Library·Patanjali: Vyakaranamahabhasya·2

Patanjali: Vyakaranamahabhasya 2

क्अ इ,३५९।२-२० रो इइ,४९१-४९६ विधिः इति कः अयम् शब्दः । विपूर्वात् धाञः कर्मसाधनः इकारः । विधीयते विधिः इति । किम् पुनः विधीयते । समासः विभक्तिविधानम् पराङ्गवद्भावः च । किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा । कः पुनः अधिकारपरिभाषयोः विशेषः । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् । तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति । कः पुनः अत्र प्रयत्नविशेषः । अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् । तथा इदम् अपरम् द्वैतम् भवति । एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति । तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः । व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः । अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति । क्व अन्यत्र । इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति । व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः । तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति । एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते । अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति । कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति । ननु च गम्यते तत्र सामर्थ्यम् । कुम्भकारः नगरकारः इति । सत्यम् गम्यते उत्पन्ने तु प्रत्यये । सः एव तावत् समर्थात् उत्पाद्यः ।

KA I,359.2-20 Ro II,491-496 vidhiḥ iti kaḥ ayam śabdaḥ . vipūrvāt dhāñaḥ karmasādhanaḥ ikāraḥ . vidhīyate vidhiḥ iti . kim punaḥ vidhīyate . samāsaḥ vibhaktividhānam parāṅgavadbhāvaḥ ca . kim punaḥ ayam adhikāraḥ āhosvit paribhāṣā . kaḥ punaḥ adhikāraparibhāṣayoḥ viśeṣaḥ . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . paribhāṣā punaḥ ekadeśasthā satī sarvam śāstram abhijvalayati pradīpavat . tat yathā pradīpaḥ suprajvalitaḥ ekadeśasthaḥ sarvam veśma abhijvalayati . kaḥ punaḥ atra prayatnaviśeṣaḥ . adhikāre sati svarayitavyam paribhāṣāyām punaḥ satyām sarvam apekṣyam . tathā idam aparam dvaitam bhavati . ekārthībhāvaḥ vā sāmarthyam syāt vyapekṣā vā iti . tatra ekārthībhāve sāmarthye adhikāre ca sati samāsaḥ ekaḥ saṅgṛhītaḥ bhavati bibhaktividhānam parāṅgavadbhāvaḥ ca asaṅgṛhītaḥ . vyapekṣāyām punaḥ sāmarthye adhikāre ca sati bibhaktividhānam parāṅgavadbhāvaḥ ca saṅgṛhītaḥ samāsaḥ tu ekaḥ asaṅgṛhītaḥ . anyatra khalu api samarthagrahaṇāni yuktagrahaṇāni ca kartavyāni bhavanti . kva anyatra . isusoḥ sāmarthye na cavāhāhaivayukte iti . vyapekṣāyām punaḥ sāmarthye paribhāṣāyām ca satyām yāvān vyākaraṇe padagandhaḥ asti saḥ sarvaḥ saṅgṛhītaḥ bhavati samāsaḥ tu ekaḥ asaṅgṛhītaḥ . tatra ekārthībhāvaḥ sāmarthyam paribhāṣā ca iti evam sūtram abhinnatarakam bhavati . evam api kva cit akartavyam samarthagrahaṇam kriyate kva cit ca kartavyam na kriyate . akartavyam tāvat kriyate samarthānām prathamāt vā iti . kartavyam ca na kriyate karmaṇi aṇ samarthāt iti . nanu ca gamyate tatra sāmarthyam . kumbhakāraḥ nagarakāraḥ iti . satyam gamyate utpanne tu pratyaye . saḥ eva tāvat samarthāt utpādyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३५९।२१-३६१।२४ रो इइ,४९६-५०४ अथ समर्थग्रहणम् किमर्थम् । वक्ष्यति द्वितीया श्रितादिभिः समस्यते । कष्टश्रितः नरकश्रितः इति । समर्थग्रहणम् किमर्थम् । पश्य देवदत्त कष्टम् । श्रितः विष्णुमित्रः गुरुकुलम् । तृतीया तत्कृतार्थेन गुणवचनेन । शङ्कुलाखण्डः किरिकाणः । समर्थग्रहणम् किमर्थम् । तिष्ठ त्वम् शङ्कुलया । खण्डः धावति मुसलेन । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । गोहितम् अश्रहितम् । समर्थग्रहणम् किमर्थम् । सुखम् गोभ्यः । हितम् देवदत्ताय । पञ्चमी भयेन । वृकभयम् दस्युभयम् चोरभयम् । समर्थग्रहणम् किमर्थम् । गच्छ त्वम् मा वृकेभ्यः । भयम् देवदत्तस्य यज्ञदत्तात् । षष्ठी सुबन्तेन समस्यते : राजपुरुषः , ब्राह्मणकम्बलः । समर्थग्रहणम् किमर्थम् । भार्या राज्ञः । पुरुषः देवदत्तस्य । सप्तमी शौण्डैः : अक्षशौण्डः , स्त्रीशौण्डः । समर्थग्रहणम् किमर्थम् । कुशलः देवदत्तः अक्षेषु । शौण्डः पिबति पानागारे । अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति । न वा भवति महाकष्टश्रितः इति । भवति यदा एतत् वाक्यम् भवति : महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति । यदा तु एतत् वाक्यम् भवति : महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति । तदा कस्मात् न भवति । कस्य कस्मात् न भवति । किम् द्वयोः आहोस्वित् बहूनाम् । बहूनाम् कस्मात् न भवति । सुप् सुपा इति वर्तते । ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते । तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति । सत्यम् एतत् । आकृतिः तु प्रत्येकम् परिसमाप्यते । यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् । प्रत्येकम् च एतत् परिसमाप्यते न समुदाये । एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् । द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु । द्वयोः तर्हि कस्मात् न भवति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति । न एषः दोषः । प्रधानम् अत्र सापेक्षम् । भवति च प्रधानस्य सापेक्षस्य अपि समासः । यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति । न एषः दोषः । समुदायपेक्षा अत्र षष्ट्ःई सर्वम् गुरुकुलम् अपेक्षते । यत्र तर्हि न समुदायपेक्षा षष्ट्ःई तत्र वृत्तिः न प्राप्नोति : किम् ओदनः शालीनाम् । सक्त्वाढकम् आपणीयानाम् । कुतः भवान् पाटलिपुत्रकः । इह च अपि : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति : यदि एषा समुदायपेक्षा षष्ट्ःई स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति । किम् तर्हि । अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत । यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःई इति । अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति । क्व अन्यत्र । इसुसोः सामर्थ्ये । ब्राहमणस्य सर्पिः करोति इति । तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति । वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति । सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् । यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति । अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् । तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति । न वक्तव्यम् । वृत्तिः तर्हि कस्मात् न भवति । अगमकत्वात् । इह समानार्थेन वाक्येन भवितव्यम् समासेन च । यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति । एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति । न ब्रूमः अपशब्दः स्यात् इति । यत्र गमकः भवति भवति तत्र वृत्तिः । तत् यथा : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति । यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन । इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति । तस्मात् न अर्थः समर्थग्रहणेन । इदम्

KA I,359.21-361.24 Ro II,496-504 atha samarthagrahaṇam kimartham . vakṣyati dvitīyā śritādibhiḥ samasyate . kaṣṭaśritaḥ narakaśritaḥ iti . samarthagrahaṇam kimartham . paśya devadatta kaṣṭam . śritaḥ viṣṇumitraḥ gurukulam . tṛtīyā tatkṛtārthena guṇavacanena . śaṅkulākhaṇḍaḥ kirikāṇaḥ . samarthagrahaṇam kimartham . tiṣṭha tvam śaṅkulayā . khaṇḍaḥ dhāvati musalena . caturthī tadarthārthabalihitasukharakṣitaiḥ . gohitam aśrahitam . samarthagrahaṇam kimartham . sukham gobhyaḥ . hitam devadattāya . pañcamī bhayena . vṛkabhayam dasyubhayam corabhayam . samarthagrahaṇam kimartham . gaccha tvam mā vṛkebhyaḥ . bhayam devadattasya yajñadattāt . ṣaṣṭhī subantena samasyate : rājapuruṣaḥ , brāhmaṇakambalaḥ . samarthagrahaṇam kimartham . bhāryā rājñaḥ . puruṣaḥ devadattasya . saptamī śauṇḍaiḥ : akṣaśauṇḍaḥ , strīśauṇḍaḥ . samarthagrahaṇam kimartham . kuśalaḥ devadattaḥ akṣeṣu . śauṇḍaḥ pibati pānāgāre . atha kriyamāṇe api samarthagrahaṇe iha kasmāt na bhavati mahat kaṣṭam śritaḥ iti . na vā bhavati mahākaṣṭaśritaḥ iti . bhavati yadā etat vākyam bhavati : mahat kaṣṭam mahākaṣṭam , mahākaṣṭam śritaḥ mahākaṣṭaśritaḥ iti . yadā tu etat vākyam bhavati : mahat kaṣṭam śritaḥ iti tadā na bhavitavyam tadā ca prapnoti . tadā kasmāt na bhavati . kasya kasmāt na bhavati . kim dvayoḥ āhosvit bahūnām . bahūnām kasmāt na bhavati . sup supā iti vartate . nanu ca bhoḥ ākṛtau śāstrāṇi pravartante . tat yathā prātipadikāt iti vartamāne anyasmāt ca anyasmāt ca prātipadikāt utpattiḥ bhavati . satyam etat . ākṛtiḥ tu pratyekam parisamāpyate . yāvati etat parisamāpyate prātipadikāt iti tāvataḥ utpattyā bhavitavyam . pratyekam ca etat parisamāpyate na samudāye . evam iha api yāvati etat parisamāpyate sup supā iti tāvataḥ samāsena bhavitavyam . dvayoḥ dvayoḥ ca etat parisamāpyate na bahuṣu . dvayoḥ tarhi kasmāt na bhavati . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yadi sāpekṣam asamartham bhavati iti ucyate rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ na prāpnoti . na eṣaḥ doṣaḥ . pradhānam atra sāpekṣam . bhavati ca pradhānasya sāpekṣasya api samāsaḥ . yatra tarhi apradhānam sāpekṣam bhavati tatra te vṛttiḥ na prāpnoti : devadattasya gurukulam , devadattasya guruputraḥ , devadattasya dāsabhāryā iti . na eṣaḥ doṣaḥ . samudāyapekṣā atra ṣaṣṭḥī sarvam gurukulam apekṣate . yatra tarhi na samudāyapekṣā ṣaṣṭḥī tatra vṛttiḥ na prāpnoti : kim odanaḥ śālīnām . saktvāḍhakam āpaṇīyānām . kutaḥ bhavān pāṭaliputrakaḥ . iha ca api : devadattasya gurukulam , devadattasya guruputraḥ , devadattasya dāsabhāryā iti : yadi eṣā samudāyapekṣā ṣaṣṭḥī syāt na etat niyogataḥ gamyeta devadattasya yaḥ guruḥ tasya yaḥ putraḥ iti . kim tarhi . anyasya api guruputraḥ devadattasya kim cit iti eṣaḥ arthaḥ gamyeta . yataḥ tu niyogataḥ devadattasya yaḥ guruḥ tasya yaḥ putraḥ iti eṣaḥ arthaḥ gamyate ataḥ manyāmahe na samudāyapekṣā ṣaṣṭḥī iti . anyatra khalu api samarthagrahaṇe sāpekṣasya api kāryam bhavati . kva anyatra . isusoḥ sāmarthye . brāhamaṇasya sarpiḥ karoti iti . tasmāt na aeta śakyak vaktum sāpekṣam asamartham bhavati iti . vṛttiḥ tarhi kasmāt na bhavati mahat kaṣṭam śritaḥ iti . saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam . yadi saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate devadattasya gurukulam devadattasya guruputraḥ devadattasya dāsabhāryā iti atra vṛttiḥ na prāpnoti . agurukulaputrādīnām iti vaktavyam . tat tarhi vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate agurukulaputrādīnām iti . na vaktavyam . vṛttiḥ tarhi kasmāt na bhavati . agamakatvāt . iha samānārthena vākyena bhavitavyam samāsena ca . yaḥ ca iha arthaḥ vākyena gamyate mahat kaṣṭam śritaḥ iti na jātu cit samāsena asau gamyate mahat kaṣṭaśritaḥ iti . etasmāt hetoḥ brūmaḥ agamakatvāt iti . na brūmaḥ apaśabdaḥ syāt iti . yatra gamakaḥ bhavati bhavati tatra vṛttiḥ . tat yathā : devadattasya gurukulam , devadattasya guruputraḥ , devadattasya dāsabhāryā iti . yadi agamakatvam hetuḥ na arthaḥ samarthagrahaṇena . iha api bhāryā rājñaḥ puruṣaḥ devadattasya iti yaḥ arthaḥ vākyena gamyate na asau jātu cit samāsena asau gamyate bhārya rājapuruṣaḥ devadattasya iti . tasmāt na arthaḥ samarthagrahaṇena . idam

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६१।२५-३६३।२८ रो इइ,५०५-५१६ अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम । पृथगर्थानाम् एकार्थीभावः समर्थवचनम् । पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते । वाक्ये पृथगर्थानि राज्ञः पुरुषः इति । समासे पुनः एकार्थानि राजपुरुषः इति । किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव । न अपि ब्रूमः अन्यस्य आनयनम् भवति इति । कः तर्हि एकार्थीभावकृतः विशेषः । सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः । सुपः अलोपः भवति वाक्ये । राज्ञः पुरुषः इति । समासे पुनः न भवति । राजपुरुषः इति । व्यवधानम् च भवति वाक्ये । राज्ञः ऋद्धस्य पुरुषः इति । समासे न भवति । राजपुरुषः इति । यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये । रज्ञः पुरुषः पुरुषः राज्ञः इति । समासे न भवति । राजपुरुषः इति । द्वौ स्वरौ भवतः वाक्ये । रज्ञः पुरुषः । समासे पुनः एकः एव । राजपुरुषः इति । न एते एकार्थीभावकृताः विशेषाः । किम् तर्हि । वाचनिकानि एतानि । आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति । इमे तर्हि एकार्थीभाव्कृताः विशेषाः । सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति । सङ्ख्याविशेषः भवति वाक्ये । राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति । समासे न भवति । राजपुरुषः इति । अस्ति कारणम् येन एतत् एवम् भवति । किम् कारणम् । यः असौ विशेषवाची शब्दः तदसान्निध्यात् । अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः । ननु च न एतेन एवम् भवितव्यम् । न हि शब्दकृतेन नाम अर्थेन भवितव्यम् । अर्थकृतेन नाम शब्देन भवितव्यम् । तत् एतत् एवम् दृश्यताम् । अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत : अप्सुचरः गोषुचरः वर्षासुजः इति । व्यक्ताभिधानम् भवति वाक्ये । ब्राह्मणस्य कम्बलः तिष्ठति इति । समासे पुनः अव्यक्तम् । ब्राह्मणकम्बलः तिष्ठति इति । सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति । एषः अपि अविशेषः । भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् । वाक्ये तावत् अव्यक्तम् । अर्धम् पशोः देवदत्तस्य इति । सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति । तत् च समासे व्यक्तम् भवति । अर्ध्हपशुः देवदत्तस्य इति । उपसर्जनविशेषणम् भवति वाक्ये । ऋद्धस्य राज्ञः पुरुषः इति । समासे न भवति । राजपुरुषः इति । एषः अपि अदोषः । समासे अपि उपसर्जनविशेषणम् भवति । तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति । चयोगः भवति वाक्ये । स्वचयोगः स्वामिचयोगः च । स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति । समासे न भवति । राज्ञः गवाश्वपुरुषाः इति । स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति । समासे न भवति । देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति । अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् । स्वाभाविकम् इति आह । कुतः एतत् । अर्थानादेशात् । न हि अर्थाः आदिश्यन्ते । कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् । यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति । न एतानि अर्थादेशनानि । स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते । तत् यथा । कूपे हस्तदक्षिणः पन्थाः । अभ्रे चन्द्रमसम् पश्य इति । स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते । एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति । किम् पुन कारणम् न आदिश्यन्ते । तत् च लघ्वर्थम् । लघ्वर्थम् हि अर्थाः न आदिश्यन्ते । अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् । तस्य च तावत् केन कृतः येन असौ क्रियते । अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था । असम्भवः खलु अपि आदेशः तस्य । कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् । न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति । भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः । तत् यथा शुक्लः कृष्णः इति

KA I,361.25-363.28 Ro II,505-516 atha kriyamāṇe api samarthagrahaṇe samartham iti ucyate kim samartham nāma . pṛthagarthānām ekārthībhāvaḥ samarthavacanam . pṛthagarthānām padānam ekārthībhāvaḥ samartham iti ucyate . vākye pṛthagarthāni rājñaḥ puruṣaḥ iti . samāse punaḥ ekārthāni rājapuruṣaḥ iti . kim ucyate pṛthagarthāni iti yāvatā rājñaḥ puruṣaḥ ānīyatām iti ukte rājapuruṣaḥ iti ca saḥ eva . na api brūmaḥ anyasya ānayanam bhavati iti . kaḥ tarhi ekārthībhāvakṛtaḥ viśeṣaḥ . subalopaḥ vyavadhānam yatheṣṭam anyatareṇa abhisambandhaḥ svaraḥ . supaḥ alopaḥ bhavati vākye . rājñaḥ puruṣaḥ iti . samāse punaḥ na bhavati . rājapuruṣaḥ iti . vyavadhānam ca bhavati vākye . rājñaḥ ṛddhasya puruṣaḥ iti . samāse na bhavati . rājapuruṣaḥ iti . yatheṣṭam anyatareṇa abhisambandhaḥ bhavati vākye . rajñaḥ puruṣaḥ puruṣaḥ rājñaḥ iti . samāse na bhavati . rājapuruṣaḥ iti . dvau svarau bhavataḥ vākye . rajñaḥ puruṣaḥ . samāse punaḥ ekaḥ eva . rājapuruṣaḥ iti . na ete ekārthībhāvakṛtāḥ viśeṣāḥ . kim tarhi . vācanikāni etāni . āha hi bhagavān supaḥ dhātuprātipadikayoḥ upasarjanam pūrvam samāsasya antaḥ udāttaḥ bhavati iti . ime tarhi ekārthībhāvkṛtāḥ viśeṣāḥ . saṅkhyāviśeṣaḥ vyaktābhidānam lkupasarjanaviśeṣaṇam cayogaḥ iti . saṅkhyāviśeṣaḥ bhavati vākye . rājñaḥ puruṣaḥ rājñoḥ puruṣaḥ rājñām puruṣaḥ iti . samāse na bhavati . rājapuruṣaḥ iti . asti kāraṇam yena etat evam bhavati . kim kāraṇam . yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt . aṅga hi bhavān tam uccārayatu gaṃsyate saḥ viśeṣaḥ . nanu ca na etena evam bhavitavyam . na hi śabdakṛtena nāma arthena bhavitavyam . arthakṛtena nāma śabdena bhavitavyam . tat etat evam dṛśyatām . artharūpam eva etat evañjātīyakam yena atra viśeṣaḥ na gamyate iti . avaśyam ca etat evam vijñeyam . yaḥ hi manyate yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha tasya viśeṣaḥ gamyeta : apsucaraḥ goṣucaraḥ varṣāsujaḥ iti . vyaktābhidhānam bhavati vākye . brāhmaṇasya kambalaḥ tiṣṭhati iti . samāse punaḥ avyaktam . brāhmaṇakambalaḥ tiṣṭhati iti . sandehaḥ bhavati sambuddhiḥ syāt ṣaṣṭhīsamāsaḥ vā iti . eṣaḥ api aviśeṣaḥ . bhavati hi kim cit vākye avyaktam tat ca samāse vyaktam . vākye tāvat avyaktam . ardham paśoḥ devadattasya iti . sandehaḥ bhavati paśuguṇasya vā devadattasya yat ardham artha vā yaḥ asau sañjñībhūtaḥ paśuḥ nāma tasya yat ardham iti . tat ca samāse vyaktam bhavati . ardhhapaśuḥ devadattasya iti . upasarjanaviśeṣaṇam bhavati vākye . ṛddhasya rājñaḥ puruṣaḥ iti . samāse na bhavati . rājapuruṣaḥ iti . eṣaḥ api adoṣaḥ . samāse api upasarjanaviśeṣaṇam bhavati . tat yathā devadattasya gurukulam devadattasya guruputraḥ devadattasya dāsabhāryā iti . cayogaḥ bhavati vākye . svacayogaḥ svāmicayogaḥ ca . svacayogaḥ rājñaḥ gauḥ ca aśvaḥ ca puruṣaḥ ca iti . samāse na bhavati . rājñaḥ gavāśvapuruṣāḥ iti . svāmicayogaḥ devadattasya ca yajñadattasya ca viṣṇumitrasya ca gauḥ iti . samāse na bhavati . devadattayajñadattaviṣṇumitrāṇām gauḥ iti . atha etasmin ekārthībhāvkṛte viśeṣe kim svābhāvikam śabdaiḥ arthābhidhānam āhosvit vācanikam . svābhāvikam iti āha . kutaḥ etat . arthānādeśāt . na hi arthāḥ ādiśyante . katham punaḥ arthān ādiśan evam brūyāt na arthāḥ ādiśyante it . yat āha bhavān anekam anyapadārthe cārthe dvandvaḥ apatye rakte nirvṛtte iti . na etāni arthādeśanāni . svabhāvataḥ eteṣām śabdānām eteṣu artheṣu abhiniviṣṭānām nimittatvena anvākhyānam kriyate . tat yathā . kūpe hastadakṣiṇaḥ panthāḥ . abhre candramasam paśya iti . svabhāvataḥ tatrasthasya pathaḥ candramasaḥ ca nimittatvena anvākhyānam kriyate . evam iha api cārthe yaḥ saḥ dvandvasamāsaḥ anyapadārthaḥ yaḥ saḥ bahuvrīhiḥ iti . kim puna kāraṇam na ādiśyante . tat ca laghvartham . laghvartham hi arthāḥ na ādiśyante . avaśyam hi anena arthān ādiśatā kena cit śabdena nirdeśaḥ kartavyaḥ syāt . tasya ca tāvat kena kṛtaḥ yena asau kriyate . atha tasya kena cit kṛtaḥ tasya kena kṛtaḥ iti anavasthā . asambhavaḥ khalu api ādeśaḥ tasya . kaḥ hi nāma samarthaḥ dhātuprātipadikapratyayanipātānām arthān ādeṣṭum . na ca etat mantavyam pratyayārthe nirdiṣṭe prakṛtyarthaḥ anirdiṣṭaḥ iti . bhavati hi guṇābhidhāne guṇinaḥ sampratyayaḥ . tat yathā śuklaḥ kṛṣṇaḥ iti

