क्अ इ,४०७।२-९ रो इइ,६५५-६५६ इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति । अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः । क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः । समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः । इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति । न वा भवति अर्धपिप्पल्यः इति । भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति । यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् । तदा कस्मात् न भवति । एकाद्खिकरणे इति वर्तते । न तर्हि इदानीम् इदम् भवति : अर्धराशिः इति । भवति । एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।
KA I,407.2-9 Ro II,655-656 iha kasmāt na bhavati : grāmārdhaḥ , nagarārdhaḥ iti . ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ . kva punaḥ ayam napuṃsakaliṅgaḥ kva puṃliṅgaḥ . samapravibhāge napuṃsakaliṅgaḥ , avayavavācī puṃliṅgaḥ . iha kasmāt na bhavati : ardham pippalīnām iti . na vā bhavati ardhapippalyaḥ iti . bhavati yadā khaṇḍasamuccayaḥ : ardhapippalī ca ardhapippalī ca ardhapippalī ca ardhapippalyaḥ iti . yada tu etat vākyam bhavati ardham pippalīnām iti tadā na bhavitavyam . tadā kasmāt na bhavati . ekādkhikaraṇe iti vartate . na tarhi idānīm idam bhavati : ardharāśiḥ iti . bhavati . ekam etat adhikaraṇam yaḥ asau rāśiḥ nāma .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४०७।११-४०८।२० रो इइ,६५७-६६० अन्यतरस्याङ्ग्रहणम् किमर्थम् । अन्यतरस्याम् समासः यथा स्यात् । समासेन मुक्ते वाक्यम् अपि यथा स्यात् । द्वितीयम् भिक्षायाः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् अपि भविष्यति । इदम् तर्हि प्रयोजनम् । एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् । भिक्षाद्वितीयम् इति । एतत् अपि न अस्ति प्रयोजनम् । अयम् अपि विभाषा षष्ठीसमासः अपि । तौ उभौ वचनात् भविष्यतः । अतः उत्तरम् पठति । द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य । द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् । किम् ज्ञाप्यते । एतत् ज्ञापयति आचार्यः । अवयवविधौ सामान्यविधिः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । भिनत्ति छिनत्ति । श्नमि कृते शप् न भवति । न एतत् अस्ति प्रयोजनम् । शबादेशाः श्यनादयः करिष्यन्ते । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् ।प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । दिक्पूर्वपदात् ङीप् । प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा । ङीप मुक्ते ङीष् न भवति । न एतत् अस्ति प्रयोजनम् । वक्ष्यति एतत् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति । इदम् तर्हि प्रयोजनम् । अर्धपिप्पली अर्धकोशातकी । एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति । उन्मत्तगङ्गम् लोहितगङ्गम् । अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति । दाक्षिः प्लाक्षिः । इञा मुक्ते अण् न भवति । यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः । तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति । अस्ति अत्र विशेषः । द्वे हि अत्र विभाषा । दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च । तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः । क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति । किम् कारणम् । पूरणेन इति प्रतिषेधात् । न एतत् पूरणान्तम् । अना एतत् पर्यवपन्नम् । एतत् अपि पूरणान्तम् एव । कथ। पूरणम् नाम अर्थः तम् आह तीयशब्दः । अतः पूरणम् । यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव । एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।
KA I,407.11-408.20 Ro II,657-660 anyatarasyāṅgrahaṇam kimartham . anyatarasyām samāsaḥ yathā syāt . samāsena mukte vākyam api yathā syāt . dvitīyam bhikṣāyāḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam api bhaviṣyati . idam tarhi prayojanam . ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt . bhikṣādvitīyam iti . etat api na asti prayojanam . ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api . tau ubhau vacanāt bhaviṣyataḥ . ataḥ uttaram paṭhati . dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam jñāpakam avayavavidhāne sāmānyavidhānābhāvasya . dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam kriyate jñāpārtham . kim jñāpyate . etat jñāpayati ācāryaḥ . avayavavidhau sāmānyavidhiḥ na bhavati iti . kim etasya jñāpane prayojanam . bhinatti chinatti . śnami kṛte śap na bhavati . na etat asti prayojanam . śabādeśāḥ śyanādayaḥ kariṣyante . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam .prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . rudhādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣthīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . evam tarhi jñāpayati ācāryaḥ yatra utsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti . kim etasya jñāpane prayojanam . dikpūrvapadāt ṅīp . prāṅmukhī prāṅmukhā pratyaṅmukhī pratyaṅmukhā . ṅīpa mukte ṅīṣ na bhavati . na etat asti prayojanam . vakṣyati etat . dikpūrvapadāt ṅīṣaḥ anudāttatvam ṅībvidhāne hi anyatra api ṅīṣviṣayāt ṅīpprasaṅgaḥ iti . idam tarhi prayojanam . ardhapippalī ardhakośātakī . ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati . unmattagaṅgam lohitagaṅgam . avyayībhāvena mukte bahuvrīhiḥ na bhavati . dākṣiḥ plākṣiḥ . iñā mukte aṇ na bhavati . yadi etat jñāpyate upagoḥ apatyam aupagavaḥ . taddhitena mukte upagvapatyam iti na sidhyati . asti atra viśeṣaḥ . dve hi atra vibhāṣā . daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām iti samarthānām prathamāt vā iti ca . tatra ekaya vṛttiḥ bhaviṣyati aparaya vṛttiviṣaye vibhāṣapavādaḥ . kriyamāṇe api vai anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti . kim kāraṇam . pūraṇena iti pratiṣedhāt . na etat pūraṇāntam . anā etat paryavapannam . etat api pūraṇāntam eva . katha. pūraṇam nāma arthaḥ tam āha tīyaśabdaḥ . ataḥ pūraṇam . yaḥ asau pūraṇāntāt svārthe bhāge an saḥ api pūraṇam eva . evam tarhi anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४०८।२२-४०९।४ रो इइ,६६० किमर्थः चकारः । अनुकरषणार्थः । अन्यतरस्याम् इति एतत् अनुकृष्यते । किम् प्रयोजनम् । अन्यतरस्याम् समासः यथा स्यात् । समासेन मुक्ते वाक्यम् अपि यथ स्यात् । जीविकाम् प्राप्तः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् भविष्यति । इदम् तर्हि प्रयोजनम् । द्वितीयासमासः अपि यथ स्यात् । जीविकाप्राप्तः इति । एतत् अपि न अस्ति प्रयोजनम्। अयम् अपि उच्यते द्वितीयासमासः अपि । तत् उभयम् वचनात् भविष्यति । एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः । किम् तर्हि । अत्वम् अनेन विधीयते । प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति । प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।
KA I,408.22-409.4 Ro II,660 kimarthaḥ cakāraḥ . anukaraṣaṇārthaḥ . anyatarasyām iti etat anukṛṣyate . kim prayojanam . anyatarasyām samāsaḥ yathā syāt . samāsena mukte vākyam api yatha syāt . jīvikām prāptaḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam bhaviṣyati . idam tarhi prayojanam . dvitīyāsamāsaḥ api yatha syāt . jīvikāprāptaḥ iti . etat api na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api . tat ubhayam vacanāt bhaviṣyati . evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ . kim tarhi . atvam anena vidhīyate . prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ iti . prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४०९।६-१२ रो इइ,६६१-६६२ किम्प्रधानः अयम् समासः । उत्तरपदार्थप्रधानः । यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् । अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति : राज्ञः पुरुषः राजपुरुषः इति । इह पुनः वाक्ये षष्ठी समासे प्रथमा । केन एतत् एवम् भवति । यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते । अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः । तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति । न तर्हि इदानीम् इदम् भवति : मासजातस्य इति । भवति । बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।
KA I,409.6-12 Ro II,661-662 kimpradhānaḥ ayam samāsaḥ . uttarapadārthapradhānaḥ . yadi uttarapadārthapradhānaḥ sadharmaṇā anena anyaiḥ uttarapadārthapradhānaiḥ bhavitavyam . anyeṣu ca uttarapadārthapradhāneṣu yā eva asau antarvartinī vibhaktiḥ tasyāḥ samāse api śravaṇam bhavati : rājñaḥ puruṣaḥ rājapuruṣaḥ iti . iha punaḥ vākye ṣaṣṭhī samāse prathamā . kena etat evam bhavati . yaḥ asau māsajātayoḥ abhisambandhaḥ saḥ samāse nivartate . abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ . tatra prātipadikārthe prathamā iti prathamā bhavati . na tarhi idānīm idam bhavati : māsajātasya iti . bhavati . bāhyam artham apekṣya ṣaṣṭhī .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४०९।१३-४१०।६ रो इइ,६६२-६६६ कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः । कालस्य येन समासः सः अपरिमाणी । तस्य अपरिमाणित्वात् अनिर्देशः । अगमकः निर्देशः अनिर्देशः । न हि जातस्य मासः परिमाणम् । कस्य तर्हि । त्रिंशद्रात्रस्य । तत् यथा । द्रोणः बदराणाम् देवदत्तस्य इति । न देवदत्तस्य द्रोणः परिमाणम् । कस्य तर्हि । बदराणाम् । सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन । सिद्धम् एतत् । कथम् । कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति । कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति । येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः । तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च । कया क्रियया । आदित्यगत्या । तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च । यदि एवम् जातस्य मासः परिमाणम् । एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् । इह मा भूत् । मासौ जातस्य मासाः जातस्य इति । द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः । उक्तम् वा । किम् उक्तम् । एकवचने तावत् उक्तम् अनभिधानात् इति । द्विगोः किम् उक्तम् । उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।
