Library·Patanjali: Vyakaranamahabhasya·1·1.1·1.1.72

Patanjali: Vyakaranamahabhasya 1.1.72

क्अ इ,१८२।१५-१८३।२ रो इ,५४२-५४४ इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र । अस्तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति । न एवम् शक्यम् । ये अनेकालः आदेशाः तेषु दोषः स्यात् : एचः अयवायावः इति । न एषः दोषः । यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति । तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति । यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् । अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् । तत्र कः दोषः । स्योनः , स्योना : अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत । ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः । अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति । तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् । न वक्तव्यम् । येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति । तत् यथा : देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः । एवम् इह अपि अचा धातोः यतम् विधत्ते । अकारेण प्रातिपदिकस्य इञम् विधत्ते ।

KA I,182.15-183.2 Ro I,542-544 iha kasmāt na bhavati : ikaḥ yaṇ aci : dadhi atra madhu atra . astu . alaḥ antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati . na evam śakyam . ye anekālaḥ ādeśāḥ teṣu doṣaḥ syāt : ecaḥ ayavāyāvaḥ iti . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ tadantavidhiḥ bhavati evam ādeśataḥ api bhaviṣyati . tatra ejantasya ayādyantā ādeśāḥ bhaviṣyanti . yadi ca evam kva cit vairūpyam tatra doṣaḥ syāt . api ca antaraṅgabahiraṅge na prakalpyeyātām . tatra kaḥ doṣaḥ . syonaḥ , syonā : antaraṅgalakṣaṇasya yaṇādeśasya bahiraṅgalakṣaṇaḥ guṇaḥ bādhakaḥ prasajyeta . ūnaśabdam hi āśritya yaṇādeśaḥ naśabdam āśritya guṇaḥ . alvidhiḥ ca na prakalpeta : dyauḥ , panthāḥ , saḥ iti . tasmāt prakṛte tadantavidhiḥ iti vaktavyam . na vaktavyam . yena iti karaṇe eṣā tṛtīyā anyena ca anyasya vidhiḥ bhavati . tat yathā : devadattasya samāśam śarāvaiḥ odanena ca yajñadattaḥ pratividhatte , tathā saṅgrāmam hastyaśvarathapadātibhiḥ . evam iha api acā dhātoḥ yatam vidhatte . akāreṇa prātipadikasya iñam vidhatte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८३।३-१६ रो इ,५४४-५४६ येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रसङ्गः । येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः । ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः । तत्र कः दोषः । उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् । तत्र कः दोषः । असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति । इह न स्यात् : आप्नुहि शक्नुहि इति । तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ॠकारान्तविशेषणम् स्यात् । तत्र कः दोषः । ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : सङ्कीर्णम् इति । इह च न स्यात् : निपूर्ताः पिण्डाः इति । सिद्धम् तु विशेषणविशेष्ययोः यथेष्टत्वात् । सिद्धम् एतत् । कथम् । यथेष्टम् विशेषणविशेष्ययोः योगः भवति । यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते । किम् तर्हि । उकारः एव विशेष्यते : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति । तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ॠकारान्तम् विशेष्यते । किम् तर्हि । ॠकारः एव विशेष्यते : ॠकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति ।