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६४।१-५ रो इइ,५१६ वावचनानर्थक्यम् च स्वभावसिद्धत्वात् । वावचनानर्थक्यम् । किम् कारणम् । स्वभावसिद्धत्वात् । इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च । स्वभावतः च एतत् भवति वाक्यम् च समासः च । तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । तस्मात् न अर्थः वा वचनेन ।

KA I,364.1-5 Ro II,516 vāvacanānarthakyam ca svabhāvasiddhatvāt . vāvacanānarthakyam . kim kāraṇam . svabhāvasiddhatvāt . iha dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca . svabhāvataḥ ca etat bhavati vākyam ca samāsaḥ ca . tatra svābhāvike vṛttiviṣaye nitye samāse prapte vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . na ca sañjñāyāḥ bhāvābhāvau iṣyete . tasmāt na arthaḥ vā vacanena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६४।६-३६५।१४ रो इइ,५१७-५२५ अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः । परार्थाभिधानम् वृत्तिः इति आहुः । अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था । किम् च अतः । यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य । अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति । का पुनः वृत्तिः न्याय्या । जहत्स्वार्था । युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् । बाढम् युक्तम् । एवम् हि दृश्यते लोके । पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति । तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति । एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् । ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति । न एषः दोषः । जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति । यः परार्थविरोधी स्वार्थः तम् जहाति । तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि । न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम । तस्मात् न हास्यति । अथ वा अन्वयात् विशेषणम् भविष्यति । तत् यथा । घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति । विषमः उपन्यासः । भवति हि तत्र या च यावती च अर्थमात्रा । अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु । न गंस्यते सः विशेषः । यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति । अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते । सामर्थम् नम भेदः संसर्गः वा । अपरः आह : भेदसंसर्गौ वा सामर्थ्यम् इति । कः पुनः भेदः संसर्गः वा । इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः । इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः । एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु । न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति । अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः । युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् । बाढम् युक्तम् । एवम् हि दृश्यते लोके । भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते । ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति । कस्याः पुनः द्विवचनम् प्राप्नोति । प्रथामायाः । न प्रथमासमर्थः राजा । षष्ठ्याः तर्हि । न षष्ठीसमर्थः पुरुषः । प्रथमायाः एव तर्हि प्राप्नोति । ननु च उक्तम् न प्रथमासमर्थः राजा इति । अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः । तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति । सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः । सङ्घातस्य एकत्वम् अर्थः । तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति । परस्परव्यपेक्षा सामर्थ्येम् एके । परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति । का पुनः शब्दयोः व्यपेक्षा । न ब्रूमः शब्दयोः इति । किम् तर्हि । अर्थयोः । इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति । पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति । तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति । तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।

KA I,364.6-365.14 Ro II,517-525 atha ye vṛttim vartayanti kim te āhuḥ . parārthābhidhānam vṛttiḥ iti āhuḥ . atha teṣām evam bruvatām kim jahatsvārthā vṛttiḥ āhosvit ajahatsvārthā . kim ca ataḥ . yadi jahatsvārthā vṛttiḥ rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam prāpnoti aupagavam ānaya iti ukte apatyamātrasya . atha ajahatsvārthā vṛttiḥ ubhayoḥ vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti . kā punaḥ vṛttiḥ nyāyyā . jahatsvārthā . yuktam punaḥ yat jahatsvārthā nāma vṛttiḥ syāt . bāḍham yuktam . evam hi dṛśyate loke . puruṣaḥ ayam parakarmaṇi pravartamānaḥ svam karma jahāti . tat yathā takṣā rājakarmaṇi vartamānaḥ svam karma jahāti . evam yuktam yat rājā puruṣārthe vartamānaḥ svam artham jahyāt upaguḥ ca apartyārthe vartamānaḥ svam artham jahyāt . nanu ca uktam rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam prāpnoti aupagavam ānaya iti ukte apatyamātrasya iti . na eṣaḥ doṣaḥ . jahat api asau svārtham na atyantāya jahāti . yaḥ parārthavirodhī svārthaḥ tam jahāti . tat yathā takṣā rājakarmaṇi vartamānaḥ svam takṣakarma jahāti na hikkitahasitakaṇḍūyitāni . na ca ayam arthaḥ parārthavirodhī viśeṣaṇam nāma . tasmāt na hāsyati . atha vā anvayāt viśeṣaṇam bhaviṣyati . tat yathā . ghṛtaghaṭaḥ tailaghaṭaḥ iti niṣikte ghṛte taile vā anvyayāt viśeṣaṇam bhavati ayam ghṛtaghaṭaḥ ayam tailaghaṭaḥ iti . viṣamaḥ upanyāsaḥ . bhavati hi tatra yā ca yāvatī ca arthamātrā . aṅga hi bhavān agnau niṣṭapya ghṛtaghaṭam tṛṇakūrcena prakṣālayatu . na gaṃsyate saḥ viśeṣaḥ . yathā tarhi mallikāpuṭaḥ campakaputaḥ iti niṣkīrṇāsu api sumanaḥsu anvayāt viśeṣaṇam bhavati ayam mallikapuṭaḥ ayam campakapuṭaḥ iti . atha vā samarthādhikāraḥ ayam vṛttau kriyate . sāmartham nama bhedaḥ saṃsargaḥ vā . aparaḥ āha : bhedasaṃsargau vā sāmarthyam iti . kaḥ punaḥ bhedaḥ saṃsargaḥ vā . iha rājñaḥ iti ukte sarvam svam prasaktam puruṣaḥ iti ukte sarvaḥ svāmi prasaktaḥ . iha idānīm rājapuruṣaḥ iti ukte rājā puruṣam nivartayati anyebhyaḥ svāmibhyaḥ puruṣaḥ api rājānam anyebhyaḥ svebhyaḥ . evam etasmin ubhayataḥ vyavacchinne yadi jahāti kāmam jahātu . na jātu cit puruṣamātrasya ānayanam bhaviṣyati . atha vā punaḥ astu ajahatsvārthā vṛttiḥ . yuktam punaḥ yat ajahatsvārthā nāma vṛttiḥ syāt . bāḍham yuktam . evam hi dṛśyate loke . bhikṣukaḥ ayam dvitīyām bhikṣām āsādya pūrvām na jahāti sañcayāya pravartate . nanu ca uktam ubhayoḥ vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti iti . kasyāḥ punaḥ dvivacanam prāpnoti . prathāmāyāḥ . na prathamāsamarthaḥ rājā . ṣaṣṭhyāḥ tarhi . na ṣaṣṭhīsamarthaḥ puruṣaḥ . prathamāyāḥ eva tarhi prāpnoti . nanu ca uktam na prathamāsamarthaḥ rājā iti . abhinihitaḥ saḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ . tatra prātipadikārthe prathamā iti prathamāyāḥ eva dvivacanam prāpnoti . saṅghātasya aikārthyāt na avayavasaṅkhyātaḥ subutpattiḥ . saṅghātasya ekatvam arthaḥ . tena avayavasaṅkhyātaḥ subutpattiḥ na bhaviṣyati . parasparavyapekṣā sāmarthyem eke . parasparavyapekṣā sāmarthyem eke icchanti . kā punaḥ śabdayoḥ vyapekṣā . na brūmaḥ śabdayoḥ iti . kim tarhi . arthayoḥ . iha rājñaḥ puruṣaḥ iti ukte rājā puruṣam apekṣate mama ayam iti . puruṣaḥ api rājānam apekṣate aham asya iti . tayoḥ abhisambandhasya ṣaṣṭhī vācikā bhavati . tathā kaṣṭam śritaḥ iti kriyākārakayoḥ abhisambandhasya dvitīyā vācikā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६५।१५-३६७।९ रो इइ,५२५-५३१ अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् । गतम् इति आह । कथम् । समः अयम् अर्थशब्देन सह समासः । सम् च उपसर्गः । उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः । न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् । तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति । तत् यथा । धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति । कः पुनः असौ प्रयोगार्हः शब्दः । उच्यते । सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति । तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति । तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते । एकीभूतम् इति गम्यते । यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति । कः पुनः इह बध्नात्यर्थः । सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति । न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते । किम् तर्हि । अहानौ अपि वर्तते । तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः । अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते । तत् यथा । अस्ति नः गर्गैः सम्बन्धः । अस्ति नः वत्सैः सम्बन्धः । संयोगः इति अर्थः । अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः । तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः । तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति । तेषाम् प्रतिषेधः वक्तव्यः । निघातः । अयम् दण्डः । हर अनेन । अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति । युष्मदस्मदादेशाः । ओदनम् पच । तव भविष्यति । ओदनम् पच मम भविष्यति । अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति । तेषाम् प्रतिषेधः वक्तव्यः । किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते । न अपि ब्रूमः अन्येन आसज्य ह्रियते इति । किम् तर्हि । शब्दप्रमाणकाः वयम् । यत् शब्दः आह तत् अस्माकम् प्रमाणम् । शब्दः च इह सत्ताम् आह । अयम् दण्डः । अस्ति इति गम्यते । सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते । तत् यथा । कः चित् कम् चित् पृच्छति । क्व देवदत्तः इति । सः तस्मै आचष्टे । असौ वृक्षे इति । कतरस्मिन् । यः तिष्ठति इति । सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते । प्रचये समासप्रतिषेधः । प्रचये समासप्रतिषेधः वक्तव्यः । राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति । समर्थतराणाम् वा । समर्थतराणाम् वा पदानाम् समासः भविष्यति । कानि पुनः समर्थतराणि । यानि द्वन्द्वभावीनि । कुतः एतत् । एषाम् हि आशुतरा वृत्तिः प्राप्नोति । तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते । आश्रुतरग्रन्थः इति गम्यते । अपरः आह : समर्थतराणाम् वा पदानाम् समासः भविष्यति । कानि पुनः समर्थतराणि । यानि द्वन्द्वभावीनि । कुतः एतत् । एतानि समानविभक्तीनि अन्यविभक्तिः राजा । भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च । समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् । समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन । अपरः आह । समर्थतराणाम् वा समुदायसामर्थ्यात् । समर्थतराणाम् वा पदानाम् समासः भवति । कुतः एतत् । समुदायसामर्थ्यात् एव । अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति । एतत् च समर्थितम् । कथम् । न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति । किम् तर्हि । गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति । प्रधानम् अत्र तद गौः भवति । भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

KA I,365.15-367.9 Ro II,525-531 atha yadi eva ekārthībhāvaḥ sāmarthyam atha api vyapekṣā sāmarthyam kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . samaḥ ayam arthaśabdena saha samāsaḥ . sam ca upasargaḥ . upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit kriyāvācī śabdaḥ prayujyate tatra kriyāviśeṣam āhuḥ . na ca iha kaḥ cit kriyāvācī śabdaḥ prayujyate yena samaḥ sāmarthyam syāt . tatra prayogāt etat gantavyam nūnam atra kaḥ cit prayogārhaḥ śabdaḥ na prayujyate yena samaḥ sāmarthyam iti . tat yathā . dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam ca dṛṣṭvā parivrājakaḥ iti . kaḥ punaḥ asau prayogārhaḥ śabdaḥ . ucyate . saṅgatārtham samartham saṃsṛṣṭārtham samartham samprekṣitam artham samartham sambaddhārtham samartham iti . tat yadā tāvat ekārthībhāvaḥ sāmarthyam tadā evam vigrahaḥ kariṣyate saṅgatārthaḥ saṃsṛṣṭārthaḥ samarthaḥ iti . tat yathā saṅgatam ghṛtam saṅgatam tailam iti ucyate . ekībhūtam iti gamyate . yadā vyapekṣā sāmarthyam tadā evam vigrahaḥ kariṣyate samprekṣitārthaḥ samarthaḥ sambaddhārthaḥ samarthaḥ iti . kaḥ punaḥ iha badhnātyarthaḥ . sambaddhaḥ iti ucyate yaḥ rajjvā ayasā vā kīle vyatiṣiktaḥ bhavati . na avaśyam badhnātiḥ vyatiṣaṅge eva vartate . kim tarhi . ahānau api vartate . tat yathā sambaddhau imau damyau iti ucyete yau anyonyam na jahītaḥ . atha vā bhavati ca evañjātīyakeṣu badhnātiḥ vartate . tat yathā . asti naḥ gargaiḥ sambandhaḥ . asti naḥ vatsaiḥ sambandhaḥ . saṃyogaḥ iti arthaḥ . atha etasmin vyapekṣāyām sāmarthye yaḥ asau ekārthībhāvkṛtaḥ viśeṣaḥ sa vaktavyaḥ . tatra nānākārakāt nighātayuṣmadasmadādeśepratiṣedhaḥ . tatra etasmin vyapekṣāyām sāmarthye nānākārakāt nighātayuṣmadasmadādeśāḥ prāpnuvanti . teṣām pratiṣedhaḥ vaktavyaḥ . nighātaḥ . ayam daṇḍaḥ . hara anena . asti daṇḍasya harateḥ ca vyapekṣā iti kṛtvā nighātaḥ prāpnoti . yuṣmadasmadādeśāḥ . odanam paca . tava bhaviṣyati . odanam paca mama bhaviṣyati . asti odanasya yuṣmadasmadoḥ ca vyapekṣā iti kṛtvā vāmnāvādayaḥ prāpnuvanti . teṣām pratiṣedhaḥ vaktavyaḥ . kim ucyate nānākārakāt iti yadā tena eva āsajya hriyate . na api brūmaḥ anyena āsajya hriyate iti . kim tarhi . śabdapramāṇakāḥ vayam . yat śabdaḥ āha tat asmākam pramāṇam . śabdaḥ ca iha sattām āha . ayam daṇḍaḥ . asti iti gamyate . saḥ daṇḍaḥ kartā bhūtvā anyena śabdena abhisambadhyamānaḥ karaṇam sampadyate . tat yathā . kaḥ cit kam cit pṛcchati . kva devadattaḥ iti . saḥ tasmai ācaṣṭe . asau vṛkṣe iti . katarasmin . yaḥ tiṣṭhati iti . saḥ vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ kartā sampadyate . pracaye samāsapratiṣedhaḥ . pracaye samāsapratiṣedhaḥ vaktavyaḥ . rājñaḥ gauḥ ca aśvaḥ ca puruṣaḥ ca rājagavāśvapuruṣāḥ iti . samarthatarāṇām vā . samarthatarāṇām vā padānām samāsaḥ bhaviṣyati . kāni punaḥ samarthatarāṇi . yāni dvandvabhāvīni . kutaḥ etat . eṣām hi āśutarā vṛttiḥ prāpnoti . tat yathā samarthataraḥ ayam māṇavakaḥ adhyayanāya iti ucyate . āśrutaragranthaḥ iti gamyate . aparaḥ āha : samarthatarāṇām vā padānām samāsaḥ bhaviṣyati . kāni punaḥ samarthatarāṇi . yāni dvandvabhāvīni . kutaḥ etat . etāni samānavibhaktīni anyavibhaktiḥ rājā . bhavati viśeṣaḥ svasmin bhrātari pitṛvyaputre ca . samudāyasāmarthyāt vā siddham ṣamudāyasāmarthyāt vā punaḥ siddham etat . samudāyena rājñaḥ sāmarthyam bhavati na avayavena . aparaḥ āha . samarthatarāṇām vā samudāyasāmarthyāt . samarthatarāṇām vā padānām samāsaḥ bhavati . kutaḥ etat . samudāyasāmarthyāt eva . asmin pakṣe vā iti etat asamarthitam bhavati . etat ca samarthitam . katham . na eva vā punaḥ atra rājñaḥ aśvapuruṣau apekṣamāṇasya gavā saha samāsaḥ bhavati . kim tarhi . goḥ rājānam apekṣamāṇasya āsvapuruṣābhyām samāsaḥ samāsaḥ bhavati . pradhānam atra tada gauḥ bhavati . bhavati ca pradhānasya sāpekṣasya api samāsaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६७।१०-३६८।२४ रो इइ,५३२-५३७ आख्यातम् साव्ययकारकविशेषणम् वाक्यम् । आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् । साव्ययम् । उच्चैः पठति । नीचैः पठति । सकारकम् । ओदनम् पचति । सकारकविशेषणम् । ओदनम् मृदु विशदम् पचति । सक्रियाविशेषणम् च इति वक्तव्यम् । सुष्ठु पचति । दुष्ठु पचति । अपरः आह : आख्यातम् सविशेषणम् इति एव । सर्वाणि हि एतानि क्रियाविशेषणानि । एकतिङ् । एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् । ब्रूहि ब्रूहि । समानवाक्ये निघातयुष्मदस्मदादेशाः । समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः । किम् प्रयोजनम् । नानावाक्ये मा भूवन् निघातादयः इति । अयम् दण्डः । हर अनेन । ओदनम् पच । तव भविष्यति । ओदनम् पच । मम भविष्यति । योगे प्रतिषेधः चादिभिः । चादिभिः योगे प्रतिषेधः वक्तव्यः । ग्रामः तव च स्वम् मम च स्वम् । किमर्थम् इचम् उच्यते । यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते । इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च । तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति । समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात् । समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् । समानाधिकरणे । पटवे ते दास्यामि । म्र्दवे ते दास्यामि । समानाधिकरणे । युक्तयुक्ते । नद्याः तिष्ठति कूले । वृक्षस्य लम्बते शाखा । शालीनाम् ते ओदनम् ददामि । शालीनाम् मे ओदनम् ददाति । किम् पुनः कारणम् न सिध्यति । असमर्थत्वात् । राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात् । राजगवीक्षीरे द्विसमासप्रसङ्गः । किम् कारणम् । द्विषष्ठीभावात् । द्वे हि अत्र षष्ठ्यौ । राज्ञः गोः क्षीरम् इति । किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते । द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति । कथम् तर्हि । द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति । राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् । भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति । यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति । तदा कस्मात् न भवति । सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात् । सिद्धम् एतत् । कथम् । राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते । राज्ञः या गौः तस्याः यत् क्षीरम् इति । न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति । प्रधानम् अत्र तद गौः भवति । भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

