayāṇām . tyadādividhibhastrādistrīgrahaṇam ca . tyadādividhibhastrādistrīgrahaṇam ca prayojanam : saḥ , atisaḥ , bhastrakā bhastrikā nirbhastrakā nirbhastrikā bahubhastrakā bahubhastrikā . strīgrahaṇam ca prayojanam . striyau striyaḥ rājastriyau rājastriyaḥ . varṇagrahaṇam ca sarvatra . varṇagrahaṇam ca sarvatra prayojanam . kva sarvatra . aṅgādhikāre ca anyatra ca . anyatra udāhṛtam . āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām . ghaṭābhyām iti atra na syāt . pratyayagrahaṇam ca apañcamyāḥ . pratyayagrahaṇam ca apañcamyāḥ prayojanam : yañiñoḥ phak bhavati . gārgyāyaṇaḥ vātsyāyanaḥ paramagārgyāyaṇaḥ paramavātsyāyanaḥ . apañcamyāḥ iti kimartham . dṛṣattīrṇā pariṣattīrṇā . alā eva anarthakena na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe śastrīgrahaṇam . saṅgrahaṇe pāyasam karoti iti mā bhūt . kimartham idam ucyate na padāṅgādhikāre tasya ca taduttarapadasya ca iti eva siddham . na ca idam tat na api taduttarapadam . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . tadantavidhiḥ eva jyāyān . idam api siddham bhavati : paramātimahān . etat hi na eva tat na api taduttarapadam . aninasmangrahaṇāni ca arthavatā ca anarthakena ca tadantavidhim prayojayanti . an : rājñā iti arthavatā sāmnā iti anarthakena . an . in : daṇḍī* iti arthavatā vāgmī* iti anarthakena . in . as : supayāḥ iti arthavatā susrotāḥ iti anarthakena . as . man : suśarmā iti arthavatā suprathimā iti anarthakena .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.