KA I,183.3-16 Ro I,544-546 yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhiprasaṅgaḥ . yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhitāprasaṅgaḥ . ye grahaṇopādhayaḥ te api tadantopādhayaḥ syuḥ . tatra kaḥ doṣaḥ . utaḥ ca pratyayāt asaṃyogapūrvāt iti asaṃyogapūrvagrahaṇam ukārāntviśeṣaṇam syāt . tatra kaḥ doṣaḥ . asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt:: akṣṇuhi takṣṇuhi iti . iha na syāt : āpnuhi śaknuhi iti . tathā ut oṣthyapūrvasya iti oṣṭhyapūrvagrahaṇam ṝkārāntaviśeṣaṇam syāt . tatra kaḥ doṣaḥ . oṣṭhyapūrvagrahaṇena iha ca prasajyeta : saṅkīrṇam iti . iha ca na syāt : nipūrtāḥ piṇḍāḥ iti . siddham tu viśeṣaṇaviśeṣyayoḥ yatheṣṭatvāt . siddham etat . katham . yatheṣṭam viśeṣaṇaviśeṣyayoḥ yogaḥ bhavati . yāvatā yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṃyogapūrvāt iti na asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate . kim tarhi . ukāraḥ eva viśeṣyate : ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti . tathā ut oṣthyapūrvasya iti na oṣṭhapūrvagrahaṇena ṝkārāntam viśeṣyate . kim tarhi . ṝkāraḥ eva viśeṣyate : ṝkāraḥ yaḥ oṣṭhyapūrvaḥ tadantasya dhātoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८३।१७-१८४।२५ रो इ,५४६-५५० समासप्रत्ययविधौ प्रतिषेधः । समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः । समासविधौ तावत् : द्वितीया श्रितादिभिः समस्यते : कष्टश्रितः , नरकश्रितः । कष्टम् परमश्रित इति अत्र मा भूत् । प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः । इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः । किम् अविशेषेण । न इति आह । उगिद्वर्णग्रहणवर्जम् । उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा । उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती । वर्णग्रहणम् : अतः इञ् : दाक्षिः , प्लाक्षिः । अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् । अस्ति इति आह । अततेः डः : अः , तस्य अपत्यम् : अतः इञ् इः । अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानम् । अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् । अकच्वतः : सर्वके विश्वके । अव्ययविधौ : उच्चकैः नीचकैः । श्नम्वतः : भिनत्ति छिनत्ति । किम् पुनः कारणम् न सिध्यति । इह तस्य वा ग्रहणम् भवति तदन्तस्य वा । न च इदम् तत् न अपि तदन्तम् । सिद्धम् तु तदन्तान्तवचनात् । सिद्धम् एतत् । कथम् । तदन्तान्तवचनात् । तदन्तान्तस्य इति वक्तव्यम् । किम् इदम् तदन्तान्तस्य इति । तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः । एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति । तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् । तदेकदेशभूतः तद्ग्रहणेन गृह्यते । तत् यथा गङ्गा यमुना देवदत्ता इति । अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते । विषमः उपन्यासः । इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च । पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति । द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने । के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च । तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि । शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये । इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते । ताः केन अधिकस्य स्युः । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् । पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति । ततः सककारयोः प्रतिषेधम् शास्ति ।