KA I,367.10-368.24 Ro II,532-537 ākhyātam sāvyayakārakaviśeṣaṇam vākyam . ākhyātam sāvyayam sakārakam sakārakaviśeṣaṇam vākyasañjñam bhavati vaktavyam . sāvyayam . uccaiḥ paṭhati . nīcaiḥ paṭhati . sakārakam . odanam pacati . sakārakaviśeṣaṇam . odanam mṛdu viśadam pacati . sakriyāviśeṣaṇam ca iti vaktavyam . suṣṭhu pacati . duṣṭhu pacati . aparaḥ āha : ākhyātam saviśeṣaṇam iti eva . sarvāṇi hi etāni kriyāviśeṣaṇāni . ekatiṅ . ekatiṅ vākyasañjñam bhavati vaktavyam . brūhi brūhi . samānavākye nighātayuṣmadasmadādeśāḥ . samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ vaktavyāḥ . kim prayojanam . nānāvākye mā bhūvan nighātādayaḥ iti . ayam daṇḍaḥ . hara anena . odanam paca . tava bhaviṣyati . odanam paca . mama bhaviṣyati . yoge pratiṣedhaḥ cādibhiḥ . cādibhiḥ yoge pratiṣedhaḥ vaktavyaḥ . grāmaḥ tava ca svam mama ca svam . kimartham icam ucyate . yathānyāsam eva cādibhiḥ yoge pratiṣedhaḥ ucyate . idam adya apūrvam kriyate vākyasañjñā samānavākyādhikāraḥ ca . tat dveṣyam vijānīyāt : sarvam etat vikalpate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe cādibhiḥ yoge yathānyāsam eva bhavati iti . samarthanighāte hi samānādhikaraṇayuktayukteṣu upasaṅkhyānam asamarthatvāt . samarthanighāte hi samānādhikaraṇayuktayukteṣu upasaṅkhyānam kartavyam syāt . samānādhikaraṇe . paṭave te dāsyāmi . mrdave te dāsyāmi . samānādhikaraṇe . yuktayukte . nadyāḥ tiṣṭhati kūle . vṛkṣasya lambate śākhā . śālīnām te odanam dadāmi . śālīnām me odanam dadāti . kim punaḥ kāraṇam na sidhyati . asamarthatvāt . rājagavīkṣīre dvisamāsaprasaṅgaḥ dviṣaṣṭhībhāvāt . rājagavīkṣīre dvisamāsaprasaṅgaḥ . kim kāraṇam . dviṣaṣṭhībhāvāt . dve hi atra ṣaṣṭhyau . rājñaḥ goḥ kṣīram iti . kim ucyate dvisamāsaprasaṅgaḥ iti yāvatā sup saha supā iti vartate . dvisamāsaprasaṅgaḥ iti na evam vijñāyate dvayoḥ subantayoḥ samāsaprasaṅgaḥ dvisamāsaprasaṅgaḥ iti . katham tarhi . dviprakārasya samāsasya prasaṅgaḥ dvisamāsaprasaṅgaḥ iti . rājagokṣīram iti api prāpnoti na ca evam bhavitavyam . bhavitavyam ca yadā etat vākyam bhavati goḥ kṣīram gokṣīram rājñaḥ gokṣīram rājagokṣīram iti . yadā tu etat vākyam bhavati rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā ca prāpnoti . tadā kasmāt na bhavati . siddham tu rājaviśiṣṭāyāḥ goḥ kṣīreṇa sāmarthyāt . siddham etat . katham . rājaviśiṣṭāyāḥ goḥ kṣīreṇa saha samāsaḥ bhavati na kevalāyāḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . yathā eva ayam gavi yatate na kṣīramātreṇa santoṣam karoti evam rājani api yatate . rājñaḥ yā gauḥ tasyāḥ yat kṣīram iti . na eva vā punaḥ atra goḥ rājānam apekṣamāṇāyāḥ kṣīreṇa saha samāsaḥ prāpnoti . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . katham tarhi goḥ kṣīram apekṣamāṇāyāḥ rājñā saha samāsaḥ bhavati . pradhānam atra tada gauḥ bhavati . bhavati ca pradhānasya sāpekṣasya api samāsaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३६८।२५-३६९।२४ रो इइ,५३७-५४० अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते । पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात्। पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत । तिष्ठतु दधि अशान त्वम् शाकेन । तिष्ठतु कुमारी छत्रम् हर देवदत्त इति । समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम् । समर्थाधिकारः अयम् विधेयेन समानाधिकरणः । किम् च विधेयम् । समासः । यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः । न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा । समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः । सिद्धम् तु समर्थानाम् इति वचनात् । सिद्धम् एतत् । कथम् । समर्थानाम् पदानाम् विधिः इति वक्तव्यम् । एवम् अपि द्व्येकयोः न प्राप्नोति । एकशेषनिर्देशात् वा । अथ वा एकशेषनिर्देशः अयम्। समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति । एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति । षट्प्रभृतिषु हि एकशेषः परिसमाप्यते । न एषः दोषः । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति । एवम् अपि विविभक्तीनाम् न प्राप्नोति । समर्थात् समर्थे पदात् पदे इति । एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः : समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः । पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः । समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः । पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः । समर्थविधिः च पदविधिः च समर्थः पदविधिः । पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।

KA I,368.25-369.24 Ro II,537-540 atha kimartham padavidhau samarthādhikāraḥ kriyate . padavidhau samarthavacanam varṇāśraye śāstre ānantaryavijñānāt. padavidhau samarthādhikāraḥ kriyate varṇāśraye śāstre ānantaryamātre kāryam yathā vijñāyeta . tiṣṭhatu dadhi aśāna tvam śākena . tiṣṭhatu kumārī chatram hara devadatta iti . samarthādhikārasya vidheyasāmānādhikaraṇyāt nirdeśānarthakyam . samarthādhikāraḥ ayam vidheyena samānādhikaraṇaḥ . kim ca vidheyam . samāsaḥ . yāvat brūyāt samarthaḥ samāsaḥ iti tāvat samarthaḥ padavidhiḥ . na ca rājapuruṣaḥ iti etasyām avasthāyām samarthādhikāreṇa kim cit api śakyam pravartayitum nivartayitum vā . samarthādhikārasya vidheyasāmānādhikaraṇyāt nirdeśaḥ anarthakaḥ . siddham tu samarthānām iti vacanāt . siddham etat . katham . samarthānām padānām vidhiḥ iti vaktavyam . evam api dvyekayoḥ na prāpnoti . ekaśeṣanirdeśāt vā . atha vā ekaśeṣanirdeśaḥ ayam. samarthasya ca samarthayoḥ ca samarthānām ca samarthānām iti . evam api ṣaṭprabhṛtīnām eva prāpnoti . ṣaṭprabhṛtiṣu hi ekaśeṣaḥ parisamāpyate . na eṣaḥ doṣaḥ . pratyekam vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati . evam api vivibhaktīnām na prāpnoti . samarthāt samarthe padāt pade iti . evam tarhi samarthapadayoḥ vidhiśabdena sarvavibhaktyantaḥ samāsaḥ : samarthasya vidhiḥ samarthavidhiḥ , samarthayoḥ vidhiḥ samarthavidhiḥ , samarthāt vidhiḥ samarthavidhiḥ , samarthe vidhiḥ samarthvidhiḥ . padasya vidhiḥ padavidhiḥ , padayoḥ vidhiḥ padavidhiḥ , padānām vidhiḥ padavidhiḥ , padāt vidhiḥ padavidhiḥ , pade vidhiḥ padavidhiḥ . samarthavidhiḥ ca samarthavidhiḥ ca samarthavidhiḥ ca samarthavidhiḥ ca samarthavidhiḥ ca samarthavidhiḥ . padavidhiḥ ca padavidhiḥ ca padavidhiḥ ca padavidhiḥ ca padavidhiḥ ca padavidhiḥ . samarthavidhiḥ ca padavidhiḥ ca samarthaḥ padavidhiḥ . pūrvaḥ samāsaḥ uttarapadalopī yādṛcchikīvibhaktiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७०।१-३७१।२४ रो इइ,५४०-५४६ समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात् । समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् । वीरः पूरुषः वीरपुरुषः । किम् पुनः कारणम् न सिध्यति । असमर्थत्वात् । कथम् असमर्थत्वम् । द्रव्यम् पदार्थः इति चेत्। यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् । अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् । अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् । न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति । अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति । कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् । एषः विशेषः । एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् । द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति । अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् । ननु च अभ्यन्तरः असौ भवति । यदि अपि अभ्यन्तरः न तु गम्यते । न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् । गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् । अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते । एवम् अनयोः सामर्थ्यम् स्यात् वा न वा । क्व च तावत् इदम् स्यात् समानाधिकरणेन इति । यत्र सर्वम् समामन् : इन्द्रः शक्रः पुरुहूतः पुरन्दरः । कन्दुः कोष्ठः कुशूलः इति । न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् । किम् कारणम् । अर्थगत्यर्थः शब्दप्रयोगः । अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः इति । न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति । न एतौ समानार्थौ । एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे : शक्यः भर्तुम् भृत्यः । अर्हति भृतिम् भरणीयः । भृत्यः भरणीयः भृत्यभरणीयः इति । यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति । दर्शनीयायाः माता दर्शनीयमाता इति । अत्र अपि किम् चित् समानम् कः चित् विशेषः । किम् पुनः तत् । सद्भावान्यभावौ । न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति । तत्र प्रकर्षगतिः विज्ञास्यते : यत्र साधीयः सामानाधिकरण्यम् । क्व च साधीयः सामानाधिकरण्यम् । यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च। अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति । न च एतत् समानम् क्व चित् अपि न भवति । अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति । द्रव्यम् हि लोके अधिकरणम् इति उच्यते । तत् यथा । एकस्मिन् द्रव्ये व्युदितम् । एकस्मिन् अधिकरणे व्युदितम् इति । तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते । एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति । किम् प्रयोजनम् । सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् । यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति । अधात्वभिहितम् इति एवम् तत् । एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् । वीरः पूरुषः वीरपुरुषः । किम् कारणम् असमर्थत्वात् । न वा वचनप्रामाण्यात् । न वा कर्तव्यम् । किम् कारणम् । वचनप्रामाण्यात् । वचनप्रामाण्यात् अत्र समासः भविष्यति । किम् वचनप्रामाण्यम् । समानमध्यमध्यमवीराः च इति । लुप्ताख्यातेषु च । लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् । निष्कौशाम्बिः निर्वाराणसिः । लुप्ताख्यातेषु च । किम् । वचनप्रामाण्यात् । किम् वचनप्रामाण्यम् । कुगतिप्रादयः च इति । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । सुराजा अतिराजा इति । न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति । किम् तर्हि । वार्त्तिकवचनप्रामाण्यात् इति । सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति । तदर्थगतेः वा । तदर्थगतेः वा पुनः सिद्धम् एतत् । किम् इदम् तदर्थगतेः इति । तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति । यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते । अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति । यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।

KA I,370.1-371.24 Ro II,540-546 samānādhikaraṇeṣu upasaṅkhyānam asamarthatvāt . samānādhikaraṇeṣu upasaṅkhyānam kartavyam . vīraḥ pūruṣaḥ vīrapuruṣaḥ . kim punaḥ kāraṇam na sidhyati . asamarthatvāt . katham asamarthatvam . dravyam padārthaḥ iti cet. yadi dravyam padārthaḥ na bhavati tadā sāmarthyam . atha hi guṇaḥ padārthaḥ bhavati tadā sāmarthyam . anyaḥ hi vīratvam guṇaḥ anyaḥ hi puruṣatvam . na anyatvam asti iti iyatā sāmarthyam bhavati . anyaḥ hi devadattaḥ gobhyaḥ aśvebhyaḥ ca na ca tasya etāvatā sāmartham bhavati . kaḥ vā viśeṣaḥ yat guṇe padārthe sāmarthyam syāt dravye ca na syāt . eṣaḥ viśeṣaḥ . ekam tayoḥ adhikaraṇam anyaḥ ca vīratvam guṇaḥ anyaḥ puruṣatvam . dravyapadārthikasya api tarhi guṇabhedāt sāmarthyam bhaviṣyati . aśakyaḥ dravyapadārthikena dravyasya guṇakṛtaḥ upakāraḥ pratijñātum . nanu ca abhyantaraḥ asau bhavati . yadi api abhyantaraḥ na tu gamyate . na hi guḍaḥ iti ukte madhuratvam gamyate śṛṅgaveram iti vā kaṭukatvam . guṇapadārthikena api tarhi aśakyaḥ guṇasya dravyakṛtaḥ upakāraḥ pratijñātum . atha guṇapadārthikaḥ pratijānīte dravyapadārthikaḥ api kasmāt na pratijānīte . evam anayoḥ sāmarthyam syāt vā na vā . kva ca tāvat idam syāt samānādhikaraṇena iti . yatra sarvam samāman : indraḥ śakraḥ puruhūtaḥ purandaraḥ . kanduḥ koṣṭhaḥ kuśūlaḥ iti . na evañjātīyakānām samāsena bhavitavyam pratyayena vā utpattavyam . kim kāraṇam . arthagatyarthaḥ śabdaprayogaḥ . artham pratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . na tarhi idānīm idam bhavati bhṛtyabharaṇīyaḥ iti . na etau samānārthau . ekaḥ atra śakyārthe kṛtyaḥ bhavati aparaḥ arhatyarthe : śakyaḥ bhartum bhṛtyaḥ . arhati bhṛtim bharaṇīyaḥ . bhṛtyaḥ bharaṇīyaḥ bhṛtyabharaṇīyaḥ iti . yadi tarhi yatra kim cit samānam kaḥ cit viśeṣaḥ tatra bhavitavyam iha api tarhi prāpnoti . darśanīyāyāḥ mātā darśanīyamātā iti . atra api kim cit samānam kaḥ cit viśeṣaḥ . kim punaḥ tat . sadbhāvānyabhāvau . na kva cit sadbhāvānyabhāvau na staḥ ucyate ca samānādhikaraṇena iti . tatra prakarṣagatiḥ vijñāsyate : yatra sādhīyaḥ sāmānādhikaraṇyam . kva ca sādhīyaḥ sāmānādhikaraṇyam . yatra sarvam samānam sadbhāvānyabhāvau dravyam ca. atha vā samānādhikaraṇena iti tat samānam āśrīyate yat samānam bhavati na ca bhavati . na ca etat samānam kva cit api na bhavati . atha vā yāvat brūyāt samānadravyeṇa iti tāvat samānādhikaraṇena iti . dravyam hi loke adhikaraṇam iti ucyate . tat yathā . ekasmin dravye vyuditam . ekasmin adhikaraṇe vyuditam iti . tathā vyākaraṇe vipratiṣiddham ca anadhikaraṇavāci iti adravyavāci iti gamyate . evam api idam avaśyam kartavyam samānādhikaraṇam asamarthavat bhavati iti . kim prayojanam . sarpiḥ kālakam yajuḥ pītakam iti evamartham . yadi samānādhikaraṇam asamarthavat bhavati iti ucyate sarpiḥ pīyate yajuḥ kriyate iti atra ṣatvam na prāpnoti . adhātvabhihitam iti evam tat . evam ca kṛtvā samānādhikaraṇeṣu upasaṅkhyānam kartavyam . vīraḥ pūruṣaḥ vīrapuruṣaḥ . kim kāraṇam asamarthatvāt . na vā vacanaprāmāṇyāt . na vā kartavyam . kim kāraṇam . vacanaprāmāṇyāt . vacanaprāmāṇyāt atra samāsaḥ bhaviṣyati . kim vacanaprāmāṇyam . samānamadhyamadhyamavīrāḥ ca iti . luptākhyāteṣu ca . luptākhyāteṣu ca upasaṅkhyānam kartavyam . niṣkauśāmbiḥ nirvārāṇasiḥ . luptākhyāteṣu ca . kim . vacanaprāmāṇyāt . kim vacanaprāmāṇyam . kugatiprādayaḥ ca iti . asti anyat etasya vacane prayojanam . kim . surājā atirājā iti . na brūmaḥ vṛttisūtravacanaprāmāṇyāt iti . kim tarhi . vārttikavacanaprāmāṇyāt iti . siddham tu kvāṅksvatidurgativacanāt prādayaḥ ktārthe iti . tadarthagateḥ vā . tadarthagateḥ vā punaḥ siddham etat . kim idam tadarthagateḥ iti . tasya arthaḥ tadarthaḥ tadarthasya gatiḥ tadarthagatiḥ tadarthagateḥ iti . yasya arthasya kauśāmbyā sāmarthyam saḥ nisā ucyate . atha vā saḥ arthaḥ tadarthaḥ tadarthasya gatiḥ tadarthagatiḥ tadarthagateḥ iti . yaḥ arthaḥ kauśāmbyā samarthaḥ saḥ nisā ucyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७१।२५-३७४।१८ रो इइ,५४७-५५४ अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण । कः च अत्र विशेषः । समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् । समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् । चर्थे द्वन्द्वः । अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् । प्लक्षन्यग्रोधखदिरपलाशाः इति । न एषः दोषः । अत्र अपि द्वयोः द्वयोः समासः भविष्यति । द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् । द्वयोः द्वयोः समासः इति चेत् तत् न । किम् कारणम् । बहुषु द्वित्वाभावात् । न बहुषु द्वित्वम् अस्ति । न अवश्यम् एवम् विग्रहः कर्तव्यः : प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति । किम् तर्हि एवम् विघ्रहः करिष्यते : प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति । होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति । होतापोतानेष्टोद्गातारः इति प्राप्नोति । न च एवम् भवितव्यम् । भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति । होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति । समासान्तप्रतिषेधः च । समासान्तस्य च प्रतिषेधः वक्तव्यः । वाक्त्वक्स्रुग्दृषदम् इति । वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति । न एषः दोषः । अत्र अपि परेण परेण सह समासः भविष्यति । स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति । होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति । इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति । अस्तु तर्हि अविशेषेण । अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः । यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः । तत्र कः दोषः । तत्र स्वरसमासान्तपुंवद्भावेषु दोषः । तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति । स्वर । पूर्वशालाप्रियः अपरशालाप्रियः । स्वर । समासान्त । पञ्चगवप्रियः । समासान्त । पुंवद्भाव । खादिरेतरशम्यम् रौरवेतर्शम्यम् । न वा अवयवतत्पुरुषत्वात्। न वा एषः दोषः । किम् कारणम् । अवयवतत्पुरुषत्वात् । अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः । स्वरः कथम् । तस्य अन्तोदात्तत्वम् विप्रतिषेधात् । अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विप्रतिषेधे परम् इति उच्यते । पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् । न परविप्रतिषेधम् ब्रूमः । किम् तर्हि । अन्तरङ्गविप्रतिषेधम् । निमित्तिस्वरबलीयस्त्वात् वा । अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् । किम् पुनः निमित्तम् कः वा निमित्ती । बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती । तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति । न वक्तव्यम् । एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य । यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति । कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् । एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति । तत् च न । एवम् विग्रहः करिष्यते । एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति । अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन । इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति । अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति । तत्र कः दोषः । तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन । न एषः दोषः । न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते । किम् तर्हि । यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन । ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति। बहुलवचनात् न भविष्यति । अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति । अधिकषष्टिवर्षः

