क्अ इ,२२६।२०-२२७।१० रो इइ,९८-१०० व्यक्तिवचने इति किमर्थम् । शिरीषाणाम् अदूरभवः ग्रामः शिरीषाः । तस्य ग्रामस्य वनम् शिरीषवनम् । किम् च स्यात् । विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत । अपरः आह : कटुबदर्याः अदूरभवः ग्रामः कटुबदरी । षष्ठी युक्तवद्भावेन मा भूत् इति । अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति । षष्ठी अपि हि वचनम् । न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् : उच्यते वचनम् इति । एवम् अपि षष्ठी प्राप्नोति । षष्ठी अपि हि उच्यते । लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति । आतिदेशिकी तर्हि प्राप्नोति । एवम् तर्हि प्राक् अपि वृत्तेः युक्तम् वृत्तम् च अपि । इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लिङ्गसङ्ख्ये ये । प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् । वृत्ते च युक्तवद्भावः विधीयते । कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लिङ्गसङ्ख्ये ते* अतिदेष्टुम् वृत्तस्य वा ये लिङ्गसङ्ख्ये । यावता कार्मचारः वृत्तस्य ये लिङ्गसङ्ख्ये ते* अतिदिश्येते न प्राक् वृत्तेः ये ।
KA I,226.20-227.10 Ro II,98-100 vyaktivacane iti kimartham . śirīṣāṇām adūrabhavaḥ grāmaḥ śirīṣāḥ . tasya grāmasya vanam śirīṣavanam . kim ca syāt . vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta . aparaḥ āha : kaṭubadaryāḥ adūrabhavaḥ grāmaḥ kaṭubadarī . ṣaṣṭhī yuktavadbhāvena mā bhūt iti . atha vyaktivacane iti api ucyamāne kasmāt eva atra na bhavati . ṣaṣṭhī api hi vacanam . na idam pāribhāṣikasya vacanasya grahaṇam . kim tarhi . anvarthagrahaṇam : ucyate vacanam iti . evam api ṣaṣṭhī prāpnoti . ṣaṣṭhī api hi ucyate . lupā uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . ātideśikī tarhi prāpnoti . evam tarhi prāk api vṛtteḥ yuktam vṛttam ca api . iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk vṛtteḥ liṅgasaṅkhye ye . prāk api vṛtteḥ yuktam vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ nagaram . vṛtte ca yuktavadbhāvaḥ vidhīyate . kāmacāraḥ ca prayoktuḥ prāk vṛtteḥ ye liṅgasaṅkhye te* atideṣṭum vṛttasya vā ye liṅgasaṅkhye . yāvatā kārmacāraḥ vṛttasya ye liṅgasaṅkhye te* atidiśyete na prāk vṛtteḥ ye .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.