क्अ इ,४१६।२-४१७।६ रो इइ,६८६-६९० प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः । वृक्षम् प्रति विद्योतते विद्युत् । साधुः देवदत्तः मातरम् प्रति । व्यवेतप्रतिषेधः च । व्यवेतानाम् च प्रतिषेधः वक्तव्यः । अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः । सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् । सिद्धम् एतत् । कथम् । क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् । कु । कुब्राह्मणः कुवृषलः । आङ् । आकडारः आपिङ्गलः । सु । सुब्राह्मणः सुवृषलः । अत् । अतिब्राह्मणः अतिवृषलः । दुर् । दुर्ब्राह्मणः । गति । प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् । प्रादयः क्तार्थे । प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । एतत् एव च सौनागैः विस्तरतरकेण पठितम् । स्वती पूजायाम् । स्वतीपूजायाम् इति वक्तव्यम् । सुराजा अतिराजा । दुः निन्दायाम् । दुः निन्दायाम् इति वक्तव्यम् । दुष्कुलम् दुर्गवः । आङ् ईषदर्थे । आङ् ईषदर्थे इति वक्तव्यम् । आकडारः आपिङ्गलः । कुः पापार्थे । कुः पापार्थेइति वक्तव्यम् । कुब्राह्मणः कुवृषलः । प्रादयः गताद्यर्थे प्रथमया । प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् । अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया । अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् । अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् । परिग्लानः अध्ययनाय पर्यधयनः । निरादयः क्रान्ताद्यर्थे पञ्चम्या । निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः । अव्ययम् प्रवृद्धादिभिः । अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् । पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् । इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च । वाससीइव कन्येइव । उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् । अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।
KA I,416.2-417.6 Ro II,686-690 prādiprasaṅge karmapravacanīyapratiṣedhaḥ . prādiprasaṅge karmapravacanīyānām pratiṣedhaḥ vaktavyaḥ . vṛkṣam prati vidyotate vidyut . sādhuḥ devadattaḥ mātaram prati . vyavetapratiṣedhaḥ ca . vyavetānām ca pratiṣedhaḥ vaktavyaḥ . a mandraiḥ indra haribhiḥ yahi mayuraromabhiḥ . siddham tu kvāṅsvatidurgativacanāt . siddham etat . katham . kvāṅsvatidurgatayaḥ samasyante iti vaktavyam . ku . kubrāhmaṇaḥ kuvṛṣalaḥ . āṅ . ākaḍāraḥ āpiṅgalaḥ . su . subrāhmaṇaḥ suvṛṣalaḥ . at . atibrāhmaṇaḥ ativṛṣalaḥ . dur . durbrāhmaṇaḥ . gati . prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam . prādayaḥ ktārthe . prādayaḥ ktārthe samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam . svatī pūjāyām . svatīpūjāyām iti vaktavyam . surājā atirājā . duḥ nindāyām . duḥ nindāyām iti vaktavyam . duṣkulam durgavaḥ . āṅ īṣadarthe . āṅ īṣadarthe iti vaktavyam . ākaḍāraḥ āpiṅgalaḥ . kuḥ pāpārthe . kuḥ pāpārtheiti vaktavyam . kubrāhmaṇaḥ kuvṛṣalaḥ . prādayaḥ gatādyarthe prathamayā . prādayaḥ gatādyarthe prathamayā samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . atyādayaḥ krāntādyarthe dvitīyayā . atyādayaḥ krāntādyarthe dvitīyayā samasyante iti vaktavyam . atikrāntaḥ khaṭvām atikhaṭvaḥ atimālaḥ . avādayaḥ kruṣṭādyarthe tṛtīyayā . avādayaḥ kruṣṭādyarthe tṛtīyayā samasyante iti vaktavyam . avakruṣṭaḥ kokilayā avakokilaḥ vasantaḥ . paryādayaḥ glānādyarthe caturthyā . paryādayaḥ glānādyarthe caturthyā samasyante iti vaktavyam . pariglānaḥ adhyayanāya paryadhayanaḥ . nirādayaḥ krāntādyarthe pañcamyā . nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam . niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ nirvārāṇasiḥ . avyayam pravṛddhādibhiḥ . avyayam pravṛddhādibhiḥ samasyate iti vaktavyam . punaḥprvavṛddham barhiḥ bhavati punarṇavam punaḥsukham . ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca . vāsasīiva kanyeiva . udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam . anuvyacalat anuprāviśat yat pariyanti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.