KA I,371.25-374.18 Ro II,547-554 atha yatra bahūnām samāsaprasaṅgaḥ kim tatra dvayoḥ dvayoḥ samāsaḥ bhavati āhosvit aviśeṣeṇa . kaḥ ca atra viśeṣaḥ . samāsaḥ dvayoḥ dvayoḥ cet dvandve anekagrahaṇam . samāsaḥ dvayoḥ dvayoḥ cet dvandve anekagrahaṇam kartavyam . carthe dvandvaḥ . anekam iti vaktavyam iha api yathā syāt . plakṣanyagrodhakhadirapalāśāḥ iti . na eṣaḥ doṣaḥ . atra api dvayoḥ dvayoḥ samāsaḥ bhaviṣyati . dvayoḥ dvayoḥ samāsaḥ iti cet na bahuṣu dvitvābhāvāt . dvayoḥ dvayoḥ samāsaḥ iti cet tat na . kim kāraṇam . bahuṣu dvitvābhāvāt . na bahuṣu dvitvam asti . na avaśyam evam vigrahaḥ kartavyaḥ : plakṣaḥ ca nyagrodhaḥ ca khadiraḥ ca palāśaḥ ca iti . kim tarhi evam vighrahaḥ kariṣyate : plakṣaḥ ca nyagrodhaḥ ca plakṣanyagrodhau khadiraḥ ca palāśaḥ ca khadirapalāśau plakṣanyagrodhau ca khadirapalāśau plakṣanyagrodhakhadirapalāśāḥ iti . hotṛpotṛneṣṭodgātāraḥ tarhi na sidhyanti . hotāpotāneṣṭodgātāraḥ iti prāpnoti . na ca evam bhavitavyam . bhavitavyam ca yadā evam vigrahaḥ kriyate hotā ca potā ca hotāpotārau neṣṭā ca udgātā ca neṣṭodgātārau hotāpotārau ca neṣṭodgātārau ca hotāpotāneṣṭodgātāraḥ iti . hotṛpotṛneṣṭodgātāraḥ tu na sidhyanti . samāsāntapratiṣedhaḥ ca . samāsāntasya ca pratiṣedhaḥ vaktavyaḥ . vāktvaksrugdṛṣadam iti . vāktvacasrugdṛṣadam iti prāpnoti . na eṣaḥ doṣaḥ . atra api pareṇa pareṇa saha samāsaḥ bhaviṣyati . sruk ca dṛṣadam ca srugdṛṣadam tvak ca srugdṛṣadam ca tvaksrugdṛṣadam vāk ca tvaksrugdṛṣadam ca vāktvaksrugdṛṣadam iti . hotṛpotṛneṣṭodgātāraḥ evam tarhi sidhyanti . iha ca susukṣmajaṭakeśena sunatājivāsanā samantaśitirandhreṇa dvayoḥ vṛttau na sidhyati . astu tarhi aviśeṣeṇa . aviśeṣeṇa bahuvrīhau anekapadaprasaṅgaḥ . yadi aviśeṣeṇa bahuvrīhau anekapadaprasaṅgaḥ . tatra kaḥ doṣaḥ . tatra svarasamāsāntapuṃvadbhāveṣu doṣaḥ . tatra svarasamāsāntapuṃvadbhāveṣu doṣaḥ bhavati . svara . pūrvaśālāpriyaḥ aparaśālāpriyaḥ . svara . samāsānta . pañcagavapriyaḥ . samāsānta . puṃvadbhāva . khādiretaraśamyam rauravetarśamyam . na vā avayavatatpuruṣatvāt. na vā eṣaḥ doṣaḥ . kim kāraṇam . avayavatatpuruṣatvāt . avayavaḥ atra tatpuruṣasañjñaḥ tadāśrayau samāsāntapuṃvadbhāvau bhaviṣyataḥ . svaraḥ katham . tasya antodāttatvam vipratiṣedhāt . antodāttatvam kriyatām pūrvapadaprakṛtisvaraḥ iti antodāttatvam bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . vipratiṣedhe param iti ucyate . pūrvam ca antodāttatvam param pūrvapadaprakṛtisvaratvam . na paravipratiṣedham brūmaḥ . kim tarhi . antaraṅgavipratiṣedham . nimittisvarabalīyastvāt vā . atha vā nimittasvarāt nimittisvaraḥ balīyān iti vaktavyam . kim punaḥ nimittam kaḥ vā nimittī . bahuvrīhiḥ nimittam tatpuruṣaḥ nimittī . tat tarhi vaktavyam nimittasvarāt nimittisvaraḥ balīyān iti . na vaktavyam . ekaśitipātsvaravacanam tu jñāpakam nimittisvarabalīyastvasya . yat ayam yuktārohyādiṣu ekaśitipacchabdam paṭhati tat jñāpayati ācāryaḥ nimittasvarāt nimittisvaraḥ balīyān iti . kaḥ punaḥ arhati yuktārohyādiṣu ekaśitipacchabdam paṭhitum . evam kila nāma paṭhyate ekaḥ śitiḥ ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti . tat ca na . evam vigrahaḥ kariṣyate . ekaḥ śitiḥ eṣu te ime ekaśitayaḥ ekaśitayaḥ pādāḥ yasya iti . atha api evam vigrahaḥ kriyate ekaḥ śitiḥ ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti evam api na arthaḥ pāṭhena . igante dvigau iti eṣaḥ svaraḥ atra bādhakaḥ bhaviṣyati . asya tarhi bahuvrīhyavayavasya tatpuruṣañjñā prāpnoti susukṣmajaṭakeśena sunatājivāsanā samantaśitirandhreṇa iti . tatra kaḥ doṣaḥ . tasya antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena . na eṣaḥ doṣaḥ . na idam bahuvrīhyavayavasya tatpuruṣasya lakṣaṇam ārabhyate . kim tarhi . yasya bahuvrīhyavayavasya tatpuruṣasya tat lakṣaṇam asti tasya antodāttatvam bhaviṣyati vipratiṣedhena . nanu ca asya api asti kim viśeṣaṇam viśeṣyeṇa bahulam iti. bahulavacanāt na bhaviṣyati . asya tarhi bahuvrīhyavayavasya tatpuruṣañjñā prāpnoti . adhikaṣaṣṭivarṣaḥ

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७५।२-३७६।२३ रो इइ,५५५-५६१ सुप् इति किमर्थम् । करोषि अटन् । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । इदम् तर्हि । पीड्ये पीड्यमान । इदम् च अपि उदाहरणम् करोषि अटन् । ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । न एषः दोषः । अधात्वभिहितम् इति एवम् तत् । आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् । आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् । षष्थ्यन्तम् तावत् । मद्राणाम् राजन् मगधानाम् राजन् । आमन्त्रितकारकम् । कुण्डेन अटन् । न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा । इदम् तर्हि । परशुना वृश्चन् । तन्निमित्तग्रहणम् वा । तन्निमित्तग्रहणम् वा कर्तव्यम्। आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् । तत् च अवश्यम् अन्यतरत् वक्तव्यम् । अवचने हि सुबन्तमात्रप्रसङ्गः । अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति । अस्य अपि प्रसज्येत । क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व । किम् पुनः अत्र ज्यायः । तन्निमित्तग्रहणम् एव ज्यायः । इदम् अपि सिद्धम् भवति । गोषु स्वामिन् अश्वेषु स्वामिन् । एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात् । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् । तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् । किम् पुनः कारणम् न सिध्यति । अननन्तरत्वात् । ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति । स्वरे अवधारणात् च । स्वरे अवधारणात् च न सिध्यति । स्वरे अवधारणम् क्रियते न आनन्तर्ये । परम् अपि छन्दसि । परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् । आ ते पितः मरुताम् सुम्नम् एतु । प्रति त्वा दुहितः दिवः । वृणीष्व दुहितः दिवः । अव्ययप्रतिषेधः च । अव्ययानाम् च प्रतिषेधः वक्तव्यः । उच्चैः अधीयान नीचैः अधीयान । अनव्ययीभावस्य । अनव्ययीभावस्य इति वक्तव्यम् । इह मा भूत् । उपाग्नि अधीयान प्रत्यग्नि अधीयान । अथ किमर्थम् स्वरे अवधारणम् क्रियते । स्वरे अवधारणम् सुबलोपार्थम् । स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति । परशुना वृश्चन् । न वा सुबन्तैकान्तत्वात् । न वा कर्तव्यम् । किम् कारणम् । सुबन्तैकान्तत्वात् । सुबन्तैकान्तः पराङ्गवद्भावः भवति । प्रातिपदिकैकान्तः तु सुब्लोपे । प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते । प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् । तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् । प्रातिपदिकस्थायाः सुपः लुक् उच्यते । तस्मात् स्वरग्रहणेन न अर्थः । इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति । कूपे सिञ्चन् चर्म नमन् इति । एतत् अपि न अस्ति प्रयोजनम् । इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति । चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति । ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति । न इति आह । अविशेषेण एतत् भवति । पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति ।

KA I,375.2-376.23 Ro II,555-561 sup iti kimartham . karoṣi aṭan . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . idam tarhi . pīḍye pīḍyamāna . idam ca api udāharaṇam karoṣi aṭan . nanu ca uktam asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . na eṣaḥ doṣaḥ . adhātvabhihitam iti evam tat . āmantritasya parāṅgvadbhāve ṣaṣṭhyāmantritakārakavacanam . āmantritasya parāṅgvadbhāve ṣaṣṭhyantam āmantritakārakam ca parasya aṅgavat bhavati iti vaktavyam . ṣaṣthyantam tāvat . madrāṇām rājan magadhānām rājan . āmantritakārakam . kuṇḍena aṭan . na asti atra viśeṣaḥ parāṅgavadbhāve sati asati vā . idam tarhi . paraśunā vṛścan . tannimittagrahaṇam vā . tannimittagrahaṇam vā kartavyam. āmantritanimittam parasya aṅgavat bhavati iti vaktavyam . tat ca avaśyam anyatarat vaktavyam . avacane hi subantamātraprasaṅgaḥ . anucyamāne hi etasmin subantramātrasya parāṅgavadbhāvaḥ prāpnoti . asya api prasajyeta . kṣtreṇa agne svāyuḥ saṃrabhasya mitreṇa agne mitradheye yatasva . kim punaḥ atra jyāyaḥ . tannimittagrahaṇam eva jyāyaḥ . idam api siddham bhavati . goṣu svāmin aśveṣu svāmin . etat hi na eva ṣaṣthyantam na api āmantritakārakam . subantasya parāṅgavadbhāve samānādhikaraṇasya upasaṅkhyanam ananantaratvāt . subantasya parāṅgavadbhāve samānādhikaraṇasya upasaṅkhyanam kartavyam . tīkṣṇayā sūcyā sīvyan tīkṣṇena paraśunā vṛścan . kim punaḥ kāraṇam na sidhyati . ananantaratvāt . nanu ca parasya parāṅgavadbhāve kṛte pūrvasya api bhaviṣyati . svare avadhāraṇāt ca . svare avadhāraṇāt ca na sidhyati . svare avadhāraṇam kriyate na ānantarye . param api chandasi . param api chandasi pūrvasya aṅgavat bhavati iti vaktavyam . ā te pitaḥ marutām sumnam etu . prati tvā duhitaḥ divaḥ . vṛṇīṣva duhitaḥ divaḥ . avyayapratiṣedhaḥ ca . avyayānām ca pratiṣedhaḥ vaktavyaḥ . uccaiḥ adhīyāna nīcaiḥ adhīyāna . anavyayībhāvasya . anavyayībhāvasya iti vaktavyam . iha mā bhūt . upāgni adhīyāna pratyagni adhīyāna . atha kimartham svare avadhāraṇam kriyate . svare avadhāraṇam subalopārtham . svare avadhāraṇam kriyate sublaḥ mā bhūt iti . paraśunā vṛścan . na vā subantaikāntatvāt . na vā kartavyam . kim kāraṇam . subantaikāntatvāt . subantaikāntaḥ parāṅgavadbhāvaḥ bhavati . prātipadikaikāntaḥ tu sublope . prātipadikaikāntaḥ tu bhavati sublope kṛte . pratyayalakṣaṇena subantaikāntatā syāt . tasmāt svare avadhāraṇam na kartavyam subalopārtham . prātipadikasthāyāḥ supaḥ luk ucyate . tasmāt svaragrahaṇena na arthaḥ . idam tarhi prayojanam ṣatvaṇatve mā bhūtām iti . kūpe siñcan carma naman iti . etat api na asti prayojanam . iha tāvat kūpe siñcan iti svāśrayam padāditvam bhaviṣyati . carma naman iti pūrvapadāt sañjñāyām agaḥ iti etasmāt niyamāt na bhaviṣyati . nanu ca samāse etat bhavati pūrvapadam uttarapadam iti . na iti āha . aviśeṣeṇa etat bhavati . pūrvam padam pūrvapadam uttaram padam uttarapadam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७७।२-२१ रो इइ,५६१-५६५ प्राग्वचनम् किमर्थम् । प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् । प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् । अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् । ताः मा बाधिषत इति प्राग्वचनम् क्रियते । अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते । क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते । तत्र वचनसमावेशः भविष्यति । समाससञ्ज्ञा अपि अनवकाशा । सा वचनात् भविष्यति । सावकाशा समाससञ्ज्ञा । कः अवकाशः । विस्पष्टादीनि अवकाशः । विस्पष्टम् पटुः विस्पष्टपटुः इति । न एषः अस्ति अवकाशः । एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति । येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति । विस्पष्टादीनि गुणवचनेषु इति । इदम् तर्हि काकतालीयम् अजाकृपाणीयम् । अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति । समासात् च तद्विषयात् । इदम् तर्हि पुनाराजः पुनर्गवः । अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् । इदम् तर्हि । पुनराधेयम् । अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् । इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् । अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् । यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति। सति तस्मिन् तेन एव सिद्धम् । एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः । पर्यायः प्रसज्येत । तस्मात् प्राग्वचनम् कर्तव्यम् ।

KA I,377.2-21 Ro II,561-565 prāgvacanam kimartham . prāgvacanam sañjñānivṛttyartham . prāgvacanam kriyate samāsasañjñāyāḥ anivṛttiḥ yathā syāt . akriyamāṇe hi prāgvacane anavakāśāḥ avyayībhāvādayaḥ sañjñāḥ samāsasañjñām bādheran . tāḥ mā bādhiṣata iti prāgvacanam kriyate . atha kriyamāṇe api prāgvacane yāvatā anavakāśāḥ avyayībhāvādayaḥ sañjñāḥ kasmāt eva na bādhante . kriyamāṇe hi prāgvacane satyām samāsasañjñāyām etāḥ avayavasañjñāḥ ārabhyante . tatra vacanasamāveśaḥ bhaviṣyati . samāsasañjñā api anavakāśā . sā vacanāt bhaviṣyati . sāvakāśā samāsasañjñā . kaḥ avakāśaḥ . vispaṣṭādīni avakāśaḥ . vispaṣṭam paṭuḥ vispaṣṭapaṭuḥ iti . na eṣaḥ asti avakāśaḥ . eṣā hi ācāryasya śailī lakṣyate yena eva avayavakāryam bhavati tena eva samudāyakāryam api bhavati . yena eva avayavakāryam svaraḥ tena eva samudākāryam api samāsaḥ bhaviṣyati . vispaṣṭādīni guṇavacaneṣu iti . idam tarhi kākatālīyam ajākṛpāṇīyam . atra api yena eva avayavakāryam pratyayotpattiḥ kriyate tena eva samudākāryam samāsasañjñā bhaviṣyati . samāsāt ca tadviṣayāt . idam tarhi punārājaḥ punargavaḥ . atra api avaśyam tatpuruṣasañjñā vaktavya tatpuruṣāśrayaḥ samāsāntaḥ yathā syāt . idam tarhi . punarādheyam . atra api avaśyam gatisañjñā vaktavyā gatikārakopapadāt kṛt iti eṣaḥ svaraḥ yathā syāt . idam tarhi punarutsyūtam vāsaḥ deyam . atra api avaśyam gatisañjñā vaktavyā gatiḥ gatau iti nighātaḥ yathā syāt . yadi tat na asti punaścanasau chandasi iti. sati tasmin tena eva siddham . evam api ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ . paryāyaḥ prasajyeta . tasmāt prāgvacanam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७७।२३-३७८।१५ रो इइ,५६५-५६९ सहवचनम् किमर्थम् । सहवचनम् पृथक् असमासार्थम् । सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति । किम् च स्यात् । यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत । इह च राजाश्वः इति द्वौ स्वरौ स्याताम् । कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा । तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् । अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन । एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत । सति च योगाङ्गे योगविभागः करिष्यते । सह सुप् समस्यते । केन सह । समर्थेन। अनुव्याचलत् अनुप्राविशत् । ततः सुपा । सुपा च सह सुप् समस्यते । अधिकारः च लक्षणम् च । यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति । पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च । इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् । वाससीइव कन्ये इव ।

KA I,377.23-378.15 Ro II,565-569 sahavacanam kimartham . sahavacanam pṛthak asamāsārtham . sahagrahaṇam kriyate sahabhūtayoḥ samāsañjñā yathā syāt ekaikasya mā bhūt iti . kim ca syāt . yadi ekaikasya samāsañjñā syāt iha ṛkpādaḥ iti samāsāntaḥ prasajyeta . iha ca rājāśvaḥ iti dvau svarau syātām . katham ca kṛtvā ekaikasya sañjñā prāpnoti . pratyekam vākyaparisamāptiḥ dṛṣṭā . tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam . atha tatra antareṇa pratyekam iti vacanam pratyekam guṇavṛddhisañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena . evam tarhi siddhe sati yat sahagrahaṇam karoti tasya etat prayojanam yogāṅgam yathā vijñāyeta . sati ca yogāṅge yogavibhāgaḥ kariṣyate . saha sup samasyate . kena saha . samarthena. anuvyācalat anuprāviśat . tataḥ supā . supā ca saha sup samasyate . adhikāraḥ ca lakṣaṇam ca . yasya samāsasya anyat lakṣaṇam na asti idam tasya lakṣaṇam bhaviṣyati . punarutsyūtam vāsaḥ deyam punarniṣkṛtaḥ rathaḥ iti . ivena vibhaktyalopaḥ pūrvapadaprakṛtisvaratvam ca . ivena saha samāsaḥ vibhaktyalopaḥ pūrvapadaprakṛtisvaratvam ca vaktavyam . vāsasīiva kanye iva .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७८।१७-१९ रो इइ,५६९ किमर्थम् महती सञ्ज्ञा क्रियते । अन्वर्थसञ्ज्ञा यथा विज्ञयेत । अनव्ययम् अव्ययम् भवति इति अव्ययीभावः । अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति ।

KA I,378.17-19 Ro II,569 kimartham mahatī sañjñā kriyate . anvarthasañjñā yathā vijñayeta . anavyayam avyayam bhavati iti avyayībhāvaḥ . avyayībhāvaḥ ca samāsaḥ avyayasañjñaḥ bhavati iti etat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७८।२३-३७९।५ रो इइ,५६९-५७० इह कस्मात् न भवति । सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति । समृद्धौ साकल्ये इति च प्राप्नोति । न एषः दोषः । इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः । पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः । न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते । अथ वा न इमे समासार्थाः निर्दिश्यन्ते । किम् तर्हि । अव्ययार्थाः निर्दिश्यन्ते इमे । एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति ।

KA I,378.23-379.5 Ro II,569-570 iha kasmāt na bhavati . sumadrāḥ sumagadhāḥ saputraḥ sacchātraḥ iti . samṛddhau sākalye iti ca prāpnoti . na eṣaḥ doṣaḥ . iha kaḥ cit samāsaḥ pūrvapadārthapradhānaḥ , kaḥ cit uttarapadārthapradhānaḥ , kaḥ cit anyapadārthapradhānaḥ , kaḥ cit ubhayapadārthapradhānaḥ . pūrvapadārthapradhānaḥ avyayībhāvaḥ , uttarapadārthapradhānaḥ tatpuruṣaḥ , anyapadārthapradhānaḥ bahuvrīhiḥ ubhayapadārthapradhānaḥ dvandvaḥ . na ca atra pūrvapadārthaprādhānyam gamyate . atha vā na ime samāsārthāḥ nirdiśyante . kim tarhi . avyayārthāḥ nirdiśyante ime . eteṣu artheṣu yat avyayam vartate tat subantena samasyate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७९।७-१२ रो इइ,५७०-५७२ असादृश्ये इति किमर्थम् । यथा देवदत्तः तथा यज्ञदत्तः इति । असादृश्ये इति उच्यते । तत्र इदम् न सिध्यति : यथाशक्ति यथाबलम् इति । किम् कारणम् । यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते । न एषः दोषः । अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची । अस्ति प्रकारवचने थाल् । तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् । अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति । पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति । प्रतिषेधवचनसामर्थ्यात् न भविष्यति ।

KA I,379.7-12 Ro II,570-572 asādṛśye iti kimartham . yathā devadattaḥ tathā yajñadattaḥ iti . asādṛśye iti ucyate . tatra idam na sidhyati : yathāśakti yathābalam iti . kim kāraṇam . yathā iti ayam prakāravacane thāl saḥ ca sādṛśye vartate . na eṣaḥ doṣaḥ . ayam yathāśabdaḥ asti eva avyutpannam prātipadikam vīpsāvācī . asti prakāravacane thāl . tat yat avyutpannam prātipadikam vīpsāvāci tasya idam grahaṇam . atha yaḥ prakāravacane thāl tasya grahaṇam kasmāt na bhavati . pūrveṇa prāpnoti sādṛśyasampatti iti . pratiṣedhavacanasāmarthyāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७९।१४-१५ रो इइ,५७२ सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् । अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् । माषप्रति सूपप्रति ओदनप्रति ।