KA I,409.13-410.6 Ro II,662-666 kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ . kālasya yena samāsaḥ saḥ aparimāṇī . tasya aparimāṇitvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . na hi jātasya māsaḥ parimāṇam . kasya tarhi . triṃśadrātrasya . tat yathā . droṇaḥ badarāṇām devadattasya iti . na devadattasya droṇaḥ parimāṇam . kasya tarhi . badarāṇām . siddham tu kālaparimāṇam yasya sa kālaḥ tena . siddham etat . katham . kālaparimāṇam yasya sa kālaḥ tena samasyate iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . kam punaḥ kālam matvā bhavān āha kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . yena mūrtīnām upacayāḥ ca apacayāḥ ca lakṣyante tam kālam āhuḥ . tasya eva kayā cit kriyayā yuktasya ahaḥ iti ca bhavati rātriḥ iti ca . kayā kriyayā . ādityagatyā . tayā eva asakṛt āvṛttayā māsaḥ iti bhavati saṃvatsaraḥ iti ca . yadi evam jātasya māsaḥ parimāṇam . ekavacanadvigoḥ ca upasaṅkhyānam . ekavacanāntānām iti vaktavyam . iha mā bhūt . māsau jātasya māsāḥ jātasya iti . dvigoḥ ca iti vaktavyam iha api yathā syāt : dvimāsajātaḥ , trimāsajātaḥ . uktam vā . kim uktam . ekavacane tāvat uktam anabhidhānāt iti . dvigoḥ kim uktam . uttarapadena parimāṇina dvigoḥ samāsavacanam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१०।८-४१२।१२ रो इइ,६६६-६७७ किम्प्रधानः अयम् समासः । उत्तरपदार्थप्रधानः । यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति । अन्यपदार्थप्रधानः तर्हि भविष्यति । यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति । पूर्वपदार्थप्रधानः तर्हि भविष्यति । यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति । न एषः दोषः । पाठेन अव्ययसञ्ज्ञा क्रियते । न च नञ्समासः तत्र पठ्यते । यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते । पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति । यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् । अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः । ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति । अस्ति अत्र विशेषः । राजा विशेषकः प्रयुज्यते । तेन विशिष्टस्य आनयनम् भवति । इह अपि तर्हि नञ् विशेषकः प्रयुज्यते । तेन नञ्विशिष्टस्य आनयनम् भविष्यति । कः पुनः असौ । निवृत्तपदार्थकः । यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी । किम् च अतः । यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति । अथ वाचनिकी तत् वक्तव्यम् : नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति । एवम् तर्हि स्वाभाविकी निवृत्तिः । ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति । नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् । कीलप्रतिकीलवत् । तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति । यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः । न इति एव राजानः ब्रूयुः । एवम् तर्हि स्वाभाविकी निवृत्तिः । ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति । नञ्निमित्ता तु उपलब्धिः । तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति । यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते । एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति । न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति । तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते । एवम् वा एतत् । अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् । तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति । समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते। तद् यथा । पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति । एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च । गुणहीने तावत्। अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति । अब्राह्मणः अयं यः गच्छन् भक्षयति । जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते । सन्देहात् तावत् : गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति । ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति । तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः । दुरुपदेशात् : दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति । स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति । ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति
KA I,410.8-412.12 Ro II,666-677 kimpradhānaḥ ayam samāsaḥ . uttarapadārthapradhānaḥ . yadi uttarapadārthapradhānaḥ abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti . anyapadārthapradhānaḥ tarhi bhaviṣyati . yadi anyapadārthapradhānaḥ , avarṣā hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya api prāpnoti . pūrvapadārthapradhānaḥ tarhi bhaviṣyati . yadi pūrvapadārthapradhānaḥ avyayasañjñā prāpnoti : avyayam hi asya pūrvapadam iti . na eṣaḥ doṣaḥ . pāṭhena avyayasañjñā kriyate . na ca nañsamāsaḥ tatra paṭhyate . yadi api nañsamāsaḥ na paṭhyate nañ tu paṭhyate . pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . na idam vācanikam aliṅgatā asaṅkhyatā va . kim tarhi . svābhāvikam etat . tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat nañaḥ prāk samāsāt liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . guṅavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . atha vā punaḥ astu uttarapadārthapradhānaḥ . nanu ca uktam abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ : atha iha rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam kasmāt na bhavati . asti atra viśeṣaḥ . rājā viśeṣakaḥ prayujyate . tena viśiṣṭasya ānayanam bhavati . iha api tarhi nañ viśeṣakaḥ prayujyate . tena nañviśiṣṭasya ānayanam bhaviṣyati . kaḥ punaḥ asau . nivṛttapadārthakaḥ . yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī nivṛttiḥ āhosvit vācanikī . kim ca ataḥ . yadi svābhāvikī kim nañ prayujyamānaḥ karoti . atha vācanikī tat vaktavyam : nañ prayujyamānaḥ padārtham nivartayati iti . evam tarhi svābhāvikī nivṛttiḥ . nanu ca uktam kim nañ prayujyamānaḥ karoti iti . nañ prayujyamānaḥ padārtham nivartayati katham . kīlapratikīlavat . tat yathā kīlaḥ āhanyamānaḥ pratikīlam nirhanti . yadi etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ hastyaśvam bibhṛyuḥ . na iti eva rājānaḥ brūyuḥ . evam tarhi svābhāvikī nivṛttiḥ . nanu ca uktam kim nañ prayujyamānaḥ karoti iti . nañnimittā tu upalabdhiḥ . tat yathā samandhakāre dravyāṇām samavasthitānām pradīpnimittam darśanam na ca teṣām pradīpaḥ nirvartakaḥ bhavati . yadi punaḥ ayam nivṛttapadārthakaḥ kimartham brāhmaṇaśabdaḥ prayujyate . evam yathā vijñayeta asya padārthaḥ nivartate iti . na iti hi ukte sandehaḥ syāt kasya padārthaḥ nivartate iti . tatra asandehārtham brāhmaṇaśabdaḥ prayujyate . evam vā etat . atha vā sarve ete śabdāḥ guṇasamudāyeṣu vartante brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ iti . tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ . tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇye guṇān kurvanti . samudāyeṣu ca vṛttāḥ śabdāḥ avayaveṣu api vartante. tad yathā . pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . evam ayam samudāye brāhmaṇaśabdaḥ pravṛttaḥ avayaveṣu api vartate jātihīne guṇahīne ca . guṇahīne tāvat. abrāhmaṇaḥ ayam yaḥ tiṣṭhan mūtrayati . abrāhmaṇaḥ ayaṃ yaḥ gacchan bhakṣayati . jātihīne sandehāt durupadeśāt ca brāhmaṇaśabdaḥ vartate . sandehāt tāvat : gauram śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti . tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti . tatra sandehāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ . durupadeśāt : durupadiṣṭam asya bhavati amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti . sa tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam iti . tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१२।१४-१६ रो इइ,६७७ ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् । अकृता इति उच्यमाने इह च प्रसज्येत । ईषत् गार्ग्यः इति । इह च न स्यात् । ईषत्कडारः ।
KA I,412.14-16 Ro II,677 īṣat guṇavacanena .īṣat guṇavacanena iti vaktavyam . akṛtā iti ucyamāne iha ca prasajyeta . īṣat gārgyaḥ iti . iha ca na syāt . īṣatkaḍāraḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१२।१८-४१३।१३ रो इइ,६७८-६८० कृद्योगा च । कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् । इध्मप्रव्रश्चनः पलाशशातनः । किमर्थम् इदम् उच्यते । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः । का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा । सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा । कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा । तत्स्थैः च गुणैः । तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् । ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः । न तु तद्विशेषणैः । न तु तद्विशेषणैः इति वक्तव्यम् । इह मा भूत् । घृतस्य तीव्रः चन्दनस्य मृदुः इति । किमर्थम् इदम् उच्यते । गुणेन इति प्रतिषेधम् वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः । किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते । न एवम् शक्यम् । इह हि न स्यात् । काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति । एतत् एव तस्मिन् योगे उदाहरणम् । यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः । तस्मात् गुणेन न इति वक्तव्यम् । गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् । तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।
KA I,412.18-413.13 Ro II,678-680 kṛdyogā ca . kṛdyogā ca ṣaṣṭhī samasyate iti vaktavyam . idhmapravraścanaḥ palāśaśātanaḥ . kimartham idam ucyate . pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati . tasya ayam purastāt apakarṣaḥ . kā punaḥ ṣaṣṭhīpratipadavidhānā kā kṛdyogā . sarvā ṣaṣṭhī pratipadavidhānā śeṣalakṣaṇām varjayitvā . kartṛkarmaṇoḥ kṛti iti yā ṣaṣṭhī sā kṛdyogā . tatsthaiḥ ca guṇaiḥ . tatsthaiḥ ca guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam . brāhmaṇavarṇaḥ candanagandhaḥ paṭahaśabdaḥ nadhīghoṣaḥ . na tu tadviśeṣaṇaiḥ . na tu tadviśeṣaṇaiḥ iti vaktavyam . iha mā bhūt . ghṛtasya tīvraḥ candanasya mṛduḥ iti . kimartham idam ucyate . guṇena iti pratiṣedham vakṣyati . tasya ayam purastāt apakarṣaḥ . kim kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena iti ucyate . na evam śakyam . iha hi na syāt . kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . etat eva tasmin yoge udāharaṇam . yat vai brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ . tasmāt guṇena na iti vaktavyam . guṇena na iti ucyamāne tatsthaiḥ ca guṇaiḥ iti vaktavyam . tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti vaktavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१३।१५-१७ रो इइ,६८१ प्रतिपदविधाना च । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् । इह मा भूत् । सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।
KA I,413.15-17 Ro II,681 pratipadavidhānā ca . pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam . iha mā bhūt . sarpiṣaḥ jñānam madhunaḥ jñānam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१३।१९-४१४।२१ रो इइ,६८१-६८४ गुणे किम् उदाहरणम् । ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति । न एतत् अस्ति प्रयोजनम् । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः । इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति । इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति । ननु च उक्तम् । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति । न एषः दोषः । भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति । सति किम् उदाहरणम् । ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः । न एतत् अस्ति । प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति । या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति । तत्र अस्मार्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते ओदनः । इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् । ननु च अत्र अपि प्रतिषिध्यते । वक्ष्यति एतत् द्विषः शतुः वावचनम् इति । अव्यये किम् उदाहरणम् । ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते आसनम् । इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति । एतत् अपि न अस्ति । प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति । या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति । तत्र अस्मार्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते कटः । इदम् तर्हि । पुरा सूर्यस्य उदेतोः आधेयः । पुरा वत्सानाम् अपाकर्तोः । ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा । वक्ष्यति एतत् । अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति । समानाधिकरणे किम् उदाहरणम् । राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । इदम् तर्हि । सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति । ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । अधात्वभिहितम् इति एवम् तत् ।