KA I,183.17-184.25 Ro I,546-550 samāsapratyayavidhau pratiṣedhaḥ . samāsavidhau pratyayavidhau ca pratiṣedhaḥ vaktavyaḥ . samāsavidhau tāvat : dvitīyā śritādibhiḥ samasyate : kaṣṭaśritaḥ , narakaśritaḥ . kaṣṭam paramaśrita iti atra mā bhūt . pratyayavidhau : naḍasya apatyam nāḍāyanaḥ . iha na bhavati : sūtranaḍasya apatyam sautranāḍiḥ . kim aviśeṣeṇa . na iti āha . ugidvarṇagrahaṇavarjam . ugidgrahaṇam varṇagrahaṇam ca varjayitvā . ugidgrahaṇam : bhavatī , atibhavatī mahatī , atimahatī . varṇagrahaṇam : ataḥ iñ : dākṣiḥ , plākṣiḥ . asti ca idānīm kaḥ cit kevalaḥ akāraḥ prātipadikam yadarthaḥ vidhiḥ syāt . asti iti āha . atateḥ ḍaḥ : aḥ , tasya apatyam : ataḥ iñ iḥ . akacśnamvataḥ sarvanāmāvyayadhātuvidhau upasaṅkhyānam . akacvataḥ sarvanāmāvyayavidhau śnamvataḥ dhātuvidhau upasaṅkhyānam kartavyam . akacvataḥ : sarvake viśvake . avyayavidhau : uccakaiḥ nīcakaiḥ . śnamvataḥ : bhinatti chinatti . kim punaḥ kāraṇam na sidhyati . iha tasya vā grahaṇam bhavati tadantasya vā . na ca idam tat na api tadantam . siddham tu tadantāntavacanāt . siddham etat . katham . tadantāntavacanāt . tadantāntasya iti vaktavyam . kim idam tadantāntasya iti . tasya antaḥ tadantaḥ , tadantaḥ antaḥ yasya tat idam tadantāntam , tadantāntasya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā : uṣṭramukham iva mukham asya : uṣṭramukhaḥ , kharamukhaḥ . evam iha api tadantaḥ antaḥ yasya tadantasya iti . tadekadeśavijñānāt vā siddham . tadekadeśavijñānāt vā punaḥ siddham etat . tadekadeśabhūtaḥ tadgrahaṇena gṛhyate . tat yathā gaṅgā yamunā devadattā iti . anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena gṛhyate . tathā devadattāsthaḥ garbhaḥ devadattāgrahaṇena gṛhyate . viṣamaḥ upanyāsaḥ . iha ke cit śabdāḥ aktaparimāṇānām arthānām vācakāḥ bhavanti ye ete saṅkhyāśabdāḥ parimāṇaśabdāḥ ca . pañca sapta iti : ekena api apāye na bhavanti . droṇaḥ khārī āḍhakam iti : na eva adhike bhavanti na nyūne . ke cit yāvat eva tat bhavati tāvat eva āhuḥ ye ete jātiśabdāḥ guṇaśabdāḥ ca . tailam ghṛtam iti : khāryām api bhavanti droṇe api . śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre api dravye . imāḥ ca api sañjñāḥ aktaparimāṇānām arthānām kriyante . tāḥ kena adhikasya syuḥ . evam tarhi ācāryapravṛttiḥ jñāpayati tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ idamadasoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . idamadasoḥ kāryam ucyamānam kaḥ prasaṅgaḥ yat sakakārayoḥ syāt . paśyati tu ācāryaḥ tadekadeśabhūtam tadgrahaṇena gṛhyate iti . tataḥ sakakārayoḥ pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८४।२६-१८६।२४ रो इ,५५०-५५४ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् सर्वनामाव्ययसञ्ज्ञायाम् । सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् : सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति । उपपदविधौ भयाढ्यादिग्रहणम् । उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भयङ्करः , अभयङ्करः , आढ्यङ्करणम् , खाड्यङ्करणम् । ङीब्विधौ उगिद्ग्रहणम् । ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती । प्रतिषेधे स्वस्रादिग्रहणम् । प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता । अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे । अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता । दिति । दितिग्रहणम् च प्रयोजनम् । दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः । दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति । रोण्याः अण् । रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सैंहकरोणः । तस्य च । तस्य च इति वक्तव्यम् : रौणः । किम् पुनः कारणम् न सिध्यति । तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन । व्यप्देशिवद्भावः अप्रातिपदिकेन । किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन । इह : सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन । सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति । न अत्र तदन्तात् उत्पत्तिः प्राप्नोति । इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह । न एतत् अस्ति