KA I,379.14-15 Ro II,572 sup iti vartamāne punaḥ subgrahaṇam kimartham . avyayam iti evam tat abhūt submātre yathā syāt . māṣaprati sūpaprati odanaprati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७९।१७-३८०।५ रो इइ,५७३-५७४ अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् । पूर्वोक्तस्य यथा न तत् । अयथाजातीयके द्योत्ये । अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि । एकत्वे अक्षशलाकयोः । अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् । इह मा भूत् । अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् । कितवव्यवहारे च । कितवव्यवहारे इति वक्तव्यम् । इह मा भूत् । अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् ।

KA I,379.17-380.5 Ro II,573-574 akṣādayaḥ tṛtīyāntāḥ pūrvoktasya yathā na tat . akṣādayaḥ tṛtīyāntāḥ pariṇā saha samasyante iti vaktavyam . pūrvoktasya yathā na tat . ayathājātīyake dyotye . akṣeṇa na tathā vṛttam yathā pūrvam iti akṣapari śalākāpari . ekatve akṣaśalākayoḥ . akṣaśalākayoḥ ca ekavacanāntayoḥ iti vaktavyam . iha mā bhūt . akṣābhyām vṛttam akṣaiḥ vṛttam . kitavavyavahāre ca . kitavavyavahāre iti vaktavyam . iha mā bhūt . akṣeṇa idam na vṛttam śakaṭena yathā pūrvam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८०।७-१२ रो इइ,५७४-५७५ योगविभागः कर्तव्यः । विभाषा इति अयम् अधिकारः। ततः अपपरिबहिरञ्चवः पञ्चम्या इति । पञ्चमीग्रहणम् शक्यम् अकर्तुम् । कथम् । सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते । तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति । इदम् तर्हि प्रयोजनम् । बहिःशब्देन योगे पञ्चमी न विधीयते । तत्र अपि यथा स्यात् इति । बहिर्ग्रामात् । अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति । पञ्चमीग्रहणसामर्थ्यात् ।

KA I,380.7-12 Ro II,574-575 yogavibhāgaḥ kartavyaḥ . vibhāṣā iti ayam adhikāraḥ. tataḥ apaparibahirañcavaḥ pañcamyā iti . pañcamīgrahaṇam śakyam akartum . katham . subantena iti vartate etaiḥ ca karmapravacanīyaiḥ yoge pañcamī vidhīyate . tatra antareṇa api pañcamīgrahaṇam pañcamyantena eva samāsaḥ bhaviṣyati . idam tarhi prayojanam . bahiḥśabdena yoge pañcamī na vidhīyate . tatra api yathā syāt iti . bahirgrāmāt . atha kriyamāṇe api pañcamīgrahaṇe yāvatā bahiḥśabdena yoge pañcamī na vidhīyate katham eva etat sidhyati . pañcamīgrahaṇasāmarthyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८०।१४-१६ रो इइ,५७५ मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् । कथम् । पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते । एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र ।

KA I,380.14-16 Ro II,575 maryādābhividhigrahaṇam śakyam akartum . katham . pañcamyantena iti vartate āṅā ca karmapravacanīyayukte pañcamī vidhīyate . etayoḥ ca eva arthayoḥ āṅ karmapravacanīyasañjñaḥ bhavati na anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८०।१८-२३ रो इइ,५७५-५७६ किम् उदाहरणम् । अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् । यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता । तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति । एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी । अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यस्य आयामः इति । साधीयः च गङ्गायाः न वाराणस्याः ।

KA I,380.18-23 Ro II,575-576 kim udāharaṇam . anugaṅgam hāstinapuram anugaṅgam vārāṇasī anuśoṇam pāṭaliputram . yasya ca āyāmaḥ iti ucyate gaṅgā ca api āyatā vārāṇasī api āyatā . tatra kutaḥ etat gaṅgayā saha samāsaḥ bhaviṣyati na punaḥ vārāṇasyā iti . evarm tarhi lakṣaṇena iti vartate gaṅgā ca eva hi lakṣaṇam na vārāṇasī . atha vā yasya ca āyāmaḥ iti ucyate gaṅgā ca api āyatā vārāṇasī api āyatā . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yasya āyāmaḥ iti . sādhīyaḥ ca gaṅgāyāḥ na vārāṇasyāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८१।२-७ रो इइ,५७६-५७७ किमर्थः चकारः । एवकारार्थः । तिष्ठद्गुप्रभृतीनि एव । क्व मा भूत् । परमम् तिष्ठद्गु । तिष्ठद्गु कालविशेषे । तिष्ठद्गु कालविशेषे इति वक्तव्यम् । तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु । वहद्गु । खलेयवादीनि प्रथमान्तानि अन्यपदार्थे । खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते । खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् ।

KA I,381.2-7 Ro II,576-577 kimarthaḥ cakāraḥ . evakārārthaḥ . tiṣṭhadguprabhṛtīni eva . kva mā bhūt . paramam tiṣṭhadgu . tiṣṭhadgu kālaviśeṣe . tiṣṭhadgu kālaviśeṣe iti vaktavyam . tiṣṭhanti gāvaḥ asmin kāle tiṣṭhadgu . vahadgu . khaleyavādīni prathamāntāni anyapadārthe . khaleyavādīni prathamāntāni anyapadārthe samasyante . khaleyavam khalebusam lūnayavam lūyamānayavam pūtayavam pūyamānayavam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८१।९-३८२।३ रो इइ,५७७-५७९ वावचनम् किमर्थम् । विभाषा समासः यथ स्यात् । समासेन मुक्ते वाक्यम् अपि यथा स्यात् । पारम् गङ्गायाः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् अपि भविष्यति । इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् । गङ्गापारम् इति । एतत् अपि न अस्ति प्रयोजनम् । अयम् अपि विभाषा षष्ठीसमासः अपि । तौ उभौ वचनात् भविष्यतः । अतः उत्तरम् पठति । पारे मध्ये षष्ठ्या वावचनम् । पारे मध्ये षष्ठ्या वा इति वक्तव्यम् । अवचने हि षष्ठीसमासाभावः यथा एकदेशिप्रधाने । अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने । तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति । किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति । समासतद्धितानाम् वृत्तिः विभाषा । वृत्तिविषये नित्यः अपवादः । इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः । एकारान्तनिपातनम् च । एकारान्तनिपातनम् च कर्तव्यम् । पारेगङ्गम् इति । न कर्तव्यम् । सप्तम्याः अलुका सिद्धम् । भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति ।

KA I,381.9-382.3 Ro II,577-579 vāvacanam kimartham . vibhāṣā samāsaḥ yatha syāt . samāsena mukte vākyam api yathā syāt . pāram gaṅgāyāḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam api bhaviṣyati . idam tarhi prayojanam avyayībhāvena mukte ṣaṣṭhīsamāsaḥ yathā syāt . gaṅgāpāram iti . etat api na asti prayojanam . ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api . tau ubhau vacanāt bhaviṣyataḥ . ataḥ uttaram paṭhati . pāre madhye ṣaṣṭhyā vāvacanam . pāre madhye ṣaṣṭhyā vā iti vaktavyam . avacane hi ṣaṣṭhīsamāsābhāvaḥ yathā ekadeśipradhāne . akriyamāṇe hi vāvacane ṣaṣṭhīsamāsasya abhāvaḥ syāt yathā ekadeśipradhāne . tat yatha ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati . kim punaḥ kāraṇam ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati . samāsataddhitānām vṛttiḥ vibhāṣā . vṛttiviṣaye nityaḥ apavādaḥ . iha punaḥ vāvacane kriyamāṇe ekayā vṛttiḥ vibhāṣā aparayā vṛttiviṣaye vibhāṣāpavādaḥ . ekārāntanipātanam ca . ekārāntanipātanam ca kartavyam . pāregaṅgam iti . na kartavyam . saptamyāḥ alukā siddham . bhavet siddham yadā saptamī yadā tu anyāḥ vibhaktayaḥ tadā na sidhyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८२।५-२१ रो इइ,५७९-५८२ नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः । नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः । द्वीरावतीकः देशः त्रीरावतीकः देशः । नदीभिः सङ्ख्या इति प्राप्नोति । न वक्तव्यः । इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः । पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः। न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते । ननु च यत् येन उच्यते सः तस्य अर्थः भवति । अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः । एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति । अपि च अन्यपदार्थता न प्रकल्पेत । चित्रगुः शबलगुः इति । किम् कारणम् । अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः । यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते । तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति । इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते । तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । अव्ययीभावः क्रियताम् बहुव्रीहिः इति । बहुव्रीहिः भविष्यति विप्रतिषेधेन । भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः । परङ्कार्यत्वे च न दोषः । नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः । सः च अवश्यम् वक्तव्यः । सर्वम् एकनदीतरे ।

KA I,382.5-21 Ro II,579-582 nadībhiḥ saṅkhyāsamāse anyapadārthe pratiṣedhaḥ . nadībhiḥ saṅkhyāsamāse anyapadārthe pratiṣedhaḥ vaktavyaḥ . dvīrāvatīkaḥ deśaḥ trīrāvatīkaḥ deśaḥ . nadībhiḥ saṅkhyā iti prāpnoti . na vaktavyaḥ . iha kaḥ cit samāsaḥ pūrvapadārthapradhānaḥ , kaḥ cit uttarapadārthapradhānaḥ , kaḥ cit anyapadārthapradhānaḥ , kaḥ cit ubhayapadārthapradhānaḥ . pūrvapadārthapradhānaḥ avyayībhāvaḥ , uttarapadārthapradhānaḥ tatpuruṣaḥ , anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ dvandvaḥ. na ca atra pūrvapadārthaprādhānyam gamyate . nanu ca yat yena ucyate saḥ tasya arthaḥ bhavati . atra ca vayam etābhyām padābhyām etam artham ucyamānam paśyāmaḥ . etat eva ca jānīmaḥ yat yena ucyate saḥ tasya arthaḥ iti . api ca anyapadārthatā na prakalpeta . citraguḥ śabalaguḥ iti . kim kāraṇam . atra api hi vayam etābhyām śabdābhyām etam artham ucyamānam paśyāmaḥ . yadi api atra etābhyām śabdābhyām eṣaḥ arthaḥ ucyate anyapadārthaḥ api tu gamyate . tatra anyapadārthāśrayaḥ bahuvrīhiḥ bhaviṣyati . iha api tarhi anyapadārthaḥ gamyate svapadārthaḥ api tu gamyate . tatra svapadārthāśrayaḥ avyayībhāvaḥ prāpnoti . evam tarhi idam iha sampradhāryam . avyayībhāvaḥ kriyatām bahuvrīhiḥ iti . bahuvrīhiḥ bhaviṣyati vipratiṣedhena . bhavet ekasañjñādhikāre siddham paraṅkāryatve tu na sidhyati . ārambhasāmarthyāt avyayībhāvaḥ prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ . paraṅkāryatve ca na doṣaḥ . nadībhiḥ saṅkhyāyāḥ samāhāre avyayībhāvaḥ vaktavyaḥ . saḥ ca avaśyam vaktavyaḥ . sarvam ekanadītare .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८२।२३-२४ रो इइ,५८२ द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि । द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् । पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् ।

KA I,382.23-24 Ro II,582 dvigoḥ tatpuruṣatve kāni prayojanāni . dvigoḥ tatpuruṣatve samāsāntāḥ prayojanam . pañcagavam daśagavam pañcarājam daśarājam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८३।२-३८४,८ रो इइ,५८२-५८७ श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् । श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी । श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् । श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् । किम् कारणम् । बहुव्रीहिकृतत्वात् । इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति । तत्र बहुव्रीहिणा सिद्धम् । अहीने द्वीतीयास्वरवचनानर्थक्यम् च । अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् । किम् कारणम् । बहुव्रीहिकृतत्वात् एव । जातिस्वरप्रसङ्गः तु । जातिस्वरः तु प्राप्नोति । ग्रामततः अरण्यगतः । जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति । तत्र जातादिषु वावचनात् सिद्धम् । यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि । इमे जातादयः भविष्यन्ति । ननु च भेदः भवति । बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव । न अस्ति भेदः । यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः । तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ । बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् । एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । राज्ञः सखा राजसखः । राजा सखा अस्य इति बहुव्रीहिः न भवति । न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति । बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन । अथ न सामान्यविहितः । यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् । अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च । किम् शब्दकृतः अथ अर्थकृतः । शब्दकृतः व अर्थकृतः च । शब्दकृतः तावत् । बहुव्रीहौ सति कपा भवितव्यम् । तत्पुरुषे सति न भवितव्यम् । अर्थकृतः । तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे । आरूढः वृक्षम् देवदत्तः इति । बहुव्रीहौ व्यपवृक्ते कर्मणि भवति । आरूढः वृक्षः देवदत्तेन इति । अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् । राज्ञः सखा राजसखा । सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति । उभयम् खलु अपि इष्यते : स्वस्ति सोमसखा पुनः एहि । गवाङ्सखः इति ।

KA I,383.2-384,8 Ro II,582-587 śritādiṣu gamigāmyādīnām upasaṅkhyānam . śritādiṣu gamigāmyādīnām upasaṅkhyānam kartavyam . grāmam gamī gramagamī gramam gāmī grāmagāmī . śritādibhiḥ ahīne dvitīyāsamāsavacanānarthakyam bahuvrīhikṛtatvāt . śritādibhiḥ ahīnavācinyāḥ dvitīyāyāḥ samāsavacanam anarthakam . kim kāraṇam . bahuvrīhikṛtatvāt . iha hi yaḥ kaṣṭam śritaḥ kaṣṭam anena śritam bhavati . tatra bahuvrīhiṇā siddham . ahīne dvītīyāsvaravacanānarthakyam ca . ahīne dvitīyā pūrvapadam prakṛtisvaram bhavati iti etat svaravacanam anarthakam . kim kāraṇam . bahuvrīhikṛtatvāt eva . jātisvaraprasaṅgaḥ tu . jātisvaraḥ tu prāpnoti . grāmatataḥ araṇyagataḥ . jātikālasukhādibhyaḥ anācchādanāt ktaḥ akṛtamitapratipannāḥ iti . tatra jātādiṣu vāvacanāt siddham . yat etat vā jāte iti etat vā jātādiṣu iti vakṣyāmi . ime jātādayaḥ bhaviṣyanti . nanu ca bhedaḥ bhavati . bahuvrīhau sati samāsāntodāttatvena api bhavitavyam pūrvapadaprakṛtisvaratvena api tatpuruṣatve sati pūrvapadaprakṛtisvaratvena eva . na asti bhedaḥ . yaḥ api tatpuruṣam ārabhate na tasya daṇḍavāritaḥ bahuvrīhiḥ . tatra tatpuruṣe sati dvau samāsau dvau svarau . bahuvrīhau sati ekaḥ samāsaḥ dvisvaratvam . evam tarhi siddhe sati yat tatpuruṣam śāsti tat jñāpayati ācāryaḥ samāne arthe kevalam vigrahabhedāt yatra tatpuruṣaḥ prāpnoti bahuvrīhiḥ ca tatra tatpuruṣaḥ bhavati iti . kim etasya jñāpane prayojanam . rājñaḥ sakhā rājasakhaḥ . rājā sakhā asya iti bahuvrīhiḥ na bhavati . na etat jñāpakasādhyam apavādaiḥ utsargāḥ bādhyante iti . bādhakena anena bhavitavyam sāmānyavihitasya viśeṣavihitena . atha na sāmānyavihitaḥ . yat ucyate bahuvrīhikṛtatvāt iti etat ayuktam . asti khalu api viśeṣaḥ bahuvrīheḥ tatpuruṣasya ca . kim śabdakṛtaḥ atha arthakṛtaḥ . śabdakṛtaḥ va arthakṛtaḥ ca . śabdakṛtaḥ tāvat . bahuvrīhau sati kapā bhavitavyam . tatpuruṣe sati na bhavitavyam . arthakṛtaḥ . tatpuruṣe sati ruhādīnām ktaḥ kartari bhavati dhātvarthasya anapavarge . ārūḍhaḥ vṛkṣam devadattaḥ iti . bahuvrīhau vyapavṛkte karmaṇi bhavati . ārūḍhaḥ vṛkṣaḥ devadattena iti . anyathājātīyakaḥ khalu api pratyakṣeṇa arthasampratyayaḥ anyathājātīyakaḥ sambandhāt . rājñaḥ sakhā rājasakhā . sambandhāt etat gantavyam nūnam rāja api asya sakhā iti . ubhayam khalu api iṣyate : svasti somasakhā punaḥ ehi . gavāṅsakhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८४।१०-१२ रो इइ,५८७ किम् उदाहरणम् । खट्वारूढः जाल्मः । क्षेपे इति उच्यते । कः क्षेपः नाम । अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या । यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः । न अतिव्रतवान् इति ।

KA I,384.10-12 Ro II,587 kim udāharaṇam . khaṭvārūḍhaḥ jālmaḥ . kṣepe iti ucyate . kaḥ kṣepaḥ nāma . adhītya snātvā gurubhiḥ anujñātena khaṭvā āroḍhavyā . yaḥ idānīm ataḥ anyatha karoti saḥ khaṭvārūḍhaḥ ayam jālmaḥ . na ativratavān iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८४।१४-२० रो इइ,५८८ अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तेन समासवचनानर्थक्यम् । अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् । अत्यन्तसंयोगे इति एव सिद्धम् । अनत्यन्तसंयोगार्थम् तु । अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् । षट् मुहूर्ताः चराचराः । ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् । तत् उच्यते अहर्गताः रात्रिगताः इति । न एतत् अस्ति । गतग्रहणात् अपि एतत् सिद्धम् । इदम् तर्हि । अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः ।

KA I,384.14-20 Ro II,588 atyantasaṃyoge samāsasya aviśeṣavacanāt ktena samāsavacanānarthakyam . atyantasaṃyoge samāsasya aviśeṣavacanāt ktāntena ca aktāntena ca kālāḥ ktāntena iti samāsavacanam anarthakam . atyantasaṃyoge iti eva siddham . anatyantasaṃyogārtham tu . anatyantasaṃyogārtham tarhi idam vaktavyam . ṣaṭ muhūrtāḥ carācarāḥ . te kadā cit ahaḥ gacchanti kadā cit rātrim . tat ucyate ahargatāḥ rātrigatāḥ iti . na etat asti . gatagrahaṇāt api etat siddham . idam tarhi . aharatisṛtāḥ rātryatisṛtāḥ māsapramitaḥ candramāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८४।२२-३८५।२२ रो इइ,५८९-५९२ तत्कृतार्थेन इति किमर्थम् । दध्ना पटुः घृतेन पटुः । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । न हि दध्नः पटुना सामर्थ्यम् । केन तर्हि । भुजिना । दध्ना भुङ्क्ते पटुः इति । इह अपि तर्हि न प्राप्नोति । शङ्कुलाखण्डः किरिकाणः इति । अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् । केन तर्हि । करोतिना । शङ्कुलया कृतः खण्डः इति । वचनात् भविष्यति । इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति । तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् । गुणवचनेन इति किमर्थम् । गोभिः वपावान् धान्येन धनवान् । किम् पुनः इह उदाहरणम् । शङ्कुलाखण्डः देवदत्तः इति । कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् । इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति । कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते । आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति । तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः । यदि एवम् न अर्थः कृतार्थग्रहणेन । भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् । असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति । तस्मत् न अर्थः तत्कृतार्थग्रहणेन । तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् । तृतीयासमासे अर्थग्रहणम् अनर्थकम् । किम् कारणम् । अर्थगतिः हि अवचनात् । अन्तरेण अपि वचनम् अर्थगतिः भविष्यति । निर्देश्यम् इति चेत् तृतीयार्थनिर्देशः अपि । अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् । तृतीया तदर्थकृतार्थेन इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न अयम् अर्थनिर्देशः । किम् तर्हि । योगाङ्गम् इदम् निर्दिश्यते । सति च योगाङ्गे योगविभागः करिष्यते । तृतीया तत्कृतेन गुणवचनेन समस्यते । ततः अर्थेन । अर्थशब्देन च तृतीया समस्यते । धान्याऋथः वसनार्थः । पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति ।