KA I,413.19-414.21 Ro II,681-684 guṇe kim udāharaṇam . brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . na etat asti prayojanam . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ . idam tarhi kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . idam api udāharaṇam brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . nanu ca uktam . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ iti . na eṣaḥ doṣaḥ . bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam tadā vṛttiḥ prāpnoti . sati kim udāharaṇam . brahmaṇasya pakṣyan brāhmaṇasya pakṣyamāṇaḥ . na etat asti . pratiṣidhyate atra ṣaṣṭhī laprayoge na iti . yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . tatra asmārthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate odanaḥ . idam tarhi caurasya dviṣan vṛṣalasya dviṣan . nanu ca atra api pratiṣidhyate . vakṣyati etat dviṣaḥ śatuḥ vāvacanam iti . avyaye kim udāharaṇam . brāhmaṇasya uccaiḥ vṛṣalasya nīcaiḥ iti . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate āsanam . idan tarhi brāhmaṇasya kṛṭvā vṛṣalasya kṛtvā iti . etat api na asti . pratiṣidhyate tatra ṣaṣṭhī avyayaprayoge na iti . yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . tatra asmārthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate kaṭaḥ . idam tarhi . purā sūryasya udetoḥ ādheyaḥ . purā vatsānām apākartoḥ . nanu ca atra api pratiṣidhyate avyayam iti kṛtvā . vakṣyati etat . avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ iti . samānādhikaraṇe kim udāharaṇam . rājñaḥ pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . idam tarhi . sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti . nanu ca atra api asāmarthyāt eva na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . adhātvabhihitam iti evam tat .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१४।२३-४१५।१९ रो इइ,६८४-६८६ कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति । कुतः सन्देहः । उभयम् प्रकृतम् । तत्र अन्यतरत् शक्यम् विशेषयितुम् । कः च अत्र विशेषः । कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम् । कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः । इध्मप्रव्रश्चनः पलाशशातनः । तृककाभ्यम् च अनर्थकः प्रतिषेधः । तृककाभ्यम् च अनर्थकः प्रतिषेधः । अपाम् स्रष्टा । कर्मणि इति एव सिद्धम् । अस्तु तर्हि कर्मणि यः क्तः इति । किम् उदाहरणम् । ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति । क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः । क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । समासः कस्मात् न भवति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते ओदनः । प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् । ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति । पूजायाम् च प्रतिषेधानर्थक्यम् । पूजायाम् च प्रतिषेधः अनर्थः । राज्ञाम् पूजितः । कर्मणि इति एव सिद्धम् । तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः । तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः इत्यर्थे अयम् चः पठितः । कमणि च । कर्मणि इति एवम् या षष्ठी इति ।
KA I,414.23-415.19 Ro II,684-686 katham idam vijñāyate karmaṇi yā ṣaṣṭhī sā na samasyate iti āhosvit karmaṇi yaḥ ktaḥ iti . kutaḥ sandehaḥ . ubhayam prakṛtam . tatra anyatarat śakyam viśeṣayitum . kaḥ ca atra viśeṣaḥ . karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsavacanam . karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsaḥ vaktavyaḥ . idhmapravraścanaḥ palāśaśātanaḥ . tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ . tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ . apām sraṣṭā . karmaṇi iti eva siddham . astu tarhi karmaṇi yaḥ ktaḥ iti . kim udāharaṇam . brāhmaṇasya bhuktam vṛṣalasya pītam iti . ktanirdeśe asamarthatvāt apratiṣedhaḥ . ktanirdeśe asamarthatvāt apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . samāsaḥ kasmāt na bhavati . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate odanaḥ . pratiṣedhyam iti cet kartari api pratiṣedhaḥ .atha evam sati pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ syāt . brāhmaṇasya gataḥ brāhmaṇasya yātaḥ iti . pūjāyām ca pratiṣedhānarthakyam . pūjāyām ca pratiṣedhaḥ anarthaḥ . rājñām pūjitaḥ . karmaṇi iti eva siddham . tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ . tasmāt ubhayaprāptau karmaṇi iti evam yā ṣaṣṭhī tasyāḥ pratiṣedhaḥ vaktavyaḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ ityarthe ayam caḥ paṭhitaḥ . kamaṇi ca . karmaṇi iti evam yā ṣaṣṭhī iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१५।२१-२२ रो इइ,६८६ किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः । विधिः इति आह । कुतः एतत् । विधिः हि विभाषा नित्यः प्रतिषेधः ।
KA I,415.21-22 Ro II,686 kim iha nityagrahaṇena abhisambadhyate vidhiḥ āhosvit pratiṣedhaḥ . vidhiḥ iti āha . kutaḥ etat . vidhiḥ hi vibhāṣā nityaḥ pratiṣedhaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१६।२-४१७।६ रो इइ,६८६-६९० प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः । वृक्षम् प्रति विद्योतते विद्युत् । साधुः देवदत्तः मातरम् प्रति । व्यवेतप्रतिषेधः च । व्यवेतानाम् च प्रतिषेधः वक्तव्यः । अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः । सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् । सिद्धम् एतत् । कथम् । क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् । कु । कुब्राह्मणः कुवृषलः । आङ् । आकडारः आपिङ्गलः । सु । सुब्राह्मणः सुवृषलः । अत् । अतिब्राह्मणः अतिवृषलः । दुर् । दुर्ब्राह्मणः । गति । प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् । प्रादयः क्तार्थे । प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । एतत् एव च सौनागैः विस्तरतरकेण पठितम् । स्वती पूजायाम् । स्वतीपूजायाम् इति वक्तव्यम् । सुराजा अतिराजा । दुः निन्दायाम् । दुः निन्दायाम् इति वक्तव्यम् । दुष्कुलम् दुर्गवः । आङ् ईषदर्थे । आङ् ईषदर्थे इति वक्तव्यम् । आकडारः आपिङ्गलः । कुः पापार्थे । कुः पापार्थेइति वक्तव्यम् । कुब्राह्मणः कुवृषलः । प्रादयः गताद्यर्थे प्रथमया । प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् । अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया । अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् । अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् । परिग्लानः अध्ययनाय पर्यधयनः । निरादयः क्रान्ताद्यर्थे पञ्चम्या । निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः । अव्ययम् प्रवृद्धादिभिः । अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् । पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् । इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च । वाससीइव कन्येइव । उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् । अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।
KA I,416.2-417.6 Ro II,686-690 prādiprasaṅge karmapravacanīyapratiṣedhaḥ . prādiprasaṅge karmapravacanīyānām pratiṣedhaḥ vaktavyaḥ . vṛkṣam prati vidyotate vidyut . sādhuḥ devadattaḥ mātaram prati . vyavetapratiṣedhaḥ ca . vyavetānām ca pratiṣedhaḥ vaktavyaḥ . a mandraiḥ indra haribhiḥ yahi mayuraromabhiḥ . siddham tu kvāṅsvatidurgativacanāt . siddham etat . katham . kvāṅsvatidurgatayaḥ samasyante iti vaktavyam . ku . kubrāhmaṇaḥ kuvṛṣalaḥ . āṅ . ākaḍāraḥ āpiṅgalaḥ . su . subrāhmaṇaḥ suvṛṣalaḥ . at . atibrāhmaṇaḥ ativṛṣalaḥ . dur . durbrāhmaṇaḥ . gati . prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam . prādayaḥ ktārthe . prādayaḥ ktārthe samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam . svatī pūjāyām . svatīpūjāyām iti vaktavyam . surājā atirājā . duḥ nindāyām . duḥ nindāyām iti vaktavyam . duṣkulam durgavaḥ . āṅ īṣadarthe . āṅ īṣadarthe iti vaktavyam . ākaḍāraḥ āpiṅgalaḥ . kuḥ pāpārthe . kuḥ pāpārtheiti vaktavyam . kubrāhmaṇaḥ kuvṛṣalaḥ . prādayaḥ gatādyarthe prathamayā . prādayaḥ gatādyarthe prathamayā samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . atyādayaḥ krāntādyarthe dvitīyayā . atyādayaḥ krāntādyarthe dvitīyayā samasyante iti vaktavyam . atikrāntaḥ khaṭvām atikhaṭvaḥ atimālaḥ . avādayaḥ kruṣṭādyarthe tṛtīyayā . avādayaḥ kruṣṭādyarthe tṛtīyayā samasyante iti vaktavyam . avakruṣṭaḥ kokilayā avakokilaḥ vasantaḥ . paryādayaḥ glānādyarthe caturthyā . paryādayaḥ glānādyarthe caturthyā samasyante iti vaktavyam . pariglānaḥ adhyayanāya paryadhayanaḥ . nirādayaḥ krāntādyarthe pañcamyā . nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam . niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ nirvārāṇasiḥ . avyayam pravṛddhādibhiḥ . avyayam pravṛddhādibhiḥ samasyate iti vaktavyam . punaḥprvavṛddham barhiḥ bhavati punarṇavam punaḥsukham . ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca . vāsasīiva kanyeiva . udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam . anuvyacalat anuprāviśat yat pariyanti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१७।८-४१८।१३ रो इइ,६९०-६९६ अतिङ् इति किमर्थम् । कारकः व्रजति । हारकः व्रजति । अतिङ् इति शक्यम् अकर्तुम् । कस्मात् न भवति । कारकः व्रजति । हारकः व्रजति इति । सुप् सुपा इति वर्तते । अतः उत्तरम् पठति । उपपदम् अतिङ् इति तदर्थप्रतिषेधः । उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः । कस्य । तिङर्थस्य । कः पुनः तिङर्थः । क्रिया । क्रियाप्रतिषेधः वा । अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति । अथ अक्रियया इति किम् प्रत्युदाह्रियते । कारकः गतः हारकः गतः । न एतत् क्रियावाचि । किम् तर्हि। द्रव्यवाचि । इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या । एतत् अपि द्रव्य्वाचि । कथम् । कृदभिहितः भावः द्रव्यवत् भवति इति । एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति । किम् एतस्य ज्ञापने प्रयोजनम् । गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति । यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति । समर्थेन । यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति । पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति । न एतत् अस्ति । पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण । साधनम् हि क्रियाम् निर्वर्तयति । ताम् उपसर्गः विशिनष्टि । अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् । षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन । षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन । षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः । उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः । इह उभयम् प्राप्नोति । कुम्भकारः नगरकारः । उपपदसमासः भवति विप्रतिषेधेन । न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति । कथम् । गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् । अथ वा विभाषा षष्ठीसमासः । यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति । अनेन एव यथा स्यात् तेन मा भूत् इति । कः च अत्र विशेषः तेन वा स्यात् अनेन वा । उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा । ननु च नित्यम् यः समासः सः नित्यसमासः । यस्य विग्रहः न अस्ति । न इति आह । नित्याधिकारे यः समासः सः नित्यसमासः । न एवम् शक्यम् । अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत । तस्मात् नित्यः समासः नित्यसमासः । यस्य विग्रहः न अस्ति ।