प्रयोजनम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति । यत् तर्हि योगविभागम् करोति । इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् । किम् पुनः अयम् अस्य एव शेषः : तस्य च इति । न इति आह । यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति । रथसीताहलेभ्यः यद्विधौ । रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या । सुसर्वार्धदिक्शब्देभ्यः जनपदस्य । सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् : सुपाञ्चालकः , सुमागधकः । सु । सर्व : सर्वपाञ्चालकः , सर्वमागधकः । सर्व । अर्ध : अर्धपाञ्चालकः , अर्धमागधकः । अर्ध । दिक्शब्द : पूर्वपाञ्चालकः , पूर्वमागधकः । ऋतोः वृद्धिमद्विधौ अवयवानाम् । ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् : पूर्वशारदम् , अपरशारदम् , पूर्वनैदाघम् , अपरनैदाघम् । ठञ्विधौ सङ्ख्यायाः । ठञ्विधौ सङ्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , पञ्चषाष्टिकम् । धर्मात् नञः । धर्मात् नञः प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः । अधर्मात् च इति न वक्तव्यम् भवति ।

KA I,184.26-186.24 Ro I,550-554 kāni punaḥ asya yogasya prayojanāni . prayojanam sarvanāmāvyayasañjñāyām . sarvanāmāvyayasañjñāyām prayojanam : sarve paramasarve viśve paramaviśve , uccaiḥ , paramoccaiḥ , nīcaiḥ , paramanīcaiḥ iti . upapadavidhau bhayāḍhyādigrahaṇam . upapadavidhau bhayāḍhyādigrahaṇam prayojanam : bhayaṅkaraḥ , abhayaṅkaraḥ , āḍhyaṅkaraṇam , khāḍyaṅkaraṇam . ṅībvidhau ugidgrahaṇam . ṅībvidhau ugidgrahaṇam prayojanam : bhavatī , atibhavatī mahatī , atimahatī . pratiṣedhe svasrādigrahaṇam . pratiṣedhe svasrādigrahaṇam prayojanam : svasā paramasvasā duhitā paramaduhitā . aparimāṇabistādigrahaṇam ca pratiṣedhe . aparimāṇabistādigrahaṇam ca pratiṣedhe prayojanam . aparimāṇabistācitakambalebhyaḥ na taddhitaluki : dvibistā dviparamabistā tribistā triparamabistā dvyācitā dviparamācitā . diti . ditigrahaṇam ca prayojanam . diteḥ apatyam daityaḥ , aditeḥ apatyam ādityaḥ . dityadityāditya iti aditigrahaṇam na kartavyam bhavati . roṇyāḥ aṇ . roṇyāḥ aṇgrahaṇam ca prayojanam : ājakaroṇaḥ , saiṃhakaroṇaḥ . tasya ca . tasya ca iti vaktavyam : rauṇaḥ . kim punaḥ kāraṇam na sidhyati . tadantāt ca tadantavidhinā siddham kevalāt ca vyapdeśivadbhāvena . vyapdeśivadbhāvaḥ aprātipadikena . kim punaḥ kāraṇam vyapdeśivadbhāvaḥ aprātipadikena . iha : sūtrāntāt ṭhak bhavati daśāntāt ḍaḥ bhavati iti : kevalāt utpattiḥ mā bhūt iti . na etat asti prayojanam . siddham atra tadantāt ca tadantavidhinā kevalāt ca vyapdeśivadbhāvena . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tat jñāpayati ācāryaḥ sūtrāntāt eva daśāntāt eva iti . na atra tadantāt utpattiḥ prāpnoti . idānīm eva hi uktam : samāsapratyayavidhau pratiṣedhaḥ iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati vyapdeśivadbhāvaḥ aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt ca iti āha . na etat asti prayojanam . asti hi anyat etasya vacane prayojanam . kim . sapūrvāt pūrvāt inim vakṣyāmi iti . yat tarhi yogavibhāgam karoti . itarathā hi pūrvāt sapūrvāt iti eva brūyāt . kim punaḥ ayam asya eva śeṣaḥ : tasya ca iti . na iti āha . yat ca anukrāntam yat ca anukraṃsayte sarvasya eva śeṣaḥ tasya ca iti . rathasītāhalebhyaḥ yadvidhau . rathasītāhalebhyaḥ yadvidhau prayojanam : rathyaḥ , paramarathyaḥ , sītyam , paramasītyam , halyā paramahalyā . susarvārdhadikśabdebhyaḥ janapadasya . susarvārdhadikśabdebhyaḥ janapadasya prayojanam : supāñcālakaḥ , sumāgadhakaḥ . su . sarva : sarvapāñcālakaḥ , sarvamāgadhakaḥ . sarva . ardha : ardhapāñcālakaḥ , ardhamāgadhakaḥ . ardha . dikśabda : pūrvapāñcālakaḥ , pūrvamāgadhakaḥ . ṛtoḥ vṛddhimadvidhau avayavānām . ṛtoḥ vṛddhimadvidhau avayavānām prayojanam : pūrvaśāradam , aparaśāradam , pūrvanaidāgham , aparanaidāgham . ṭhañvidhau saṅkhyāyāḥ . ṭhañvidhau saṅkhyāyāḥ prayojanam : dviṣāṣṭikam , pañcaṣāṣṭikam . dharmāt nañaḥ . dharmāt nañaḥ prayojanam : dharmam carati dhārmikaḥ , adharmam carati ādharmikaḥ . adharmāt ca iti na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८७।