KA I,384.22-385.22 Ro II,589-592 tatkṛtārthena iti kimartham . dadhnā paṭuḥ ghṛtena paṭuḥ . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . na hi dadhnaḥ paṭunā sāmarthyam . kena tarhi . bhujinā . dadhnā bhuṅkte paṭuḥ iti . iha api tarhi na prāpnoti . śaṅkulākhaṇḍaḥ kirikāṇaḥ iti . atra api na śaṅkulāyāḥ khaṇḍena sāmarthyam . kena tarhi . karotinā . śaṅkulayā kṛtaḥ khaṇḍaḥ iti . vacanāt bhaviṣyati . iha api vacanāt bhaviṣyati dadhnā paṭuḥ ghṛtena paṭuḥ iti . tasmāt tatkṛtārthagrahaṇam kartavyam . guṇavacanena iti kimartham . gobhiḥ vapāvān dhānyena dhanavān . kim punaḥ iha udāharaṇam . śaṅkulākhaṇḍaḥ devadattaḥ iti . katham punaḥ guṇavacanena samāsaḥ ucyamānaḥ dravyavacanena syāt . iha tṛtīyā tatkṛtārthena guṇena iti iyatā siddham . saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti tasya etat prayojanam evam yathā vijñāyeta guṇam uktavatā guṇavacanena iti . katham punaḥ ayam guṇavacanaḥ san dravyavacanaḥ sampadyate . ārabhyate tatra matublopaḥ guṇavacanebhyaḥ matupaḥ luk iti . tat yathā śuklaguṇaḥ śuklaḥ kṛṣṇaguṇaḥ kṛṣṇaḥ evam khaṇḍaguṇaḥ khaṇḍaḥ . yadi evam na arthaḥ kṛtārthagrahaṇena . bhavati hi śaṅkulāyāḥ khaṇḍena sāmarthyam . asāmarthyāt ca atra na bhaviṣyati dadhnā paṭuḥ ghṛtena paṭuḥ iti . tasmat na arthaḥ tatkṛtārthagrahaṇena . tṛtīyāsamāse arthagrahaṇam anarthakam arthagatiḥ hi avacanāt . tṛtīyāsamāse arthagrahaṇam anarthakam . kim kāraṇam . arthagatiḥ hi avacanāt . antareṇa api vacanam arthagatiḥ bhaviṣyati . nirdeśyam iti cet tṛtīyārthanirdeśaḥ api . atha evam api nirdeśaḥ kartavyaḥ iti cet tṛtīyārthanirdeśaḥ api kartavyaḥ syāt . tṛtīyā tadarthakṛtārthena iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . na ayam arthanirdeśaḥ . kim tarhi . yogāṅgam idam nirdiśyate . sati ca yogāṅge yogavibhāgaḥ kariṣyate . tṛtīyā tatkṛtena guṇavacanena samasyate . tataḥ arthena . arthaśabdena ca tṛtīyā samasyate . dhānyāṛthaḥ vasanārthaḥ . pūrvasadṛśasamonārtha iti arthagrahaṇam na kartavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८५।२४-३८६।३ रो इइ,५९२-५९३ पूर्वादिषु अवरस्य उपसङ्ख्यानम् । पूर्वादिषु अवरस्य उपसङ्ख्यानम् । मासावरः अयम् संवत्सरावरः अयम् । सदृशग्रहणे उक्तम् । किम् उक्तम् । सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् । षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति ।

KA I,385.24-386.3 Ro II,592-593 pūrvādiṣu avarasya upasaṅkhyānam . pūrvādiṣu avarasya upasaṅkhyānam . māsāvaraḥ ayam saṃvatsarāvaraḥ ayam . sadṛśagrahaṇe uktam . kim uktam . sadrśagrahaṇam anarthakam tṛtīyāsamāsavacanāt . ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanānarthakyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८६।५-८ रो इइ,५९३ कर्तृकरणे कृता क्तेन । कर्तृकरणे कृता क्तेन इति वक्तव्यम्। अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः । कृता क्तेन इति किमर्थम् । इह मा भूत् । दात्रेण लूनवान् परशुना छिन्नवान् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुलवचनात् सिद्धम् ।

KA I,386.5-8 Ro II,593 kartṛkaraṇe kṛtā ktena . kartṛkaraṇe kṛtā ktena iti vaktavyam. ahihataḥ nakhanirbhinnaḥ dātralūnaḥ paraśucchinnaḥ . kṛtā ktena iti kimartham . iha mā bhūt . dātreṇa lūnavān paraśunā chinnavān . tat tarhi vaktavyam . na vaktavyam . bahulavacanāt siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८६।१०-१५ रो इइ,५९४ कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते ।कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् । बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् । साधनम् कृता इति वा पादहारकाद्यर्थम् । अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् । किम् प्रयोजनम् । पादहारकाद्यर्थम् । पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः ।

KA I,386.10-15 Ro II,594 kṛtryaiḥ adhikārthavacane anyatra api dṛśyate .kṛtryaiḥ adhikārthavacane anyatra api dṛśyate iti vaktavyam . busopendhyam tṛṇopendhyam ghanaghātyam . sādhanam kṛtā iti vā pādahārakādyartham . atha vā sādhanam kṛtā saha samasyate iti vaktavyam . kim prayojanam . pādahārakādyartham . pādābhyām hriyate pādahārakaḥ gale copyate galecopakaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८६।१८-३८८।४ रो इइ,५९५-५९७ अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः । अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः । किम् कारणम् । कारकाणाम् क्रियया सामर्थ्यात् । कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन । तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन । एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् । तत्र वचनात् समासः भविष्यति । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः । तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन । सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् । कथम् । समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति । दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः । षष्ठीसमासः च युक्तपूर्णान्तः । षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः । अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः । दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः । तत् तर्हि बहु वक्तव्यम् । न वा असमासे अदर्शनात् । न वा वक्तव्यम् । किम् कारणम् । असमासे अदर्शनात् । यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति । न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते । कथम् तर्हि सामर्थ्यम् गम्यते । युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् । दध्ना युक्तार्थता सम्प्रतीयते । कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति । सम्प्रत्ययात् च तदर्थाध्यवसानम् । सम्प्रत्ययात् च तदर्थः अध्यवसीयते । अवश्यम् च एतत् एवम् विज्ञेयम् । सम्प्रतीयमानार्थलोपे हि अनवस्था ।यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् । दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् । तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य । अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च । तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

KA I,386.18-388.4 Ro II,595-597 annena vyañjanam bhakṣyeṇa miśrīkaraṇam iti asamarthasamāsaḥ . annena vyañjanam bhakṣyeṇa miśrīkaraṇam iti asamarthasamāsaḥ ayam draṣṭavyaḥ . kim kāraṇam . kārakāṇām kriyayā sāmarthyāt . kārakāṇām kriyayā sāmarthyam bhavati na teṣām anyonyena . tat yathā niśrayaṇyā dvābhyām kāṣṭhābhyām sāmarthyam na teṣām anyonyena . evam tarhi āha ayam annena vyañjanam bhakṣyeṇa miśrīkaraṇam iti na ca asti sāmarthyam . tatra vacanāt samāsaḥ bhaviṣyati . vacanaprāmāṇyāt iti cet nānākārakāṇām pratiṣedhaḥ . vacanaprāmāṇyāt iti cet nānākārakāṇām pratiṣedhaḥ vaktavyaḥ . tiṣṭhatu dadhnā odanaḥ bhujyate devadattena . siddham tu samānādhikaraṇādhikāre ktaḥ tṛtīyāpūrvapadaḥ uttarapadalopaḥ ca ṣiddham etat . katham . samānādhikaraṇādhikāre vaktavyam ktaḥ tṛtīyāpūrvapadaḥ samasyatesupā uttarapadasya ca lopaḥ bhavati iti . dadhnā upasiktaḥ dadhyupasiktaḥ dadhyupasiktaḥ odanaḥ dadhyodanaḥ guḍena saṃsṛṣṭāḥ guḍasaṃsṛṣṭāḥ , guḍasaṃsṛṣṭāḥ dhānāḥ guḍadhānāḥ . ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ . ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ samasyate uttarapadasya ca lopaḥ vaktavyaḥ . aśvānām yuktaḥ aśvayuktaḥ aśvayuktaḥ rathaḥ aśvarathaḥ . dadhnaḥ pūrṇaḥ dadipūrṇaḥ dadhipūrṇaḥ ghaṭaḥ dadhighaṭaḥ . tat tarhi bahu vaktavyam . na vā asamāse adarśanāt . na vā vaktavyam . kim kāraṇam . asamāse adarśanāt . yat hi asamāse dṛśyate samāse ca na dṛśyate tat lopārambham prayojayati . na ca asamāse upasiktaśabdaḥ saṃsṛṣṭaśabdaḥ pūrṇaśabdaḥ vā dṛśyate . katham tarhi sāmarthyam gamyate . yuktārthasampratyayāt ca sāmarthyam . dadhnā yuktārthatā sampratīyate . katham punaḥ jñāyate dadhnā yuktārthatā sampratīyate iti . sampratyayāt ca tadarthādhyavasānam . sampratyayāt ca tadarthaḥ adhyavasīyate . avaśyam ca etat evam vijñeyam . sampratīyamānārthalope hi anavasthā .yaḥ hi manyate sampratīyamānārthānām śabdānām lopaḥ bhavati iti anavasthā tasya lopasya syāt . dadhi iti ukte bahavaḥ arthāḥ gamyante mandakam uttarakam nilīnakam iti tadvācinām śabdānām lopaḥ vaktavyaḥ syāt . tathā guḍaḥ iti ukte madhuraśabdasya śṛṅgaveram iti ukte ca kaṭuśabdasya . antareṇa khalu api śabdaprayogam bahavaḥ arthāḥ gamyante akṣinikocaiḥ pāṇivihāraiḥ ca . tadvācinām śabdānām lopaḥ vaktavyaḥ syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३८८।६-३९०।१९ रो इइ,५९८-६०३ किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति । एवम् भवितुम् अर्हति । चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः अविशेषात् । चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति । अनेन अपि प्राप्नोति । रन्धनाय स्थाली अवहननाय उलूखलम् इति । किम् कारणम् । अविशेषात् । न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति । अनुपादीयमने विशेषे सर्वप्रसङ्गः । बलिरक्षिताभ्याम् च अनर्थकम् वचनम् । बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् । यः हि महाराजाय बलिः महाराजार्थः सः भवति । तत्र तदर्थः इति एव सिद्धम् । यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत । विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् । विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अश्वघासः श्वश्रूसुरम् हस्तिविधा इति । अर्थेन नित्यसमासवचनम् । अर्थ्शब्देन नित्यसमासः वक्तव्यः । ब्राह्मणार्थम् क्षत्रियार्थम् । किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः । न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति । सर्वलिङ्गता च । सर्वलिङ्गता च वक्तव्या । ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति । किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या । न इति आह । सर्वथा सर्वलिङ्गता वक्तव्या । किम् कारणम् । अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः । तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् । तत् तर्हि बहु वक्तव्यम् । विकृतिः प्रकृत्या इति वक्तव्यम् । अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अर्थेन नित्यसमासः वक्तव्यः । सर्वलिङ्गता च वक्तव्या । न वक्तव्यम् । यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् । न वक्तव्यम् । आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति । कथम् कृत्वा ज्ञापकम् । यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः । यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति । यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति । न कर्तव्यम् । अश्वघासादयः षष्ठीसमासाः भविष्यन्ति । यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति । तत् यथा गुरोः इदम् गुर्वर्थम् इति । ननु च स्वरभेदः भवति । चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः । चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् । कथम् । आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति । कथम् कृत्वा ज्ञापकम् । यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् । यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति ।यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति । न वक्तव्यः । सर्थप्प्रत्ययः करिष्यते । किम् कृतम् भवति । न च एव हि कदा चित् विग्रहः भवति । अपि च सर्वलिङ्गता सिद्धा भवति । यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति । अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् । एवम् तर्हि बहुव्रीहिः भवैष्यति । किम् कृतम् भवति । भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः । तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति । न एवम् शक्यम् । इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् । एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते । किम् कृतम् भवति । न च एव कदा चित् आदेशेन विग्रहः भवति । अपि च सर्वलिङ्गता सिद्धा भवति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । योगविभागः करिष्यते । चतुर्थी सुबन्तेन सह समस्यते । ततः तदर्थार्थ । तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति । इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति । आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति । कथम् कृत्वा ज्ञापकम् । यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः । यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति ।

KA I,388.6-390.19 Ro II,598-603 kim caturthyantasya tadarthamātreṇa samāsaḥ bhavati . evam bhavitum arhati . caturthī tadarthamātreṇa cet sarvaprasaṅgaḥ aviśeṣāt . caturthī tadarthamātreṇa cet sarvaprasaṅgaḥ sarvasya caturthyantasya tadarthamātreṇa saha samāsaḥ prāpnoti . anena api prāpnoti . randhanāya sthālī avahananāya ulūkhalam iti . kim kāraṇam . aviśeṣāt . na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya caturthyantasya tadarthena saha samāsaḥ bhavati iti . anupādīyamane viśeṣe sarvaprasaṅgaḥ . balirakṣitābhyām ca anarthakam vacanam . balirakṣitābhyām ca samāsavacanam anarthakam . yaḥ hi mahārājāya baliḥ mahārājārthaḥ saḥ bhavati . tatra tadarthaḥ iti eva siddham . yadi punaḥ vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti etat lakṣaṇam kriyeta . vikṛtiḥ prakṛtyā iti cet aśvaghāsādīnām upasaṅkhyānam . vikṛtiḥ prakṛtyā iti cet aśvaghāsādīnām upasaṅkhyānam kartavyam . aśvaghāsaḥ śvaśrūsuram hastividhā iti . arthena nityasamāsavacanam . arthśabdena nityasamāsaḥ vaktavyaḥ . brāhmaṇārtham kṣatriyārtham . kim vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti ataḥ arthena nityasamāsaḥ vaktavyaḥ . na iti āha sarvathā arthena nityasamāsaḥ vaktavyaḥ vigrahaḥ mā bhūt iti . sarvaliṅgatā ca . sarvaliṅgatā ca vaktavyā . brāhmaṇārtham payaḥ brāhmaṇārthaḥ sūpaḥ brāhmaṇārthā yavāgūḥ iti . kim arthena nityasamāsaḥ ucyate iti ataḥ sarvaliṅgatā vaktavyā . na iti āha . sarvathā sarvaliṅgatā vaktavyā . kim kāraṇam . arthaśabdaḥ ayam puṃliṅgaḥ uttarapadārthapradhānaḥ ca tatpuruṣaḥ . tena puṃliṅgasya eva samāsasya abhidhānam syāt strīnapuṃsakaliṅgasya na syāt . tat tarhi bahu vaktavyam . vikṛtiḥ prakṛtyā iti vaktavyam . aśvaghāsādīnām upasaṅkhyānam kartavyam . arthena nityasamāsaḥ vaktavyaḥ . sarvaliṅgatā ca vaktavyā . na vaktavyam . yat tāvat ucyate vikṛtiḥ prakṛtyā iti vaktavyam . na vaktavyam . ācāryapravṛttiḥ jñāyapati vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti yat ayam balirakiṣitagrahaṇam karoti . katham kṛtvā jñāpakam . yathājātīyakānām samāse balirakṣitagrahaṇena arthaḥ tathājātīyakānām samāsaḥ . yadi ca vikṛtiḥ caturthyantā prakṛtyā saha samasyate na tadarthamātreṇa tataḥ balirakiṣitagrahaṇam arthavat bhavati . yat api ucyate aśvaghāsādīnām upasaṅkhyānam kartavyam iti . na kartavyam . aśvaghāsādayaḥ ṣaṣṭhīsamāsāḥ bhaviṣyanti . yat hi yadartham bhavati ayam api tatra abhisambandhaḥ bhavati asya idam iti . tat yathā guroḥ idam gurvartham iti . nanu ca svarabhedaḥ bhavati . caturthīsamāse sati pūrvapadaprakṛtisvaratvena bhavitavyam ṣaṣṭhīsamāse punaḥ antodāttatvena ṇa asti bhedaḥ . caturthīsamāse api sati antodāttatvena eva bhavitavyam . katham . ācāryapravṛttiḥ jñāpayati vikṛtiḥ caturthyantā prakṛtisvarā bhavati na caturthīmātram iti yat ayam caturthī tadarthe arthe kte ca iti arthagrahaṇam ktagrahaṇam ca karoti . katham kṛtvā jñāpakam . yathājātīyakānām arthagrahaṇena ktagrahaṇena ca arthaḥ tathājātīyakānām prakṛtisvaratvam . yadi ca vikṛtiḥ caturthyantā prakṛtyā bhavati na caturthīmātram tataḥ arthagrahaṇam ktagrahaṇam ca arthavat bhavati .yat api ucyate arthena nityasamāsaḥ vaktavyaḥ iti . na vaktavyaḥ . sarthappratyayaḥ kariṣyate . kim kṛtam bhavati . na ca eva hi kadā cit vigrahaḥ bhavati . api ca sarvaliṅgatā siddhā bhavati . yadi sarthappratayaḥ kriyate itsañjñā na prāpnoti . atha api katham cit itsañjñā syāt evam api śryartham bhvartham iti aṅgasya iti iyaṅuvaṅau syātām . evam tarhi bahuvrīhiḥ bhavaiṣyati . kim kṛtam bhavati . bhavati vai kaḥ cit asvapadavigrahaḥ bahuvrīhiḥ . tat yathā śobhanam mukham asyāḥ sumukhī iti . na evam śakyam . iha hi mahadartham iti āttvakapau prasajyetām . evam tarhi tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ kariṣyate . kim kṛtam bhavati . na ca eva kadā cit ādeśena vigrahaḥ bhavati . api ca sarvaliṅgatā siddhā bhavati . tat tarhi vaktavyam . na vaktavyam . yogavibhāgaḥ kariṣyate . caturthī subantena saha samasyate . tataḥ tadarthārtha . tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ bhavati . iha api tarhi samāsaḥ prāpnoti chātrāya rucitam chātrāya svaditam iti . ācāryapravṛttiḥ jñāpayati tādarthye ya caturthī sā samasyate na caturthīmātram iti yat ayam hitasukhagrahaṇam karoti . katham kṛtvā jñāpakam . yathājātīyakānām samāse hitasukhagrahaṇena arthaḥ tathājātīyakānam samāsaḥ . yadi ca tādarthye yā caturthī sā samasyate na caturthīmātram tataḥ hitasukhagrahaṇam arthavat bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९०।२१-२४ रो इइ,६०४ अत्यल्पम् इदम् उच्यते भयेन इति । भयभीतभीतिभीभिः इति वक्तव्यम् । वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति । अपरः आह : भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् : वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति ।

KA I,390.21-24 Ro II,604 atyalpam idam ucyate bhayena iti . bhayabhītabhītibhībhiḥ iti vaktavyam . vṛkāt bhayam vṛkabhayam vṛkāt bhītaḥ vṛkabhītaḥ vṛkāt bhītiḥ vṛkabhītiḥ vṛkāt bhīḥ vṛkabhīḥ iti . aparaḥ āha : bhayanirgatajugupsubhiḥ iti vaktavyam : vṛkabhayam grāmanirgataḥ adharmajugupsuḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९०।२६-३९१।२ रो इइ,६०४ शौण्डादिभिः इति वक्तव्यम् । इह अपि यथा स्यात् । अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते ।

KA I,390.26-391.2 Ro II,604 śauṇḍādibhiḥ iti vaktavyam . iha api yathā syāt . akṣadhūrtaḥ strīdhūrtaḥ akṣakitavaḥ strīkitavaḥ iti . tat tarhi vaktavyam . na vaktavyam . bahuvacananirdeśāt śauṇḍādibhiḥ iti vijñāsyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९१।४-७ रो इइ,६०५ ध्वाङ्क्षेण इति अर्थग्रहणम् । ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् । इह अपि यथा स्यात् । तीर्थकाकः इति । क्षेपे इति उच्यते । कः इह क्षेपः नाम । यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति ।