KA I,417.8-418.13 Ro II,690-696 atiṅ iti kimartham . kārakaḥ vrajati . hārakaḥ vrajati . atiṅ iti śakyam akartum . kasmāt na bhavati . kārakaḥ vrajati . hārakaḥ vrajati iti . sup supā iti vartate . ataḥ uttaram paṭhati . upapadam atiṅ iti tadarthapratiṣedhaḥ . upapadam atiṅ iti tadarthasya ayam pratiṣedhaḥ vaktavyaḥ . kasya . tiṅarthasya . kaḥ punaḥ tiṅarthaḥ . kriyā . kriyāpratiṣedhaḥ vā . atha vā vyaktam eva idam paṭhitavyam upapadam akriyayā iti . atha akriyayā iti kim pratyudāhriyate . kārakaḥ gataḥ hārakaḥ gataḥ . na etat kriyāvāci . kim tarhi. dravyavāci . idam tarhi kārakasya gatiḥ kārakasya vrajyā . etat api dravyvāci . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . evam tarhi siddhe sati yat atiṅ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ anayoḥ yogayoḥ nivṛttam sup supā iti . kim etasya jñāpane prayojanam . gatikārakopapadānām kṛdbhiḥ samāsaḥ bhavati iti eṣā paribhāṣā na kartavyā bhavati . yadi etat jñāpyate kena idānīm samāsaḥ bhaviṣyati . samarthena . yadi evam dhātūpasargayoḥ api samāsaḥ prāpnoti . pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . na etat asti . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . sādhanam hi kriyām nirvartayati . tām upasargaḥ viśinaṣṭi . abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena . ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena . ṣaṣṭhīsamāsasya avakāśaḥ rājñaḥ puruṣaḥ rājapuruṣaḥ . upapadasamāsasya avakāśaḥ stamberamaḥ karṇejapaḥ . iha ubhayam prāpnoti . kumbhakāraḥ nagarakāraḥ . upapadasamāsaḥ bhavati vipratiṣedhena . na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ . na vā arthaḥ vipratiṣedhena . kim kāraṇam . na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ bhaviṣyati . katham . gatikārakopadānām kṛdbhiḥ saha samāsavanacam prāk subutpatteḥ iti vacanāt . atha vā vibhāṣā ṣaṣṭhīsamāsaḥ . yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati . anena eva yathā syāt tena mā bhūt iti . kaḥ ca atra viśeṣaḥ tena vā syāt anena vā . upapadasamāsaḥ nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā . nanu ca nityam yaḥ samāsaḥ saḥ nityasamāsaḥ . yasya vigrahaḥ na asti . na iti āha . nityādhikāre yaḥ samāsaḥ saḥ nityasamāsaḥ . na evam śakyam . avyayībhāvasya hi anityasamāsatā prasajyeta . tasmāt nityaḥ samāsaḥ nityasamāsaḥ . yasya vigrahaḥ na asti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१८।१५-२२ रो इइ,६९७ एवकारः किमर्थः । नियमार्थः । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि भविष्यति । यथा एवम् विज्ञायेत : अमा एव अव्ययेन इति । मा एवम् विज्ञायि : अमा अव्ययेन एव इति । अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् । अस्ति इति आह । खशयम् ब्राह्मणकुलम् इति । न एतत् अस्ति प्रयोजनम् । अन्तरङ्गत्वात् अत्र समासः भविष्यति । इदम् तर्हि प्रयोजनम् । अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् । अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति । अग्रे भोजम् अग्रे भुक्त्वा । अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति । सः न वक्तव्यः भवति ।
KA I,418.15-22 Ro II,697 evakāraḥ kimarthaḥ . niyamārthaḥ . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa api evakāram niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi bhaviṣyati . yathā evam vijñāyeta : amā eva avyayena iti . mā evam vijñāyi : amā avyayena eva iti . asti ca idānīm anavyayam amśabdaḥ yadarthaḥ vidhiḥ syāt . asti iti āha . khaśayam brāhmaṇakulam iti . na etat asti prayojanam . antaraṅgatvāt atra samāsaḥ bhaviṣyati . idam tarhi prayojanam . amā eva yat tulyavidhānam upapadam tatra eva yathā syāt . amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti . agre bhojam agre bhuktvā . agrādiṣu aprāptavidheḥ samāsapratiṣedham codayiṣyati . saḥ na vaktavyaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४१८।२४-४१९।८ रो इइ,६९८ शेषः इति उच्यते । कः शेषः नाम । येषाम् पदानाम् अनुक्तः समासः सः शेषः । शेषवचनम् पदतः चेत् न अभावात् । शेषवचनम् पदतः चेत् तत् न । किम् कारणम् । अभावात् । न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः । अर्थतः तर्हि शेषग्रहणम् । येषु अर्थेषु अनुक्तः समासः सः शेषः । अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति । कुतः । पदतः । न हि सन्ति ते अर्थाः येषु अनुक्तः समासः । त्रिकतः तर्हि शेषग्रहणम् । यस्य त्रिकस्य अनुक्तः समासः सः शेषः । कस्य च अनुक्तः । प्रथमायाः ।
KA I,418.24-419.8 Ro II,698 śeṣaḥ iti ucyate . kaḥ śeṣaḥ nāma . yeṣām padānām anuktaḥ samāsaḥ saḥ śeṣaḥ . śeṣavacanam padataḥ cet na abhāvāt . śeṣavacanam padataḥ cet tat na . kim kāraṇam . abhāvāt . na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ . arthataḥ tarhi śeṣagrahaṇam . yeṣu artheṣu anuktaḥ samāsaḥ saḥ śeṣaḥ . arthataḥ cet aviśiṣṭam . arthataḥ cet aviśiṣṭam etat bhavati . kutaḥ . padataḥ . na hi santi te arthāḥ yeṣu anuktaḥ samāsaḥ . trikataḥ tarhi śeṣagrahaṇam . yasya trikasya anuktaḥ samāsaḥ saḥ śeṣaḥ . kasya ca anuktaḥ . prathamāyāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२०।२-४२१।१६ रो इइ,६९९-७०४ पदग्रहणम् किमर्थम्। अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् । यथा मे माता तथा मे पिता सुस्नातम् भोः इति । पदग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ अन्यग्रहणम् किमर्थम् । अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् । राजपुरुषः तक्षपुरुषः इति । न एतत् अस्ति प्रयोजनम् । तत्पुरुषः स्वपदार्थे बाधकः भविष्यति । भवेत् एकसञ्ज्ञाधिकारे सिद्धम् । परङ्कार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति । परङ्कार्यत्वे च न दोषः । शेषः इति वर्तते । शेषत्वात् न भविष्यति । शेषवचने उक्तम् । किम् उक्तम् । तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति । अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन । एकसङ्ज्ञाधिकारे च कर्तव्यम् । अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत । अथ अनेकग्रहणम् किमर्थम्। अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् । सर्पिषः अपि स्यात् । मधुनः अपि स्यात् । गोमूत्रस्य अपि स्यात् । न एतत् अस्ति प्रयोजनम् । सुप् सुपा इति वर्तते । इदम् तर्हि प्रयोजनम् । बहूनाम् अपि समासः यथा स्यात् । सुसूक्ष्मजटकेशेन सुनताजिनवाससा । उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति । इह अपि यथा स्यात् । प्लक्षन्यग्रोधखदिरपलाशाः इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति । तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति । ग्रहणेन तत्पुरुषः उच्यते । तेन बहूनाम् न भविष्यति । अतः उत्तरम् पठति । अनेकवचनम् उपसर्जनार्थम् । अनेकग्रहणम् क्रियते उपसर्जनार्थम् । प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् । चित्रगुः शबलगुः इति । न वा एकविभक्तित्वात् । न वा एतत् अपि प्रयोजनम् अस्ति । किम् कारणम् । एकविभक्तित्वात् । एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति । चित्रगुः शबलगुः इति । चित्राः यस्य गावः चित्रगुः तिष्ठति । चित्राः यस्य गावः चित्रगुम् पश्य । चित्राः यस्य गावः चित्रगुणा कृतम् । चित्राः यस्य गावः चित्रगवे देहि । चित्राः यस्य गावः चित्रगोः आनय । चित्राः यस्य गावः चित्रगोः स्वम् । चित्राः यस्य गावः चित्रगौ निधेहि । चित्राः यस्य गावः हे चित्रगो इति । यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति । राजकुमारी तक्षकुमारी । राज्ञः या कुमारी राजकुमारी तिष्ठति । राज्ञः या कुमारी राजकुमारीम् पश्य । राज्ञः या कुमारी राजकुमार्या कृतम् । राज्ञः या कुमारी राजकुमार्यै देहि । राज्ञः या कुमारी राजकुमार्याः आनय । राज्ञः या कुमारी राजकुमार्याः स्वम् । राज्ञः या कुमारी राजकुमार्याम् निधेहि । राज्ञः या कुमारी हे राजकुमारि इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एकग्रहणसामर्थ्यात् । यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् । विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।
KA I,420.2-421.16 Ro II,699-704 padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt . yathā me mātā tathā me pitā susnātam bhoḥ iti . padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha anyagrahaṇam kimartham . anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ syāt . rājapuruṣaḥ takṣapuruṣaḥ iti . na etat asti prayojanam . tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati . bhavet ekasañjñādhikāre siddham . paraṅkāryatve tu na sidhyati . ārambhasāmarthyāt ca tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti . paraṅkāryatve ca na doṣaḥ . śeṣaḥ iti vartate . śeṣatvāt na bhaviṣyati . śeṣavacane uktam . kim uktam . tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti . atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena . ekasaṅjñādhikāre ca kartavyam . akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe bahuvrīhim bādhate evam anyapadārthe api bādheta . atha anekagrahaṇam kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt . sarpiṣaḥ api syāt . madhunaḥ api syāt . gomūtrasya api syāt . na etat asti prayojanam . sup supā iti vartate . idam tarhi prayojanam . bahūnām api samāsaḥ yathā syāt . susūkṣmajaṭakeśena sunatājinavāsasā . uttarārtham ca anekagrahaṇam kartavyam cārthe dvandvaḥ anekam iti . iha api yathā syāt . plakṣanyagrodhakhadirapalāśāḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti . tatpuruṣaḥ api tarhi bahūnām prāpnoti . grahaṇena tatpuruṣaḥ ucyate . tena bahūnām na bhaviṣyati . ataḥ uttaram paṭhati . anekavacanam upasarjanārtham . anekagrahaṇam kriyate upasarjanārtham . prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā syāt . citraguḥ śabalaguḥ iti . na vā ekavibhaktitvāt . na vā etat api prayojanam asti . kim kāraṇam . ekavibhaktitvāt . ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati . citraguḥ śabalaguḥ iti . citrāḥ yasya gāvaḥ citraguḥ tiṣṭhati . citrāḥ yasya gāvaḥ citragum paśya . citrāḥ yasya gāvaḥ citraguṇā kṛtam . citrāḥ yasya gāvaḥ citragave dehi . citrāḥ yasya gāvaḥ citragoḥ ānaya . citrāḥ yasya gāvaḥ citragoḥ svam . citrāḥ yasya gāvaḥ citragau nidhehi . citrāḥ yasya gāvaḥ he citrago iti . yadi tarhi yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati iha api prāpnoti . rājakumārī takṣakumārī . rājñaḥ yā kumārī rājakumārī tiṣṭhati . rājñaḥ yā kumārī rājakumārīm paśya . rājñaḥ yā kumārī rājakumāryā kṛtam . rājñaḥ yā kumārī rājakumāryai dehi . rājñaḥ yā kumārī rājakumāryāḥ ānaya . rājñaḥ yā kumārī rājakumāryāḥ svam . rājñaḥ yā kumārī rājakumāryām nidhehi . rājñaḥ yā kumārī he rājakumāri iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ekagrahaṇasāmarthyāt . yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam anarthakam syāt . vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .
Sanskrit only: no published translation is held for this verse.
क्अ इ, ४२१।१७-४२३।१४ रो इइ,७०४-७१० पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् । पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः । चित्रगुः देवदत्तः इति । किम् कारणम् । अभिहितत्वात् । चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति । न वा अनभिहितत्वात् । न वा एषः दोषः । किम् कारणम् । अनभिहितत्वात् । चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति । सामान्याभिधाने हि विशेषानभिधानम् । सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। भवेत् सिद्धम् यदा सामान्ये वृत्तिः । यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति । चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति । तत् अपि सिद्धम् । कथम् । न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च । यदा वाक्यम् तदा न समासः । यदा समासः तदा न वक्यम् । यदा समासः तदा सामान्ये वृत्तिः । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति । चित्रगु तत् । चित्रगु किम् चित् । चित्रगु सर्वम् इति । सामान्यम् अपि यथा विशेषः तद्वत् । चित्रगु इति उक्ते सन्देहः स्यात् । सर्वम् वा विश्वम् वा इति । तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । अथ वा विभक्त्यर्थः अभिदीयते । एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते । तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः । बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति । अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः । बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति । कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् । सिद्धम् तु यथा गुणवचनेषु । सिद्धम् एतत्। कथम् । यथा गुणवचनेषु । गुणवचनेषु उक्तम् : गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति । तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च । अर्थग्रहणसामर्थ्यात् । इह अनेकम् अन्यपदे इति इयता सिद्धम् । कथम् पुनः पदे नाम वृत्तिः स्यात् । शब्दः हि एषः । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति । यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति । उक्तम् वा । किम् उक्तम् । लिङ्गेषु तावत् । सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति । साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति । प्रथमा तर्हि न प्राप्नोति । समयात् भविष्यति । यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति । कर्मादीनाम् अभावात् । षष्ठी तर्हि प्राप्नोति । शेषलक्षणा षष्ठी । अशेषत्वात् न भविष्यति । एवम् अपि व्यतिकरः । एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने । अर्थतः व्यवस्था भविष्यति । अथ वा सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येअम् अन्या विशेष्यम् । यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । अथ वा वक्ष्यति एतत् । तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति । एवम् अपि षष्ठी प्राप्नोति । किम् कारणम् । व्यभिचरति एव हि
KA I, 421.17-423.14 Ro II,704-710 padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt . padārthasya abhidhāne anuprayogasya anupapattiḥ . citraguḥ devadattaḥ iti . kim kāraṇam . abhihitatvāt . citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti . na vā anabhihitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anabhihitatvāt . citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . katham anabhihitaḥ yāvatā idānīm eva uktam padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt iti . sāmānyābhidhāne hi viśeṣānabhidhānam . sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. bhavet siddham yadā sāmānye vṛttiḥ . yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati . citrā gāvaḥ devadattasya citraguḥ devadattaḥ iti . tat api siddham . katham . na idam ubhayam yugapat bhavati vākyam ca samāsaḥ ca . yadā vākyam tadā na samāsaḥ . yadā samāsaḥ tadā na vakyam . yadā samāsaḥ tadā sāmānye vṛttiḥ . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti . citragu tat . citragu kim cit . citragu sarvam iti . sāmānyam api yathā viśeṣaḥ tadvat . citragu iti ukte sandehaḥ syāt . sarvam vā viśvam vā iti . tatra avaśyam sandehanivṛttyartham viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . atha vā vibhaktyarthaḥ abhidīyate . etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate . tatra hi sarvapaścāt padam vartate asya iti . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyābhyām upacāraḥ anupapannaḥ . bahuyavam bahuyavā bahuyavaḥ bahuyavau bahuhavāḥ iti . aparaḥ āha : vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ vibhaktyarthābhidhāne dravyasya ye liṅgasaṅkhye tābhyām vibhaktyarthasya upacāraḥ anupapannaḥ . bahuyavam bahuyavāḥ bahuyavaḥ bahuyavau bahuhavāḥ iti . katham hi anyasya liṅgasaṅkhyābhyām anyasya upacāraḥ syāt . siddham tu yathā guṇavacaneṣu . siddham etat. katham . yathā guṇavacaneṣu . guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . tat yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca . arthagrahaṇasāmarthyāt . iha anekam anyapade iti iyatā siddham . katham punaḥ pade nāma vṛttiḥ syāt . śabdaḥ hi eṣaḥ . śabde asambhavāt arthe kāryam vijñāsyate . saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti . yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti . uktam vā . kim uktam . liṅgeṣu tāvat . siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti . sāṅkhyeṣu api uktam karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti . prathamā tarhi na prāpnoti . samayāt bhaviṣyati . yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti . karmādīnām abhāvāt . ṣaṣṭhī tarhi prāpnoti . śeṣalakṣaṇā ṣaṣṭhī . aśeṣatvāt na bhaviṣyati . evam api vyatikaraḥ . ekasmin api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu api ekavacanadvivacane . arthataḥ vyavasthā bhaviṣyati . atha vā saṅkhyā nāma iyam parapradhānā . saṅkhyeam anyā viśeṣyam . yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt . atha vā vakṣyati etat . tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti . evam api ṣaṣṭhī prāpnoti . kim kāraṇam . vyabhicarati eva hi
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२३।१६-४२५।१३ रो इइ,७१०-७१४ परिगणनम् कर्तव्यम् । बहुव्रीहिः समानाधिकरणानाम् । समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः । किम् प्रयोजनम् । व्यधिकरणानाम् मा भूत् इति । पञ्चभिः भुक्तम् अस्य इति । अव्ययानाम् च । अव्ययानाम् बहुव्रीहिः वक्तव्यः । उच्चैर्मुखः नीचैर्मुखः । सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च । सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः । समुदायविकारषष्ठ्याः च । समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः । प्रादिभ्यः धातुजस्य वा । प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः । नञः अस्त्यर्थानाम् । नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः । तत् तर्हि बहु वक्तव्यम् । न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः । न वा वक्तव्यम् । असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : पञ्चभिः भुक्तम् अस्य इति । अनभिधानात् । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः । तत् यथा पञ्च भुक्तवन्तः अस्य इति । अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् । तत् कथम् कर्तव्यम् । अर्थनियमे मत्वर्थग्रहणम् । अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् । मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् । इह मा भूत् : कष्टम् श्रितम् अनेन इति । तथा च उत्तरस्य वचनार्थः । एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति । के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति । सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति । अपरः आह : यत् वार्त्तिके इति । कर्मवचनेन अप्रथ्मायाः । कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः । ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली । यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् । प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः । कर्तृवचनेन अपि । कर्तृवचनेन अपि इति वक्तव्यम् । अप्रथमायाः इति किमर्थम् । वृष्टे देवे गतः । अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति । वृष्टे देवे गतम् पश्य इति । बहिरङ्गा अत्र अप्रथमा । सुबधिकारे अस्तिक्षीरादिवचनम् । सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी । तत् तर्हि वक्तव्यम् । न वा अव्ययत्वात् । न वा वक्तव्यम् । किम् कारणम् । अव्ययत्वात् । अव्ययः अयम् अस्तिशब्दः । न एषः अस्तेः लट् । कथम् अव्ययत्वम् । उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा । निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।
KA I,423.16-425.13 Ro II,710-714 parigaṇanam kartavyam . bahuvrīhiḥ samānādhikaraṇānām . samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ . kim prayojanam . vyadhikaraṇānām mā bhūt iti . pañcabhiḥ bhuktam asya iti . avyayānām ca . avyayānām bahuvrīhiḥ vaktavyaḥ . uccairmukhaḥ nīcairmukhaḥ . saptamyupamānapūrvapadasya uttarapadalopaḥ ca . saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . kaṇṭhesthaḥ kālaḥ asya kaṇṭhekālaḥ uṣṭramukham iva mukham asya uṣṭramukhaḥ kharamukhaḥ . samudāyavikāraṣaṣṭhyāḥ ca . samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . keśānām samāhāraḥ cūḍā asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ . prādibhyaḥ dhātujasya vā . prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ . nañaḥ astyarthānām . nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ . tat tarhi bahu vaktavyam . na vā anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ . na vā vaktavyam . asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam asya iti . anabhidhānāt . tat ca avaśyam anabhidhānam āśrayitavyam . kriyamāṇe api vai parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ . tat yathā pañca bhuktavantaḥ asya iti . atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam kriyate vartiparigaṇanam api kartavyam . tat katham kartavyam . arthaniyame matvarthagrahaṇam . arthaniyame matvarthagrahaṇam kartavyam . matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam . iha mā bhūt : kaṣṭam śritam anena iti . tathā ca uttarasya vacanārthaḥ . evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati . ke cit tāvat āhuḥ : yat vṛttisūtre iti . saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . aparaḥ āha : yat vārttike iti . karmavacanena aprathmāyāḥ . karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ . ūḍhaḥ rathaḥ anena ūḍharathaḥ anaḍvān upahṛtaḥ paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ uddhṛtaudanā sthālī . yadi karmavacanena iti ucyate kartṛvacanena katham . prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ grāmam āgatātithiḥ grāmaḥ . kartṛvacanena api . kartṛvacanena api iti vaktavyam . aprathamāyāḥ iti kimartham . vṛṣṭe deve gataḥ . aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati . vṛṣṭe deve gatam paśya iti . bahiraṅgā atra aprathamā . subadhikāre astikṣīrādivacanam . subadhikāre astikṣīrādīnām upasaṅkhyānam kartavyam . astikṣīrā brāhmaṇī . tat tarhi vaktavyam . na vā avyayatvāt . na vā vaktavyam . kim kāraṇam . avyayatvāt . avyayaḥ ayam astiśabdaḥ . na eṣaḥ asteḥ laṭ . katham avyayatvam . upasargavibhaktisvarapratirūpakāḥ ca nipātasañjñāḥ bhavanti iti nipātasñjñā . nipātaḥ avyayam iti avyayasañjñā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२५।१४-४२७।