१-१८८।२३ रो इ,५५५-५६१ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् । पदाधिकारे किम् प्रयोजनम् । प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या । अङ्गाधिकारे किम् प्रयोजनम् । महदप्स्वसृतॄणाम् दीर्घविधौ । महदप्स्वसृतॄणाम् दीर्घविधौ प्रयोजनम् : महान् , परममहान् । महत् । अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति । अप् । स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः । स्वसृ । नप्तृ : नप्ता नप्तारौ नप्तारः । एवम् परमनप्ता परमनप्तारौ परमनप्तारः । पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् । पद्भावः प्रयोजनम् : दिव्पदः पश्य । अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् । न अस्ति इति आह । एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः । यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् । एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् । ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति । अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे । पद् । युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् । अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना । अनडुहः नुम् : अनड्वान् , परमानड्वान् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका । स्त्रीग्रहणम् च प्रयोजनम् । स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः । वर्णग्रहणम् च सर्वत्र । वर्णग्रहणम् च सर्वत्र प्रयोजनम् । क्व सर्वत्र । अङ्गाधिकारे च अन्यत्र च । अन्यत्र उदाहृतम् । आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यात् : आभ्याम् । घटाभ्याम् इति अत्र न स्यात् । प्रत्ययग्रहणम् च अपञ्चम्याः । प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् : यञिञोः फक् भवति । गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः । अपञ्चम्याः इति किमर्थम् । दृषत्तीर्णा परिषत्तीर्णा । अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् । किम् प्रयोजनम् । हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् । उद्ग्रहणे गर्मुद्ग्रहणम् । स्त्रीग्रहणे शस्त्रीग्रहणम् । सङ्ग्रहणे पायसम् करोति इति मा भूत् । किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् । न च इदम् तत् न अपि तदुत्तरपदम् । तत् न वक्तव्यम् भवति । किम् पुनः अत्र ज्यायः । तदन्तविधिः एव ज्यायान् । इदम् अपि सिद्धम् भवति : परमातिमहान् । एतत् हि न एव तत् न अपि तदुत्तरपदम् । अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति । अन् : राज्ञा इति अर्थवता साम्ना इति अनर्थकेन । अन् । इन् : दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन । इन् । अस् : सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन । अस् । मन् : सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।