KA I,391.4-7 Ro II,605 dhvāṅkṣeṇa iti arthagrahaṇam . dhvāṅkṣeṇa iti arthagrahaṇam kartavyam . iha api yathā syāt . tīrthakākaḥ iti . kṣepe iti ucyate . kaḥ iha kṣepaḥ nāma . yathā tīrthe kākāḥ na ciram sthātāraḥ bhavanti evam yaḥ gurukulāni gatvā na ciram tiṣṭhati sa ucyate tīrthakākaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९१।९-१३ रो इइ,६०५ कृत्यैः नियोगे यद्ग्रहणम् । कृत्यैः नियोगे इति वक्तव्यम् । इह अपि यथा स्यात् । पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । ऋणे इति एव सिद्धम् । इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति । ततः ऋणे इति एव सिद्धम् । यग्रहणम् च कर्तव्यम् । इह मा भूत् । पूर्वाह्णे दातव्या भिक्षा इति ।

KA I,391.9-13 Ro II,605 kṛtyaiḥ niyoge yadgrahaṇam . kṛtyaiḥ niyoge iti vaktavyam . iha api yathā syāt . pūrvāḥṇegeyam sāma prātaḥ adhyeyaḥ anuvākaḥ iti . tat tarhi vaktavyam . na vaktavyam . ṛṇe iti eva siddham . iha yat yasya niyogataḥ kāryam ṛṇam tasya tat bhavati . tataḥ ṛṇe iti eva siddham . yagrahaṇam ca kartavyam . iha mā bhūt . pūrvāhṇe dātavyā bhikṣā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९१।१५-२० रो इइ,६०५ किम् उदाहरणम् । अवतप्तेनकुलस्थितम् ते एतत् । क्षेपे इति उच्यते । कः इह क्षेपः नाम । यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति । क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते । तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति । क्षेपे गतिकारकपूर्वे उक्तम् । किम् उक्तम् । कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

KA I,391.15-20 Ro II,605 kim udāharaṇam . avataptenakulasthitam te etat . kṣepe iti ucyate . kaḥ iha kṣepaḥ nāma . yathā avatapte nakulāḥ na ciram sthātāraḥ bhavanti evam kāryāṇi ārabhya yaḥ na ciram tiṣṭhati sa ucyate avataptenakulasthitam te etat iti . kṣepe saptamyantam ktāntena saha samasyate iti ucyate . tatra sagatikena sanakulena ca samāsaḥ na prāpnoti . kṣepe gatikārakapūrve uktam . kim uktam . kṛdgrahaṇe gatikārakapūrvasya api iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९२।२-३ रो इइ,६०६ किमर्थः चकारः । एवकारार्थः । पात्रेसमितादयः एव । क्व मा भूत् । परमम् पात्रेसमिताः इति ।

KA I,392.2-3 Ro II,606 kimarthaḥ cakāraḥ . evakārārthaḥ . pātresamitādayaḥ eva . kva mā bhūt . paramam pātresamitāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९२।५-१४ रो इइ,६०६-६०७ इह कस्मात् अव्ययीभावः न भवति । एका नदी एकनदी । नदीभिः सङ्ख्या इति प्राप्नोति । इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः । पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः। न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते । अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति । बहुव्रीहिः भविष्यति विप्रतिषेधेन । भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः । परङ्कार्यत्वे च न दोषः । नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः । सः च अवश्यम् वक्तव्यः । सर्वम् एकनदीतरे ।

KA I,392.5-14 Ro II,606-607 iha kasmāt avyayībhāvaḥ na bhavati . ekā nadī ekanadī . nadībhiḥ saṅkhyā iti prāpnoti . iha kaḥ cit samāsaḥ pūrvapadārthapradhānaḥ , kaḥ cit uttarapadārthapradhānaḥ , kaḥ cit anyapadārthapradhānaḥ , kaḥ cit ubhayapadārthapradhānaḥ . pūrvapadārthapradhānaḥ avyayībhāvaḥ , uttarapadārthapradhānaḥ tatpuruṣaḥ , anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ dvandvaḥ. na ca atra pūrvapadārthaprādhānyam gamyate . athavā avyayībhāvaḥ kriyatām bahuvrīhiḥ iti . bahuvrīhiḥ bhaviṣyati vipratiṣedhena . bhavet ekasañjñādhikāre siddham paraṅkāryatve tu na sidhyati . ārambhasāmarthyāt ca avyayībhāvaḥ prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ . paraṅkāryatve ca na doṣaḥ . nadībhiḥ saṅkhyāyāḥ samāhāre avyayībhāvaḥ vaktavyaḥ . saḥ ca avaśyam vaktavyaḥ . sarvam ekanadītare .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९३।२-१९ रो इइ,६०७-६०९ समाहारः इति कः अयम् शब्दः । समाङ्पूर्वात् हरतेः सर्मसाधने घञ् । समाह्रियते समाहारः इति । यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् । एवम् तर्हि भावसाधनः भविष्यति । समाहरणम् समाहारः । अथ भावसाधने सति किम् अभिधीयते । यत् तत् औत्तराधर्यम् । कः पुनः गवाम् समाहारः । यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा । यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति । एवम् तर्हि समभ्याशीकरणम् समाहारः । एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति । किम् कारणम् । सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे । न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते । किम् तर्हि । सादृश्ये अपि वर्तते । तत् यथा मातुः अनुहरति पितुः अनुहरति । अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते । अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा । यत् आकाङ्क्षत तत् एकम् स च समाहारः । अयम् तर्हि भावसाधने सति दोषः । पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति । न एषः दोषः । इह तावत् अयम् प्रष्टव्यः । अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते । असम्भवात् । आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदम् अपि एवञ्जातीयकम् एव । असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति । अथ वा अव्यतिरेकात् द्रव्याकृत्योः ।

KA I,393.2-19 Ro II,607-609 samāhāraḥ iti kaḥ ayam śabdaḥ . samāṅpūrvāt harateḥ sarmasādhane ghañ . samāhriyate samāhāraḥ iti . yadi karmasādhanaḥ pañca kumāryaḥ samahṛtāḥ pañcakumāri daśakumāri gostriyoḥ upasarjanasya iti hrasvatvam na prāpnoti dviguḥ ekavacanam iti etat ca vaktavyam . evam tarhi bhāvasādhanaḥ bhaviṣyati . samāharaṇam samāhāraḥ . atha bhāvasādhane sati kim abhidhīyate . yat tat auttarādharyam . kaḥ punaḥ gavām samāhāraḥ . yat tat arjanam krayaṇam bhiṣaṇam aparaharaṇam vā . yadi evam vikṣipteṣu pūleṣu goṣu carantīṣu na sidhyati . evam tarhi samabhyāśīkaraṇam samāhāraḥ . evam api pañcagrāmī ṣaṇṇagarī tripurī iti na sidhyati . kim kāraṇam . sam ekatvavācī āṅ ābhimukhye vartate haratiḥ deśāntaraprāpaṇe . na avaśyam haratiḥ deśāntaraprāpaṇe eva vartate . kim tarhi . sādṛśye api vartate . tat yathā mātuḥ anuharati pituḥ anuharati . atha vā pañcagrāmī ṣaṇṇagarī tripurī iti na eva idam iyati eva avatiṣṭhate . avaśyam asau tataḥ kim cit ākāṅkṣati kriyām vā guṇam vā . yat ākāṅkṣata tat ekam sa ca samāhāraḥ . ayam tarhi bhāvasādhane sati doṣaḥ . pañcapūlī ānīyatām iti bhāvānayane codite dravyānayanam na prāpoti . na eṣaḥ doṣaḥ . iha tāvat ayam praṣṭavyaḥ . atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanāni kriyante . asambhavāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . idam api evañjātīyakam eva . asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati . atha vā avyatirekāt dravyākṛtyoḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९३।२०-३९४।२४ रो इइ,६०९-६१२ किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति । एवम् भवितुम् अर्हति । द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । का एतरेतराश्रयता । द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा । तत् एतत् इतरेतराश्रयम् । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवम् तर्हि अर्थे इत् वक्ष्यामि । अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् । अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति । पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः । किम् कारणम् । द्विगुना उक्तत्वात् बहुव्रीहिवत् । तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति । एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि । समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञाभावः । समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति । क्व अन्यत्र । स्वरे । पञ्चारत्निः , दशारत्निः । इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् । सिद्धम् एतत् । कथम् । प्रत्ययोत्तरपदयोः च इति वचनात् । प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् । ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति । न एषः दोषः । इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति । न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः । न हि सञ्ज्ञा नित्या । एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते । तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः च इति विप्रतिषिद्धम् । भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति । एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः । अथ वा पुनः अस्तु अर्थे इति । ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति । न एषः दोषः । न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते । किम् तर्हि । स्यादर्थे अपि वर्तते । तत् यथा । दारार्थम् घटामहे । धनार्थम् भिक्षामहे । दाराः नः स्युः । धनानि नः स्युः इति । एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति । द्विगोः वा लुग्वचनम् ज्ञापकम् तद्धितोत्पत्तेः । अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति।

KA I,393.20-394.24 Ro II,609-612 kim punaḥ dvigusañjñā pratyayottarapadayoḥ bhavati . evam bhavitum arhati . dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ . dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ . kā etaretarāśrayatā . dvigunimitte pratyayottarapade pratyayottarapadanimittā ca dvigusañjñā . tat etat itaretarāśrayam . itaretarāśrayāṇi ca na prakalpante . evam tarhi arthe it vakṣyāmi . arthe cet taddhitānutpattiḥ bahuvrīhivat . arthe cet taddhitotpattiḥ na prāpnoti . pāñcanāpitiḥ , dvimāturaḥ , traimāturaḥ . kim kāraṇam . dvigunā uktatvāt bahuvrīhivat . tat yathā citraguḥ iti bahuvrīhiṇoktatvāt matvarthasya matvarthīyaḥ na bhavati . evam tarhi samāsataddhitavidhau iti vakṣyāmi . samāsataddhitavidhau iti cet anyatra samāsasañjñābhāvaḥ . samāsataddhitavidhau iti cet anyatra samāsasañjñā na prāpnoti . kva anyatra . svare . pañcāratniḥ , daśāratniḥ . igante dvigau iti eṣaḥ svaraḥ na prāpnoti . siddham tu pratyayottarapadayoḥ ca iti vacanāt . siddham etat . katham . pratyayottarapadayoḥ ca iti vacanāt . pratyayottarapadayoḥ dvigusañjñā bhavati iti vaktavyam . nanu ca uktam dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ iti . na eṣaḥ doṣaḥ . itaretarāśrayamātram etat coditam sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . na idam tulyam anyaiḥ itaretarāśrayaiḥ . na hi sañjñā nityā . evam tarhi bhāvinī sañjñā vijñāsyate . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati . yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ ca iti vipratiṣiddham . bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api tasmin dviguḥ bhavati yasya abhinirvṛttasya pratyaya uttarapadam iti ca ete sañjñe bhaviṣyataḥ . atha vā punaḥ astu arthe iti . nanu ca uktam arthe cet taddhitānutpattiḥ bahuvrīhivat iti . na eṣaḥ doṣaḥ . na avaśyam arthaśabdaḥ abhidheye eva vartate . kim tarhi . syādarthe api vartate . tat yathā . dārārtham ghaṭāmahe . dhanārtham bhikṣāmahe . dārāḥ naḥ syuḥ . dhanāni naḥ syuḥ iti . evam iha api taddhitārthe dviguḥ bhavati taddhitaḥ syāt iti . dvigoḥ vā lugvacanam jñāpakam taddhitotpatteḥ . atha vā yat ayam dvigoḥ luk anapatye iti dvigoḥ uttarasya taddhitasya lukam śāsti tat jñāpayati ācāryaḥ utpadyate dvigoḥ taddhitaḥ iti.

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९५।१-३९६।११ रो इइ,६१२-६१६ समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् । समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ । समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् । किम् कारणम् । तद्धितार्थे कृतत्वात् । तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति । यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । कानि । पञ्चपूली दशपूली । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति । पञ्चगवम् दशगवम् । गोः अतद्धितलुकि इत् टच् न प्रप्नोति । न एषः दोषः । अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । गोः अकारः द्विगोः समाहारे । अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । अभिधानार्थम् तु । अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् । समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति । किम् च स्यात् । तद्धितोत्पत्तिः प्रसज्येत । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । सर्वाणि परिहृतानि । न सर्वाणि परिहृतानि । पञ्चकुमारि दशकुमारि । लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः । वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः । किम् प्रयोजनम् । समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च । यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः । यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः । उत्तरपदेन परिमाणिन द्विगोः समासवचनम् । उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः । द्विमासजातः त्रिमासजातः । किम् पुनः कारणम् न सिध्यति । सुप् सुपा इति वर्तते । एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते । द्व्याह्नजातः च न सिध्यति । द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् । भवितव्यम् च यदा समाहारे द्विगुः । द्व्यह्नजातः तु न सिध्यति । किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि । पञ्चगवप्रियः दशगवप्रियः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः । अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् । उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति । सर्वत्र मत्वर्थे प्रतिषेधः । सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । पञ्चखट्वा दशखट्वा । द्विगोः इति ईकारः मा भूत् । पञ्चगुः दशगुः । गोः अतद्धितलुकि इति टच् मा भूत् इति ।

KA I,395.1-396.11 Ro II,612-616 samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇānarthakyam taddhitārthena kṛtatvāt . samāhāraḥ samūhaḥ iti aviśiṣtau etau arthau . samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇam anarthakam . kim kāraṇam . taddhitārthe kṛtatvāt . taddhitārthe dviguḥ iti evam atra dviguḥ bhaviṣyati . yadi taddhitārthe dviguḥ iti evam atra dviguḥ bhavati taddhitotpattiḥ prāpnoti . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . kāni . pañcapūlī daśapūlī . aparimāṇabistācitakambalebhyaḥ na taddhitaluki iti pratiṣedhaḥ prāpnoti . pañcagavam daśagavam . goḥ ataddhitaluki it ṭac na prapnoti . na eṣaḥ doṣaḥ . aviśeṣeṇa dvigoḥ ṅīp bhavati iti uktvā samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . goḥ akāraḥ dvigoḥ samāhāre . aviśeṣeṇa goḥ ṭac bhavati iti uktvā dvigoḥ samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . abhidhānārtham tu . abhidhānārtham tu samāhāragrahaṇam kartavyam . samāhāreṇa abhidhānam yathā syāt taddhitārthena mā bhūt iti . kim ca syāt . taddhitotpattiḥ prasajyeta . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . sarvāṇi parihṛtāni . na sarvāṇi parihṛtāni . pañcakumāri daśakumāri . lik taddhitaluki iti ṅīpaḥ luk prasajyeta . dvandvatatpuruṣayoḥ uttarapade nityasamāsavacanam . dvandvatatpuruṣayoḥ uttarapade nityasamāsaḥ vaktavyaḥ . vāgdṛṣadapriyaḥ chatropānahapriyaḥ pañcagavapriyaḥ daśagavapriyaḥ . kim prayojanam . samudāyavṛttau avayavānām mā kadā cit avṛttiḥ bhūt iti . tat tarhi vaktavyam . na vaktavyam . iha dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca . yadā vṛttipakṣaḥ tadā sarveṣām eva vṛttiḥ . yadā tu avṛttiḥ tadā sarveṣām avṛttiḥ . uttarapadena parimāṇina dvigoḥ samāsavacanam . uttarapadena parimāṇina dvigoḥ samāsaḥ vaktavyaḥ . dvimāsajātaḥ trimāsajātaḥ . kim punaḥ kāraṇam na sidhyati . sup supā iti vartate . evam tarhi idam syāt : dvau māsau dvimāsam , dvimāsam jātasya iti . na evam śakyam . svare hi doṣaḥ syāt . dvimāsajātaḥ iti prāpnoti dvimāsajātaḥ iti ca iṣyate . dvyāhnajātaḥ ca na sidhyati . dvyahajāta iti prāpnoti na ca evam bhavitavyam . bhavitavyam ca yadā samāhāre dviguḥ . dvyahnajātaḥ tu na sidhyati . kim ucyate parimāṇinā iti na punaḥ anyatra api . pañcagavapriyaḥ daśagavapriyaḥ . anyatra samudāyabahuvrīhitvāt uttarapadaprasiddhiḥ . anyatra samudāyabaḥ huvrīhisañjñḥ . anyatra samudāyabahuvrīhitvāt uttarapadam prasiddham . uttarapade prasiddhe uttarapade iti dviguḥ bhaviṣyati . sarvatra matvarthe pratiṣedhaḥ . sarveṣu pakṣeṣu dvigusañjñāyāḥ matvarthe pratiṣedhaḥ vaktavyaḥ . kim prayojanam . pañcakhaṭvā daśakhaṭvā . dvigoḥ iti īkāraḥ mā bhūt . pañcaguḥ daśaguḥ . goḥ ataddhitaluki iti ṭac mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९६।१३-२३ रो इइ,६१७-६१८ किम् अनन्तरे योगे सङ्ख्यापूर्वः सः द्विगुसञ्ज्ञः आहोस्वित् पूर्वमात्रे । किम् च अतः । यदि अनन्तरे योगे एकशाटी द्विगोः इति ईकारः न प्राप्नोति । अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति । अस्तु अनन्तरे । कमम् एकशाटी । ईकारान्तेन समासः भविष्यति । एका शाटी एकशाटी । इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति । अस्तु तर्हि पूर्वमात्रे। कथम् एकभिक्षा । टाबन्तेन समासः भविष्यति । एका भिक्षा एकभिक्षा । इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति । अस्तु तर्हि अनन्तरे । कथम् एकापूपी । समाहारे इति एव सिद्धम् । कः पुनः अत्र समाहारः । यत् तद्दानम् सम्भ्रमः वा । इह तर्हि पञ्चहोतारः दशहोतारः इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति । अस्तु तर्हि पूर्वमात्रे । कथम् सप्तर्षयः । अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् । अथ वा पुनः अस्तु अनन्तरे । कथम् पञ्चहोतारः दशहोतारः । आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् ।

KA I,396.13-23 Ro II,617-618 kim anantare yoge saṅkhyāpūrvaḥ saḥ dvigusañjñaḥ āhosvit pūrvamātre . kim ca ataḥ . yadi anantare yoge ekaśāṭī dvigoḥ iti īkāraḥ na prāpnoti . atha pūrvamātre akabhikṣā atra api prāpnoti . astu anantare . kamam ekaśāṭī . īkārāntena samāsaḥ bhaviṣyati . ekā śāṭī ekaśāṭī . iha tarhi ekāpūpī dvigoḥ iti īkāraḥ na prāpnoti . astu tarhi pūrvamātre. katham ekabhikṣā . ṭābantena samāsaḥ bhaviṣyati . ekā bhikṣā ekabhikṣā . iha tarhi saptarṣayaḥ igante dvigau iti eṣaḥ svaraḥ prāpnoti . astu tarhi anantare . katham ekāpūpī . samāhāre iti eva siddham . kaḥ punaḥ atra samāhāraḥ . yat taddānam sambhramaḥ vā . iha tarhi pañcahotāraḥ daśahotāraḥ igante dvigau iti eṣaḥ svaraḥ na prapnoti . astu tarhi pūrvamātre . katham saptarṣayaḥ . antodāttaprakaraṇe tricakrādīnām chandasi iti evam etat siddham . atha vā punaḥ astu anantare . katham pañcahotāraḥ daśahotāraḥ . ādyudāttaprakaraṇe divodāsādīnām chandasi iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९७।२-३ रो इइ,६१९ किम् उदाहरण्म् । वैयाकरणखसूचिः । किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः । वैयाकरणः कुत्सितः । तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति ।