५ रो इइ,७१४-७१९ अथ किंसब्रह्मचारी इति कः अयम् समासः । बहुव्रीहिः इति अह । कः अस्य विग्रहः । के सब्रह्मचारिणः अस्य इति । यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते । न हि अन्यत् पृष्टेन अन्यत् आख्यायते । एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति । प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति । किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत । किंसब्रह्मचारी इति च इष्यते । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी किंसब्रह्मचारी इति । भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति । अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति । ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते । न एषः दोषः । अग्नौकरवाणिन्यायेन भविष्यति । तत् यथा । कः चित् कम् चित् आह । अग्नौ करवाणि इति । कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति । अपरः आह : अग्नौ करिष्यते इति । क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति । यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते । नूनम् सः अपि कठ इति । एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् । नूनम् ते अपि कठाः इति । न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् । उपसर्जनम् हे ते भवन्ति । अथ अर्थतृतीयाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । अर्धम् तृतीयम् एषाम् इति । कः समासार्थः । समासार्थः न उपपद्यते । अन्यपदार्थः हि नाम सः भवति । येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः । एवम् तर्हि एवम् विग्रहः करिष्यते । अर्धम् तृतीयम् अनयोः इति । एवम् अपि कः षष्ठ्यर्थः । षष्ठ्यर्थः न उपपद्यते । किम् हि तयोः अर्धम् भवति । अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् समासार्थः न उपपद्यते इति । न एषः दोषः । अवयवेन विग्रहः समुदायः समासार्थः । यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः । ननु च उक्तम् । षष्ठ्यर्थः न उपपद्यते इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः । तत्र एतत् स्यात् । एकस्मात् प्रादुर्भावः इति । एतत् च वार्तम् । तत् यथा । सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति । एवञ्जातीयकम् भ्रातृत्वम् नाम । अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् । इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति इति । न एषः दोषः । अयम् तीयन्तः शब्दः अस्ति एव पूरणम् । अस्ति सहायवाची । तत् यः सहायवाची तस्य इदम् ग्रहणम् । असिद्वितीयः असिसहायः इति गम्यते । एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति । ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति । न एषः दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि । तत् यथा । शुक्लवाससम् आनय । लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति । अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् एकवचनम् प्राप्नोति इति । न एषः दोषः । सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येयम् अनया विशेष्यम् । यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते । न एषः दोषः । समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते। तद् यथा । पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति । एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति । कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम्
KA I,425.14-427.5 Ro II,714-719 atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti aha . kaḥ asya vigrahaḥ . ke sabrahmacāriṇaḥ asya iti . yadi evam kaṭhaḥ iti prativacanam na upapadyate . na hi anyat pṛṣṭena anyat ākhyāyate . evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī iti . prativacanam ca eva na upapadyate svare ca doṣaḥ bhavati . kiṃsabrahmacārī iti evam svaraḥ prasajyeta . kiṃsabrahmacārī iti ca iṣyate . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī kiṃsabrahmacārī iti . bhavet prativacanam upapannam svare tu doṣaḥ bhavati . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī tava kiṃsabrahmacārī tvam iti . atha vā punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya iti . nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate . na eṣaḥ doṣaḥ . agnaukaravāṇinyāyena bhaviṣyati . tat yathā . kaḥ cit kam cit āha . agnau karavāṇi iti . kuru iti kartari anujñāte karma api anujñātam bhavati . aparaḥ āha : agnau kariṣyate iti . kriyatām iti karmaṇi anujñāte kartā api anujñātaḥ bhavati . yathā eva khalu api ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate . nūnam saḥ api kaṭha iti . evam kaṭhaḥ iti ukte sambandhāt etat gantavyam syāt . nūnam te api kaṭhāḥ iti . na khalu api te śakyāḥ samāsena pratinirdeṣṭum . upasarjanam he te bhavanti . atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . ardham tṛtīyam eṣām iti . kaḥ samāsārthaḥ . samāsārthaḥ na upapadyate . anyapadārthaḥ hi nāma saḥ bhavati . yeṣām padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ . evam tarhi evam vigrahaḥ kariṣyate . ardham tṛtīyam anayoḥ iti . evam api kaḥ ṣaṣṭhyarthaḥ . ṣaṣṭhyarthaḥ na upapadyate . kim hi tayoḥ ardham bhavati . astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam samāsārthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . avayavena vigrahaḥ samudāyaḥ samāsārthaḥ . yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ . nanu ca uktam . ṣaṣṭhyarthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ . tatra etat syāt . ekasmāt prādurbhāvaḥ iti . etat ca vārtam . tat yathā . sārthikanam ekapratiśraye uṣitānām prātaḥ utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ bhavati . evañjātīyakam bhrātṛtvam nāma . atra cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām . iha tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti iti . na eṣaḥ doṣaḥ . ayam tīyantaḥ śabdaḥ asti eva pūraṇam . asti sahāyavācī . tat yaḥ sahāyavācī tasya idam grahaṇam . asidvitīyaḥ asisahāyaḥ iti gamyate . evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti . nanu ca uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti . na eṣaḥ doṣaḥ . bhavati bahuvrīhau tadguṇasaṃvijñānam api . tat yathā . śuklavāsasam ānaya . lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti . tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . atha vā punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam ekavacanam prāpnoti iti . na eṣaḥ doṣaḥ . saṅkhyā nāma iyam parapradhānā . saṅkhyeyam anayā viśeṣyam . yadi ca atra ekavacanam syāt saṅkhyeyam aviśeṣitam syāt . iha tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye pravṛttaḥ avayave na upapadyate . na eṣaḥ doṣaḥ . samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api vartante. tad yathā . pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . evam ayam samudāye droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati . kāmam tarhi anena eva hetunā yadā dvau droṇau ardhārḍhakam
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२७।७-४२८।१६ रो इइ,७१९-७२४ द्वित्राः त्रिचतुराः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । द्वौ वा त्रयः वा इति । भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति । तदा अपि सिध्यति । कथम् । के चित् तावत् आहुः : अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति । तत् यथा : कति भवतः पुत्राः । कति भवतः भार्याः इति । अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते । त्रयः वा इति उक्ते द्वौ वा इति गम्यते । सा एषा पञ्चाधिष्ठाना वाक् । अत्र युक्तम् बहुवचनम् । अथ द्विदशाः त्रिदशाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । द्विः दश द्विशशाः इति । सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः । सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः । न हि सुजन्ता सङ्ख्या अस्ति । एवम् तर्हि एवम् विग्रहः करिष्यते । द्वौ दशतौ द्विदशाः इति । एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः । न हि अत्कारान्ता सङ्ख्या अस्ति । अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति । ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति । न वा असुजन्तत्वात् । न वा एषः दोषः । किम् कारणम् । असुजन्तत्वात् । सुजन्ता इति उच्यते । न च अत्र सुजन्तम् पश्यामः । किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते । सुजभावः अहिहितार्थत्वात् समासे । समासे सुचः अभावः । किम् कारणम् । अहिहितार्थत्वात् । अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते । न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः । कथम् । यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः । सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति । अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात् । अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः । किम् कारणम् । सङ्ख्येयवाभिध्यायित्वात् । सङ्ख्येयम् वार्थः च अभिदीयते । तत्र अन्यपदार्थे इति एव सिद्धम् । भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते । विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति । इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते । अथ उपदशाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । दशानाम् समीपे उपदशाः इति । कस्य पुनः सामीप्यम् अर्थः । उपस्य । यदि एवम् न अन्यपदार्थः भवति । तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् । मत्वर्थे वा पूर्वस्य विधानात् । अथ वा मत्वर्थे पूर्वः योगः । अमत्वर्थः अयम् आरम्भः । कबभावार्थम् वा । अथ व कप् मा भूत् इति ।
KA I,427.7-428.16 Ro II,719-724 dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . dvau vā trayaḥ vā iti . bhavet yadā bahūnām ānayanam tadā bahuvacanam upapannam yadā tu khalu dvau ānīyete tadā na sidhyati . tadā api sidhyati . katham . ke cit tāvat āhuḥ : anirjñāte arthe bahuvacanam prayoktavyam iti . tat yathā : kati bhavataḥ putrāḥ . kati bhavataḥ bhāryāḥ iti . aparaḥ āha : dvau vā iti ukte trayaḥ vā iti gamyate . trayaḥ vā iti ukte dvau vā iti gamyate . sā eṣā pañcādhiṣṭhānā vāk . atra yuktam bahuvacanam . atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . dviḥ daśa dviśaśāḥ iti . saṅkhyāsamāse sujantatvāt saṅkhyāprasiddhiḥ . saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ . na hi sujantā saṅkhyā asti . evam tarhi evam vigrahaḥ kariṣyate . dvau daśatau dvidaśāḥ iti . evam api atkārāntatvāt saṅkhyā iti aprasiddhiḥ . na hi atkārāntā saṅkhyā asti . astu tarhi ayam eva vigrahaḥ dviḥ daśa dviśaśāḥ iti . nanu ca uktam saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti . na vā asujantatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . asujantatvāt . sujantā iti ucyate . na ca atra sujantam paśyāmaḥ . kim punaḥ kāraṇam vākye suc dṛśyate samāse tu na dṛśyate . sujabhāvaḥ ahihitārthatvāt samāse . samāse sucaḥ abhāvaḥ . kim kāraṇam . ahihitārthatvāt . abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate . na khalu sujarthe iti ucyate gamyate tu sujarthaḥ . katham . yāvatā saṅkhyeyaḥ yaḥ saṅkhyayā saṅkhyāyate saḥ ca kriyābhyāvṛttyarthaḥ . saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati . aśiṣyaḥ saṅkhyottarapadaḥ saṅkhyeyavābhidhyāyitvāt . aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ . kim kāraṇam . saṅkhyeyavābhidhyāyitvāt . saṅkhyeyam vārthaḥ ca abhidīyate . tatra anyapadārthe iti eva siddham . bhavet siddham adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate . viśatyādayaḥ daśadarthe vā syuḥ parimāṇini vā iti . idam tu na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye eva vartate . atha upadaśāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . daśānām samīpe upadaśāḥ iti . kasya punaḥ sāmīpyam arthaḥ . upasya . yadi evam na anyapadārthaḥ bhavati . tatra prathānirdiṣṭam saṅkhyāgrahaṇam śakyam akartum . matvarthe vā pūrvasya vidhānāt . atha vā matvarthe pūrvaḥ yogaḥ . amatvarthaḥ ayam ārambhaḥ . kababhāvārtham vā . atha va kap mā bhūt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२९।१८-४३०।६ रो इइ,७२७-७२८ तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् । तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः । किम् कारणम् । क्रियाभिधानात् । क्रिया अभिधीयते । तत्र अन्यपदार्थे इति एव सिद्धम् । न वा एकशेषप्रतिषेधार्थम् । न वा अशिष्यः । किम् कारणम् । एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् । पूर्वदीर्घार्थम् च । पूर्वदीर्घार्थम् च इदम् वक्तव्यम् । केशाकेशि । स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् । अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति । मत्वर्थे वा पूर्वस्य विधानात् । अथ व मत्वर्थे पूर्वः योगः । अमत्वर्थः अयम् आरम्भः । कबभावार्थम् वा । अथ व कप् मा भूत् इति ।