KA I,187.1-188.23 Ro I,555-561 padāṅgādhikāre tasya ca taduttarapadasya ca . padāṅgādhikāre tasya ca taduttarapadasya ca iti vaktavyam . padādhikāre kim prayojanam . prayojanam iṣṭikeṣīkāmālānām citatūlabhāriṣu : iṣṭakacitam cinvīta , pakveṣṭikcitam cinvīta , iṣīkatūlena muñjeṣīkatūlena mālabhāriṇī kanyā , utpalamālabhāriṇī kanyā . aṅgādhikāre kim prayojanam . mahadapsvasṛtṝṇām dīrghavidhau . mahadapsvasṛtṝṇām dīrghavidhau prayojanam : mahān , paramamahān . mahat . ap : āpaḥ tiṣṭhanti , svāpaḥ tiṣṭhanti . ap . svasṛ : svasā svasārau svasāraḥ , paramasvasā paramasvasārau paramasvasāraḥ . svasṛ . naptṛ : naptā naptārau naptāraḥ . evam paramanaptā paramanaptārau paramanaptāraḥ . padyuṣmadasmadasthyādyanḍuhaḥ num . padbhāvaḥ prayojanam : divpadaḥ paśya . asti ca idānīm kaḥ cit kevalaḥ pācchabhdaḥ yadarthaḥ vidhiḥ syāt . na asti iti āha . evam tarhi aṅgādhikāre prayojanam na asti iti kṛtvā padādhikārasya idam prayojanam uktam : himakāṣihatiṣu ca : yathā patkāṣiṇau patkāṣiṇaḥ evam paramapatkāṣiṇau paramapatkāṣiṇaḥ . yadi tarhi padādhikāre pādasya tadantavidhiḥ bhavati pādasya pada ājyatigopahateṣu : yathā iha bhavati : pādena upahatam padopahatam atra api syāt : digdhapādena upahatam digdhapādopahatam . evam tarhi aṅgādhikāre eva prayojanam . nanu ca uktam na asti kevalaḥ pācchabdaḥ iti . ayam asti pādayateḥ apratyayaḥ pāt : padā pade . pad . yuṣmat asmat : yūyam , vayam atiyūyam ativayam . asthyādi : asthnā dadhnā sakthnā parmāsthnā paramadadhnā paramasakthnā . anaḍuhaḥ num : anaḍvān , paramānaḍvān . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam prayojanam : dyauḥ , sudyauḥ , panthāḥ , supanthāḥ , manthāḥ , sumanthāḥ , paramamanthāḥ , pumān paramapumān , gauḥ , sugauḥ , sakhā sakhāyau sakhāyaḥ , susakhā susakhāyau susakhāyaḥ , paramasakhā paramasakhāyau paramasakhāyaḥ , catvāraḥ paramacatvāraḥ , anaḍvāhaḥ , parmānaḍvāhaḥ , trayāṇām , paramatrayāṇām . tyadādividhibhastrādistrīgrahaṇam ca . tyadādividhibhastrādistrīgrahaṇam ca prayojanam : saḥ , atisaḥ , bhastrakā bhastrikā nirbhastrakā nirbhastrikā bahubhastrakā bahubhastrikā . strīgrahaṇam ca prayojanam . striyau striyaḥ rājastriyau rājastriyaḥ . varṇagrahaṇam ca sarvatra . varṇagrahaṇam ca sarvatra prayojanam . kva sarvatra . aṅgādhikāre ca anyatra ca . anyatra udāhṛtam . āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām . ghaṭābhyām iti atra na syāt . pratyayagrahaṇam ca apañcamyāḥ . pratyayagrahaṇam ca apañcamyāḥ prayojanam : yañiñoḥ phak bhavati . gārgyāyaṇaḥ vātsyāyanaḥ paramagārgyāyaṇaḥ paramavātsyāyanaḥ . apañcamyāḥ iti kimartham . dṛṣattīrṇā pariṣattīrṇā . alā eva anarthakena na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe śastrīgrahaṇam . saṅgrahaṇe pāyasam karoti iti mā bhūt . kimartham idam ucyate na padāṅgādhikāre tasya ca taduttarapadasya ca iti eva siddham . na ca idam tat na api taduttarapadam . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . tadantavidhiḥ eva jyāyān . idam api siddham bhavati : paramātimahān . etat hi na eva tat na api taduttarapadam . aninasmangrahaṇāni ca arthavatā ca anarthakena ca tadantavidhim prayojayanti . an : rājñā iti arthavatā sāmnā iti anarthakena . an . in : daṇḍī* iti arthavatā vāgmī* iti anarthakena . in . as : supayāḥ iti arthavatā susrotāḥ iti anarthakena . as . man : suśarmā iti arthavatā suprathimā iti anarthakena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८८।२४-१८९।२ रो इ,५६१ यस्मिन् विधिः तदादौ अल्ग्रहणे । अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् । किम् प्रयोजनम् । अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् : श्रियौ भ्रुवौ । श्रियः , भ्रुवः इति अत्र न स्यात् ।

KA I,188.24-189.2 Ro I,561 yasmin vidhiḥ tadādau algrahaṇe . algrahaṇeṣu yasmin vidhiḥ tadādau iti vaktavyam . kim prayojanam . aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti iha eva syāt : śriyau bhruvau . śriyaḥ , bhruvaḥ iti atra na syāt .

Sanskrit only: no published translation is held for this verse.