KA I,429.18-430.6 Ro II,727-728 tṛtīyāsaptamyanteṣu ca kriyābhidhānāt . tṛtīyāsaptamyanteṣu ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ . kim kāraṇam . kriyābhidhānāt . kriyā abhidhīyate . tatra anyapadārthe iti eva siddham . na vā ekaśeṣapratiṣedhārtham . na vā aśiṣyaḥ . kim kāraṇam . ekaśeṣapratiṣedhārtham idam vaktavyam . pūrvadīrghārtham ca . pūrvadīrghārtham ca idam vaktavyam . keśākeśi . syāt etat prayojanam yadi niyogataḥ asya anena eva dīrghatvam syāt . atha idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam bhavati . matvarthe vā pūrvasya vidhānāt . atha va matvarthe pūrvaḥ yogaḥ . amatvarthaḥ ayam ārambhaḥ . kababhāvārtham vā . atha va kap mā bhūt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३०।८-२५ रो इइ,७२९-७३० चार्थे इति उच्यते चः च अव्ययम् । तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति । न एषः दोषः । पाठेन अव्ययसञ्ज्ञा क्रियते । न च समासः तत्र पठ्यते । पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति । यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् । अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । अथ इह कस्मात् न भवति । याज्ञिकः च अयम् वैयाकरणः च । कठः च अयम् बह्वृचः च । औक्थिकः च अयम् मीमांसकः च इति । शेषः इति वर्तते । अशेषत्वात् न भविष्यति । यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति । न एषः दोषः । अन्यत् हि कृतम् अन्यत् अकृतम् ।
KA I,430.8-25 Ro II,729-730 cārthe iti ucyate caḥ ca avyayam . tena samāsasya avyayasañjñā prāpnoti . na eṣaḥ doṣaḥ . pāṭhena avyayasañjñā kriyate . na ca samāsaḥ tatra paṭhyate . pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . na idam vācanikam aliṅgatā asaṅkhyatā va . kim tarhi . svābhāvikam etat . tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat prāk samāsāt cārthasya liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . atha iha kasmāt na bhavati . yājñikaḥ ca ayam vaiyākaraṇaḥ ca . kaṭhaḥ ca ayam bahvṛcaḥ ca . aukthikaḥ ca ayam mīmāṃsakaḥ ca iti . śeṣaḥ iti vartate . aśeṣatvāt na bhaviṣyati . yadi śeṣaḥ iti vartate upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum mā tvā tāptām kṛtākṛte iti etat na sidhyati . na eṣaḥ doṣaḥ . anyat hi kṛtam anyat akṛtam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३१।१-४३४।१४ रो इइ,७३१-७४१ चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः । चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति । अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति । सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् । सिद्धम् एतत् । कथम् । युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् । तत्र पुंवद्भावप्रतिषेधः । तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः । पट्वीमृद्व्यौ । समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति । विप्रतिषिद्धेषु च अनुपपत्तिः । विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः । शीतोष्णे सुखदुःखे जननमरणे । किम् कारणम् । सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् । यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति । इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति । दर्शनीयायाः माता दर्शनीयामाता इति । अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति । यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति । सर्वे एव हि शब्दाः विप्रतिषिद्धाः । इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति । न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति । अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् । एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति । अतः किम् । युगपतधिकरणवचनतायाः अनुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति । विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य । विग्रहे खलु अपि युगपद्वचनता दृश्यते : द्यवा ह क्षमा । द्यवा चित् अस्मै पृथिवी नमेते इति । किम् एतत् । युगपदधिकरणवचनतायाः उपोद्बलकम् । विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे । समुदायात् सिद्धम् । समुदायात् सिद्धम् एतत् । किम् एतत् समुदायात् सिद्धम् इति । द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् । तस्य अयम् परिहारः । समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य । समुदायात् सिद्धम् इति चेत् तत् न । किम् कारणम् । एकार्थत्वात् समुदायस्य । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । न ऐकार्थ्यम् । न अयम् एकार्थः । किम् तर्हि । द्व्यर्थः बह्वर्थः च । प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः । यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः । तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न । किम् कारणम् । बहुत्वाभावात् । न अत्र बहुत्वम् अस्ति । किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति । याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि । यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः । अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न । किम् कारणम् । प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः । कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः । कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् । कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् । तुल्यम् हि कारणम् । यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति । तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति । दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते । दर्शनम् हेतुः इति चेत् तुल्यम् । दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति । प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् । तुल्यम्
KA I,431.1-434.14 Ro II,731-741 cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ . cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam prāpnoti . ahaḥ ahaḥ nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti . siddham tu yugapadadhikaraṇavacane dvandvavacanāt . siddham etat . katham . yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam . tatra puṃvadbhāvapratiṣedhaḥ . tatra etasmin lakṣaṇe puṃvadbhāvasya pratiṣedhaḥ vaktavyaḥ . paṭvīmṛdvyau . samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ prāpnoti . vipratiṣiddheṣu ca anupapattiḥ . vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ . śītoṣṇe sukhaduḥkhe jananamaraṇe . kim kāraṇam . sukhapratighātena hi duḥkham duḥkapratighātena ca sukham . yat tāvat ucyate tatra puṃvadbhāvapratiṣedhaḥ iti . idam tāvat ayam praṣṭavyaḥ : atha iha kasmāt na bhavati . darśanīyāyāḥ mātā darśanīyāmātā iti . atha matam etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati . yad api ucyate vipratiṣiddheṣu ca anupapattiḥ iti . sarve eva hi śabdāḥ vipratiṣiddhāḥ . iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ plakṣārtham sampratyāyayati nyagrodhārtham nivartayati . nyagrodhaśabdaḥ prayujyamānaḥ nyagrodhārtham sampratyāyayati plakṣārtham nivartayati . atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām . evam api śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam prāpnoti . ataḥ kim . yugapatadhikaraṇavacanatāyāḥ anupapattiḥ . plakṣanyagrodhau plakṣanyagrodhāḥ iti . yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : plakṣanyagrodhau plakṣanyagrodhāḥ iti . plakṣaśabdaḥ sārthakaḥ nivṛttaḥ nyagrodhaśabdaḥ upasthitaḥ ekārthaḥ tasya ekārthatvāt ekavacanam eva prāpnoti . vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya . vigrahe khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā . dyavā cit asmai pṛthivī namete iti . kim etat . yugapadadhikaraṇavacanatāyāḥ upodbalakam . vigrahe kila nāma yugapadadhikaraṇavacanatā syāt kim punaḥ samāse . samudāyāt siddham . samudāyāt siddham etat . kim etat samudāyāt siddham iti . dvivacanabahuvacanaprasiddhiḥ iti coditam . tasya ayam parihāraḥ . samudāyāt siddham iti cet na ekārthatvāt samudāyasya . samudāyāt siddham iti cet tat na . kim kāraṇam . ekārthatvāt samudāyasya . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . na aikārthyam . na ayam ekārthaḥ . kim tarhi . dvyarthaḥ bahvarthaḥ ca . plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ . yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ . tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na . kim kāraṇam . bahutvābhāvāt . na atra bahutvam asti . kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti . yābhyām eva atra ekaḥ dvyarthaḥ tābhyām eva aparaḥ api . yadi evam anyavācakena anyasya vacanānupapattiḥ . anyavācakena śabdena anyasya vacanam na upapadyate . anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . anyavācakena anyasya vacanānupapattiḥ iti cet ucyate tat na . kim kāraṇam . plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ . katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ . kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham . kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na tulyakāraṇatvāt siddham . tulyam hi kāraṇam . yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api etat bhavati . tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat bhavati . darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ dṛśyate . darśanam hetuḥ iti cet tulyam . darśanam hetuḥ iti cet tulyam etat bhavati . plakṣe api nyagrodhaśabdaḥ dṛśyatām . tulyam
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३४।१५-४३५।३ रो इइ,७४२-७४३ एकादश द्वादश इति कः अयम् समासः । एकादीनाम् दशादिभिः द्वन्द्वः । एकादीनाम् दशादिभिः द्वन्द्वः समासः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति । एकविंशतिः द्वाविंशतिः । सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् । कथम् । समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति । एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः । यदि समानाधिकरणः स्वरः न सिध्यति । यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् । किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् । इह मा भूत् शतसहस्रम् इति । अस्तु तर्हि द्वन्द्वः । ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति। न एषः दोषः । सर्वः द्वन्द्वः विभाषा एकवत् भवति । यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।
KA I,434.15-435.3 Ro II,742-743 ekādaśa dvādaśa iti kaḥ ayam samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ . ekādīnām daśādibhiḥ dvandvaḥ samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam prāpnoti . ekaviṃśatiḥ dvāviṃśatiḥ . siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca . siddham etat . katham . samānādhikaraṇādhikāre vaktavyam adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ bhavati iti . ekādhikā viṃśatiḥ ekaviṃśatiḥ dvyadhikā viṃśatiḥ dvāviṃśatiḥ . yadi samānādhikaraṇaḥ svaraḥ na sidhyati . yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat . kim punaḥ kāraṇam dvandve iti evam tat . iha mā bhūt śatasahasram iti . astu tarhi dvandvaḥ . nanu ca uktam ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ . sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati . yadā tarhi ekavacanam tadā napuṃsakaliṅgam prāpnoti . liṅgam aśiṣyam lokāśrayatvāt liṅgasya .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३५।५-१६ रो इइ,७४३-७४४ किमर्थम् इदम् उच्यते । उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् । उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति । न वा अनिष्टदर्शनात् । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । अनिष्टदर्शनात् । न हि किम् चित् अनिष्टम् दृश्यते । न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते । यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् । अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति । राज्ञः पुरुषस्य राजपुरुषस्य इति । षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः । षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति । एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।
KA I,435.5-16 Ro II,743-744 kimartham idam ucyate . upasarjanasya pūrvavacanam paraprayoganivṛttyartham . upasarjanasya pūrvavacanam kriyate paraprayogaḥ mā bhūt iti . na vā aniṣṭadarśanāt . na vā etat prayojanam asti . kim kāraṇam . aniṣṭadarśanāt . na hi kim cit aniṣṭam dṛśyate . na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ iti prayuṅkte . yadi ca aniṣṭam drśyete tataḥ yatnārtham syāt . atha yatra dve ṣaṣṭhyante bhavataḥ kasmāt tatra pradhānasya pūrvanipātaḥ na bhavati . rājñaḥ puruṣasya rājapuruṣasya iti . ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ . ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya pūrvanipātaḥ na bhaviṣyati . evam na ca idam akṛtam bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३५।१८-४३६।१४ रो इइ,७४४-७४६ किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् । किम् च अतः । यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः । तत्र कः दोषः । शङ्खदुन्दुभिवीङानाम् इति न सिध्यति । दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति । अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि। प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति । यथा इच्छसि तथा अस्तु । अस्तु तावत् तन्त्रम् । ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति । तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति । दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति । न एषः दोषः । यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि । अथ वा पुनः अस्तु अतन्त्रम् । ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि। प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति । अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः । अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते । शङ्खः च तूणवः च शण्खतूणवौ । मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः । रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति । अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण । अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु । अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु । पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।
KA I,435.18-436.14 Ro II,744-746 kim ayam tantram taranirdeśaḥ āhosvit atantram . kim ca ataḥ . yadi tantram dvayoḥ niyamaḥ bahuṣu aniyamaḥ . tatra kaḥ doṣaḥ . śaṅkhadundubhivīṅānām iti na sidhyati . dundubhiśabdasya api pūrvnipātaḥ prāpnoti . atha atantram mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati . yathā icchasi tathā astu . astu tāvat tantram . nanu ca uktam dvayoḥ niyamaḥ bahuṣu aniyamaḥ iti . tatra śaṅkhadundubhivīṅānām iti na sidhyati . dundubhiśabdasya api pūrvnipātaḥ prāpnoti iti . na eṣaḥ doṣaḥ . yat etat alpāctaram iti tat alpāc iti vakṣyāmi . atha vā punaḥ astu atantram . nanu ca uktam mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti . atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ . atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ kariṣyate . śaṅkhaḥ ca tūṇavaḥ ca śaṇkhatūṇavau . mṛdaṅgaḥ ca śaṇkhatūṇavau ca mṛdaṅgaśaṅkhatūṇavāḥ . rāmaḥ ca keśavaḥ ca rāmakeśavau dhanapatiḥ ca rāmakeśavau ca dhanapatirāmakeśavāḥ teṣām dhanapatirāmakeśavānām iti . atha yatra bahūnām pūrvanipātaprasaṅgaḥ kim tatra ekasya niyamaḥ bhavati ahosvit aviśeṣeṇa . anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu . anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu . paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३६।१५-४३७।७ रो इइ,७४६-७४७ ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् । ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः । शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः । अभ्यर्हितम् । अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् । मातापितरौ श्रद्धामेधे । लघ्वक्षरम् । लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् । कुशकाशम् शरशीर्यम् । अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् । लघ्वक्षरात् अपि इति । श्रद्धातपसी दीक्षातपसी । वर्णानाम् आनुपूर्व्येण । वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् । ब्राह्मणक्षत्रियविट्शूद्राः । भ्रातुः च ज्यायसः । भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् । युधिष्ठिरार्जुनौ । सङ्ख्यायाः अल्पीयसः । सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः । एकादश द्वादश । धर्मादिषु उभयम् । धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् । धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी
KA I,436.15-437.7 Ro II,746-747 ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām . ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām pūrvanipātaḥ vaktavyaḥ . śiśiravasantau udagayanasthau kṛttikārohiṇyaḥ . abhyarhitam . abhyarhitam pūrvam nipatati iti vaktavyam . mātāpitarau śraddhāmedhe . laghvakṣaram . laghvakṣaram pūrvam nipatati iti vaktavyam . kuśakāśam śaraśīryam . aparaḥ āha : sarvatra eva abhyarhitam pūrvam nipatati iti vaktavyam . laghvakṣarāt api iti . śraddhātapasī dīkṣātapasī . varṇānām ānupūrvyeṇa . varṇānām ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam . brāhmaṇakṣatriyaviṭśūdrāḥ . bhrātuḥ ca jyāyasaḥ . bhrātuḥ ca jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam . yudhiṣṭhirārjunau . saṅkhyāyāḥ alpīyasaḥ . saṅkhyāyāḥ alpīyasaḥ pūrvanipātaḥ vaktavyaḥ . ekādaśa dvādaśa . dharmādiṣu ubhayam . dharmādiṣu ubhayam pūrvam nipatati iti vaktavyam . dharmārthau arthadharmau kāmārthau arthakāmau guṇavṛddhī vṛddhiguṇau ādyantau antādī
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३७।९-१७ रो इइ,७४८ बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् । बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् । विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः । अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात् सङ्ख्यायाः : द्व्यन्याय त्र्यन्याय । वा प्रियस्य । वा प्रियस्य पूर्वनिपातः वक्तव्यः । प्रियगुडः गुडप्रियः । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् । गडुकण्ठः गडुशिराः ।
KA I,437.9-17 Ro II,748 bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam . bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam kartavyam . viśvadevaḥ viśvayasāḥ dviputraḥ dvibhāryaḥ . atha yatra saṅkhyāsarvanāmnoḥ eva bahurvīhiḥ kasya tatra pūrvanipātena bhavitavyam . paratvāt saṅkhyāyāḥ : dvyanyāya tryanyāya . vā priyasya . vā priyasya pūrvanipātaḥ vaktavyaḥ . priyaguḍaḥ guḍapriyaḥ . saptamyāḥ pūrvanipāte gaḍvādibhyaḥ paravacanam . saptamyāḥ pūrvanipāte gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam . gaḍukaṇṭhaḥ gaḍuśirāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३७।१९-४३८।२० रो इइ,७४८-७४९ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् । निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् । शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता । न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य । न वा वक्तव्यम् । किम् कारणम् । उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य । यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति । प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः । प्रतिषेधे तु पूर्वनिपातः प्राप्नोति । अकृतमितप्रतिपन्नाः इति । तस्मात् राजदन्तादिषु पाठः कर्तव्यः । न कर्तव्यः । अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति । प्रहरणार्थेभ्यः च । प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् । अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः । द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन । द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन । द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ । अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ । इह उभयम् प्राप्नोति इन्द्राग्नी । अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन । उभाभ्याम् अल्पाच्तरम् । उभाभ्याम् अल्पाच्तरम् इति एतत् भवति । द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ । अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ । इह उभयम् प्राप्नोति वागग्नी । अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन । अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ । अल्पाच्तरम् इति अस्य अवकाशः सः एव । इह उभयम् प्राप्नोति वागिन्द्रौ । अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।
KA I,437.19-438.20 Ro II,748-749 niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam . niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam . śārṅgajagdhī palāṇḍubhakṣitī māsajātā saṃvatsarajātā sukhajātā duḥkhajātā . na vā uttarapadasya antodāttavacanam jñāpakam parabhāvasya . na vā vaktavyam . kim kāraṇam . uttarapadasya antodāttavacanam jñāpakam parabhāvasya . yat ayam jātikālasukhādibhyaḥ parasyāḥ niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat jñāpayati ācāryaḥ parā atra niṣṭhā bhavati iti . pratiṣedhe tu pūrvanipātaprasaṅgaḥ tasmāt rājadantādiṣu pāṭhaḥ . pratiṣedhe tu pūrvanipātaḥ prāpnoti . akṛtamitapratipannāḥ iti . tasmāt rājadantādiṣu pāṭhaḥ kartavyaḥ . na kartavyaḥ . atra api pratiṣedhavacanam jñāpakam parā niṣṭhā bhavati iti . praharaṇārthebhyaḥ ca . praharaṇārthebhyaḥ ca pare niṣṭhāsaptamyau bhavataḥ iti vaktavyam . asyudyataḥ musalodyataḥ asipāṇiḥ daṇḍapāṇiḥ . dvandve ghi ajādyantam vipratiṣedhena . dvandve ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena . dvandve ghi iti asya avakāśaḥ paṭuguptau . ajādyadantam iti asya avakāśaḥ uṣṭrakharau . iha ubhayam prāpnoti indrāgnī . ajādyadantam iti etat bhavati vipratiṣedhena . ubhābhyām alpāctaram . ubhābhyām alpāctaram iti etat bhavati . dvandve ghi iti asya avakāśaḥ paṭuguptau . alpāctaram iti asya avakāśaḥ vāgdṛṣadau . iha ubhayam prāpnoti vāgagnī . alpāctaram iti etat bhavati vipratiṣedhena . ajādyadantam iti asya avakāśaḥ uṣṭrakharau . alpāctaram iti asya avakāśaḥ saḥ eva . iha ubhayam prāpnoti vāgindrau . alpāctaram iti etat bhavati vipratiṣedhena .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४३८।२२-२४ रो इइ,७५० कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् । गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते ।
KA I,438.22-24 Ro II,750 kaḍārādayaḥ iti vaktavyam iha api yathā syāt . gaḍulaśāṇḍilyaḥ śāṇḍilyagaḍulaḥ khaṇḍavātsyaḥ vatsyakaṇḍaḥ . tat tarhi vaktavyam . na vaktavyam . bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.