KA I,397.2-3 Ro II,619 kim udāharaṇm . vaiyākaraṇakhasūciḥ . kim vyākaraṇam kutsitam āhosvit vaiyākaraṇaḥ . vaiyākaraṇaḥ kutsitaḥ . tasmin kutsite tatstham api kutsitam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९७।५-३९८।१९ रो इइ,६१९-६२७ उपमानानि इति उच्यते । कानि पुनः उपमानानि । किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् । किम् च अतः । यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति । अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव अश्वः इति । एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् विशेषः तत्र उपमानोपमेये भवतः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । मानम् हि नाम अनिर्ज्ञातज्ञानार्थम् उपादीयते अनिर्ज्ञातम् अर्थम् ज्ञास्यामि इति । तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् । गौः इव गवयः इति । गौः निर्ज्ञातः गवयः अनिर्ज्ञातः । कामम् तर्हि अनेन एव हेतुना यस्य गवयः निर्ज्ञातः स्यात् गौः अनिर्ज्ञातः तेन कर्तव्यम् स्यात् गवयः इव गौः इति। बाढम् कर्तव्यम् । किम् पुनः इह उदाहरणम् । शस्त्रीश्यामा । क्व पुनः अयम् श्यामाशब्दः वर्तते । शत्र्याम् इति आह । केन इदानीम् देवदत्ता अभिधीयते । समासेन। यदि एवम् शस्त्रीश्यामो देवदत्तः इति न सिध्यति । उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति । यदि तर्हि उपसर्जनानि अपि एवञ्जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति । एवम् तर्हि शस्त्र्याम् एव शस्त्रीशब्दः वर्तते देवदत्तायाम् श्यामाशब्दः । एवम् अपि गुणः अनिर्दिष्टः भवति । बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति । अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः । तत् यथा चन्द्रमुखी देवदत्ता इति । बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते । एवम् अपि समानाधिकरणेन इति वर्तते । व्यधिकरणत्वात् समासः न प्राप्नोति । किम् हि वचनात् न भवति । यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति । एवम् तर्हि तस्याम् एव उभयम् वर्तते । एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति । इतरथा हि बहु अपेक्ष्यम् स्यात् । यदि तावत् एवम् विग्रहः क्रियते शस्त्री इव श्यामा देवदत्ता इति शस्त्र्याम् श्यामा इति एतत् अपेक्ष्यम् । अथ अपि एवम् विग्रहः क्रियते यथा सास्त्रीश्यामा तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् श्यामा इति अपेक्ष्यम् स्यात् । एवम् अपि गुणः अनिर्दिष्टः भवति । बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति । अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः । तत् यथा चन्द्रमुखी देवदत्ता इति । बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते । उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनाप्रसिद्धिः । उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनस्य अप्रसिद्धिः स्यात् । शस्त्रीश्यामा । श्यामाशब्दः अयम् शस्त्रीशब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते । तत्र सामान्यवचनैः इति समासः न प्राप्नोति । न वा श्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च शब्दस्य सामान्यवचनप्रसिद्धिः । न वा एषः दोषः । किम् कारणम् । श्यामत्वस्यो उह्हयत्र भावात् । उभयत्र एव श्यामत्वम् अस्ति शस्त्र्याम् देवदत्तायाम् च । तद्वाचक्त्वात् च शब्दस्य । सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र श्यामाशब्दः प्रयुज्यते । किम्वाचकः । उभयवाचकः । श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च शब्दस्य सामान्यवचनम् प्रसिद्धम् । सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति । न च अवश्यम् सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह। द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव । अथ वा सामान्यवचनैः इति उच्यते । सर्वः च शब्दः अन्येन शब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते । ते एवम् विज्ञास्यामः प्राक् अभिसम्बन्धात् सामान्यवचनः इति ।

KA I,397.5-398.19 Ro II,619-627 upamānāni iti ucyate . kāni punaḥ upamānāni . kim yat eva upamānam tat eva upameyam āhosvit anyat upamānam anyat upameyam . kim ca ataḥ . yadi yat eva upamānam tat eva upameyam kaḥ iha upamārthaḥ gauḥ iva gauḥ iti . atha anyat eva upamānam anyat upameyam kaḥ iha upamārthaḥ gauḥ iva aśvaḥ iti . evam tarhi yatra kim cit sāmānyam kaḥ cit viśeṣaḥ tatra upamānopameye bhavataḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . mānam hi nāma anirjñātajñānārtham upādīyate anirjñātam artham jñāsyāmi iti . tat samīpe yat na atyantāya mimīte tat upamānam . gauḥ iva gavayaḥ iti . gauḥ nirjñātaḥ gavayaḥ anirjñātaḥ . kāmam tarhi anena eva hetunā yasya gavayaḥ nirjñātaḥ syāt gauḥ anirjñātaḥ tena kartavyam syāt gavayaḥ iva gauḥ iti. bāḍham kartavyam . kim punaḥ iha udāharaṇam . śastrīśyāmā . kva punaḥ ayam śyāmāśabdaḥ vartate . śatryām iti āha . kena idānīm devadattā abhidhīyate . samāsena. yadi evam śastrīśyāmo devadattaḥ iti na sidhyati . upasarjanasya iti hrasvatvam bhaviṣyati . yadi tarhi upasarjanāni api evañjātīyakāni bhavanti tittirikalmāṣī kumbhakapālalohinī anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti . evam tarhi śastryām eva śastrīśabdaḥ vartate devadattāyām śyāmāśabdaḥ . evam api guṇaḥ anirdiṣṭaḥ bhavati . bahavaḥ śastryām guṇāḥ tīkṣṇā sūkṣmā pṛthuḥ iti . anirdiśyamānasya api guṇasya bhavati loke sampratyayaḥ . tat yathā candramukhī devadattā iti . bahavaḥ candre guṇāḥ yā ca asau priyadarśanatā sā gamyate . evam api samānādhikaraṇena iti vartate . vyadhikaraṇatvāt samāsaḥ na prāpnoti . kim hi vacanāt na bhavati . yadi api tāvat vacanāt samāsaḥ syāt iha tu khalu mṛgī iva capalā mṛgacapalā samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti . evam tarhi tasyām eva ubhayam vartate . etat ca atra yuktam yat tasyām eva ubhayam vartate iti . itarathā hi bahu apekṣyam syāt . yadi tāvat evam vigrahaḥ kriyate śastrī iva śyāmā devadattā iti śastryām śyāmā iti etat apekṣyam . atha api evam vigrahaḥ kriyate yathā sāstrīśyāmā tadvat iyam devadattā iti evam api devadattāyām śyāmā iti apekṣyam syāt . evam api guṇaḥ anirdiṣṭaḥ bhavati . bahavaḥ śastryām guṇāḥ tīkṣṇā sūkṣmā pṛthuḥ iti . anirdiśyamānasya api guṇasya bhavati loke sampratyayaḥ . tat yathā candramukhī devadattā iti . bahavaḥ candre guṇāḥ yā ca asau priyadarśanatā sā gamyate . upamānasamāse guṇavacanasya viśeṣabhāktvāt sāmanyavacanāprasiddhiḥ . upamānasamāse guṇavacanasya viśeṣabhāktvāt sāmanyavacanasya aprasiddhiḥ syāt . śastrīśyāmā . śyāmāśabdaḥ ayam śastrīśabdena abhisambadhyamānaḥ viśeṣavacanaḥ sampadyate . tatra sāmānyavacanaiḥ iti samāsaḥ na prāpnoti . na vā śyāmatvasyo uhhayatra bhāvāt tadvācaktvāt ca śabdasya sāmānyavacanaprasiddhiḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . śyāmatvasyo uhhayatra bhāvāt . ubhayatra eva śyāmatvam asti śastryām devadattāyām ca . tadvācaktvāt ca śabdasya . sāmānyavacanaprasiddhiḥ tadvācakaḥ ca atra śyāmāśabdaḥ prayujyate . kimvācakaḥ . ubhayavācakaḥ . śyāmatvasya ubhayatra bhāvāt tadvācakatvāt ca śabdasya sāmānyavacanam prasiddham . sāmānyavacane prasiddhe sāmānyavacanaiḥ iti samāsaḥ bhaviṣyati . na ca avaśyam saḥ eva sāmānyavacanaḥ yaḥ bahūnām sāmānyam āha. dvayoḥ api sāmānyam āha saḥ api sāmānyavacanaḥ eva . atha vā sāmānyavacanaiḥ iti ucyate . sarvaḥ ca śabdaḥ anyena śabdena abhisambadhyamānaḥ viśeṣavacanaḥ sampadyate . te evam vijñāsyāmaḥ prāk abhisambandhāt sāmānyavacanaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९८।२१-३९९।२ रो इइ,६२७-६२८ सामान्याप्रयोगे इति किमर्थम् । इह मा भूत् । पुरुषः अयम् व्याघ्रः इव शूरः । पुरुषः अयम् व्याघ्रः इव बलवान् । सामान्याप्रयोगे इति शक्यम् अकर्तुम् । कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव शूरः । पुरुषः अयम् व्याघ्रः इव बलवान् इति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति । किम् एतस्य ज्ञापने प्रयोजनम् । राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः सिद्धा भवति ।

KA I,398.21-399.2 Ro II,627-628 sāmānyāprayoge iti kimartham . iha mā bhūt . puruṣaḥ ayam vyāghraḥ iva śūraḥ . puruṣaḥ ayam vyāghraḥ iva balavān . sāmānyāprayoge iti śakyam akartum . kasmāt na bhavati puruṣaḥ ayam vyāghraḥ iva śūraḥ . puruṣaḥ ayam vyāghraḥ iva balavān iti . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . evam tarhi siddhe sati yat sāmānyāprayoge iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati vai pradhānasya sāpekṣasya api samāsaḥ iti . kim etasya jñāpane prayojanam . rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ siddhā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३९९।४-२६ रो इइ,६२८-६३२ विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जनाप्रसिद्धिः । विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः । कृष्णतिलाः इति कृष्णशब्दः अयम् तिलशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते । तथा तिलशब्दः कृष्णशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते । तत् उभयम् विशेषणम् भवति उभयम् च विशेष्यम् । विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः । न वा अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनप्रसिद्धिः । न वा एषः दोषः । किम् कारणम् । अन्यतरस्य प्रधानभावात् । अन्यतरत् अत्र प्रधानम् । तद्विशेषकत्वात् च अपरस्य । तद्विशेषकम् च अपरम् । अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनसञ्ज्ञा भविष्यति । यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः विशेषणत्वेन तदा तिलाः प्रधानम् कृष्णः विशेषणम् । कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः विशेषणत्वेन तेन कर्तव्यम् तिलकृष्णाः इति । न कर्तव्यम् । न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति । न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति । किम् तर्हि । द्वौ इमौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते । न च द्वयोः प्रधानशब्दयोः एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति । तत्र प्रयोगात् एतत् गन्तव्यम् । नूनम् अत्र अन्यतरत् प्रधानम् तद्विशेषकम् च अपरम् इति । तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् विशेषणम् इति । सः च अपि क्व सन्देहः । यत्र उभौ गुणशब्दौ । तत् यथा कुञ्जखञ्जकः खञ्जकुब्जकः इति । यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् । तत् यथा शुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति । अवश्यम् तद्गुणम् द्रव्यम् आकाङ्क्षति । कथम् तर्हि इमौ द्वौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः शिंशिपा इति । न एतयोः आवश्यकः समावेशः । न हि अवृक्षः शिंशिपा अस्ति ।

KA I,399.4-26 Ro II,628-632 viśeṣaṇaviśeṣyayoḥ ubhayaviśeṣaṇatvāt ubhayoḥ ca viśeṣyatvāt upasarjanāprasiddhiḥ . viśeṣaṇaviśeṣyayoḥ ubhayaviśeṣaṇatvāt ubhayoḥ ca viśeṣyatvāt upasarjansya aprasiddhiḥ . kṛṣṇatilāḥ iti kṛṣṇaśabdaḥ ayam tilaśabdena abhisambadhyamānaḥ viśeṣaṇavacanaḥ sampadyate . tathā tilaśabdaḥ kṛṣṇaśabdena abhisambadhyamānaḥ viśeṣaṇavacanaḥ sampadyate . tat ubhayam viśeṣaṇam bhavati ubhayam ca viśeṣyam . viśeṣaṇaviśeṣyayoḥ ubhayaviśeṣaṇatvāt ubhayoḥ ca viśeṣyatvāt upasarjansya aprasiddhiḥ . na vā anyatarasya pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanaprasiddhiḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . anyatarasya pradhānabhāvāt . anyatarat atra pradhānam . tadviśeṣakatvāt ca aparasya . tadviśeṣakam ca aparam . anyatarasya pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanasañjñā bhaviṣyati . yadā asya tilāḥ prādhānyena vivakṣitāḥ bhavanti kṛṣṇaḥ viśeṣaṇatvena tadā tilāḥ pradhānam kṛṣṇaḥ viśeṣaṇam . kāmam tarhi anena eva hetunā yasya kṛṣṇāḥ prādhānyena vivakṣitāḥ bhavanti tilāḥ viśeṣaṇatvena tena kartavyam tilakṛṣṇāḥ iti . na kartavyam . na hi ayam dvandvaḥ tilāḥ ca kṛṣṇāḥ ca iti . na khalu api ṣaṣṭhīsamāsaḥ tilānām kṛṣṇāḥ iti . kim tarhi . dvau imau pradhānaśabdau ekasmin arthe yugapat avarudhyete . na ca dvayoḥ pradhānaśabdayoḥ ekasmin arthe yugapat avarudhyamānayoḥ kim cit api prayojanam asti . tatra prayogāt etat gantavyam . nūnam atra anyatarat pradhānam tadviśeṣakam ca aparam iti . tatra tu etāvān sandehaḥ kim pradhānam kim viśeṣaṇam iti . saḥ ca api kva sandehaḥ . yatra ubhau guṇaśabdau . tat yathā kuñjakhañjakaḥ khañjakubjakaḥ iti . yatra hi anyatarat dravyam anyataraḥ guṇaḥ tatra yat dravyam tat pradhānam . tat yathā śuklam ālabheta kṛṣṇam ālabheta iti na piṣṭapiṇḍīm ālabhya kṛtī bhavati . avaśyam tadguṇam dravyam ākāṅkṣati . katham tarhi imau dvau pradhānaśabdau ekasmin arthe yugapat avarudhyete vṛkṣaḥ śiṃśipā iti . na etayoḥ āvaśyakaḥ samāveśaḥ . na hi avṛkṣaḥ śiṃśipā asti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४००।२-११ रो इइ,६३३-६३४ अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न विशेषणम् विशेष्येण बहुलम् इति एव सिद्धम् । बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम् । अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते । यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् । एवम् तर्हि न ब्रूमः अकृत्स्नम् इति । कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च । यत् च अनेन कृतम् सुक्तृतम् तत् । किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते । उदाहरणभूयस्त्वात् । ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च । केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति । अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति । सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् । तत्र न एकः पन्थाः शक्यः आस्थातुम् ।

KA I,400.2-11 Ro II,633-634 atha kimartham uttaratra evamādi anukramaṇam kriyate na viśeṣaṇam viśeṣyeṇa bahulam iti eva siddham . bahulavacanasya akṛtsnatvāt uttaratrānukramaṇasāmarthyam . akṛtsnam bahulavacanam iti uttaratra anukramaṇam kriyate . yadi akṛtsnam yat anena kṛtam akṛtam tat . evam tarhi na brūmaḥ akṛtsnam iti . kṛtsnam ca kārakam ca sādhakam ca nirvartakam ca . yat ca anena kṛtam suktṛtam tat . kimartham tarhi evamādi anukramaṇam kriyate . udāharaṇabhūyastvāt . te khalu api vidhayaḥ suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca . kevalam lakṣaṇam kevalaḥ prapañcaḥ vā na tathā kārakam bhavati . avaśyam khalu asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā vā ekeṣām iti . sarvavedapāṛiṣadam hi idam śāstram . tatra na ekaḥ panthāḥ śakyaḥ āsthātum .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४००।१३-१८ रो इइ,६३५ श्रेण्यादयः पठ्यन्ते । कृतादिः आकृतिगणः । श्रेण्यादिषु च्व्यर्थवचनम् । श्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । यदा हि श्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् । अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् शास्ति । तत् इह न तथा । किम् कारणम् । अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् । इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति ।

KA I,400.13-18 Ro II,635 śreṇyādayaḥ paṭhyante . kṛtādiḥ ākṛtigaṇaḥ . śreṇyādiṣu cvyarthavacanam . śreṇyādiṣu cvyarthagrahaṇam kartavyam . aśreṇayaḥ śreṇayaḥ kṛtāḥ śreṇikṛtāḥ . yadā hi śreṇayaḥ eva kim cit kriyante tadā mā bhūt . anyatra ayam cvyarthagrahaṇeṣu cvyantasya pratiṣedham śāsti . tat iha na tathā . kim kāraṇam . anyatra pūrvam cvyantakāryam param cvyarthakāryam . iha punaḥ pūrvam cyvarthakāryam param cvyantakāryam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४००।२०-४०१।२७ रो इइ,६३५-६३८ नञ्विशिष्टे समानप्रकृतिवचनम् । नञ्विशिष्टे समानप्रकृतिग्रहणम् कर्तव्यम् । इह मा बूत् । सिद्धम् च अभुक्तम् च इति । अनञ् इति च प्रतिषेधः कर्तव्यः । इह मा भूत् । कर्तव्यम् अकृतम् इति । नुडिडधिकेन च । नुडिडधिकेन च समासः वक्तव्यः । इह अपि यथा स्यात् । अशितानशितेन जीवति । क्लिष्टाक्लिशितेन जीवति । किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा नञ्विशिष्टेन इति उच्यते । न च अत्र नञ्कृतः एव विशेषः । किम् तर्हि । प्रकृतिकृतः अपि । अयम् विशिष्टशब्दः अस्ति एव अवधारणे वर्तते । तत् यथा । देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः । स्वाध्यायेन एव इति गम्यते । अन्ये गुणाः समाः भवन्ति । अस्ति आधिक्ये वर्तते । तत् यथा । देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः । स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति । तत् यदा तावत् अवधारणे विशिष्टशब्दः तदा न एव अर्थः समानप्रकृतिग्रहणेन । न इह भविष्यति । सिद्धम् च अभुक्तम् च इति । न अपि अनञ् इति प्रतिषेधेन । न इह भविष्यति कर्तव्यम् अकृतम् इति । नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति । यदा आधिक्ये विशिष्टशब्दः तदा समानप्रकृतिग्रहणम् कर्तव्यम् । इह मा भूत् षिद्धम् च अभुक्तम् च इति । अनञ् इति च प्रतिषेधः कर्तव्यः । इह मा भूत् । कर्तव्यम् अकृतम् इति । नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति । तत्र आधिक्ये विशिष्टग्रहणम् मत्वा समानप्रकृतिग्रहणम् चोद्यते । अवधारणम् नञा चेत् नुडिड्विशिष्टेन न प्रकल्पेत । अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति । कृतापकृतादीनाम् च उपसङ्ख्यानम् । कृतापकृतादीनाम् च उपसङ्ख्यानम् । कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् । सिद्धम् तु क्तेन विसमाप्तौ अनञ् । सिद्धम् एतत् । कथम्। क्तान्तेन क्रियाविसमाप्तौ अनञ् क्तान्तम् समस्यते इति वक्तव्यम् । गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् । गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् कर्तव्यम् । गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका ।

KA I,400.20-401.27 Ro II,635-638 nañviśiṣṭe samānaprakṛtivacanam . nañviśiṣṭe samānaprakṛtigrahaṇam kartavyam . iha mā būt . siddham ca abhuktam ca iti . anañ iti ca pratiṣedhaḥ kartavyaḥ . iha mā bhūt . kartavyam akṛtam iti . nuḍiḍadhikena ca . nuḍiḍadhikena ca samāsaḥ vaktavyaḥ . iha api yathā syāt . aśitānaśitena jīvati . kliṣṭākliśitena jīvati . kim ucyate samānaprakṛtigrahaṇam kartavyam iti yadā nañviśiṣṭena iti ucyate . na ca atra nañkṛtaḥ eva viśeṣaḥ . kim tarhi . prakṛtikṛtaḥ api . ayam viśiṣṭaśabdaḥ asti eva avadhāraṇe vartate . tat yathā . devadattayajñadattau āḍhyau abhirūpau darśanīyau pakṣavantau devadattaḥ tu yajñadattāt svādhyāyena viśiṣṭaḥ . svādhyāyena eva iti gamyate . anye guṇāḥ samāḥ bhavanti . asti ādhikye vartate . tat yathā . devadattayajñadattau āḍhyau abhirūpau darśanīyau pakṣavantau devadattaḥ tu yajñadattāt svādhyāyena viśiṣṭaḥ . svādhyāyena adhikaḥ anye guṇāḥ avivakṣitāḥ bhavanti . tat yadā tāvat avadhāraṇe viśiṣṭaśabdaḥ tadā na eva arthaḥ samānaprakṛtigrahaṇena . na iha bhaviṣyati . siddham ca abhuktam ca iti . na api anañ iti pratiṣedhena . na iha bhaviṣyati kartavyam akṛtam iti . nuḍiḍadhikena api tu tadā samāsaḥ na prāpnoti . yadā ādhikye viśiṣṭaśabdaḥ tadā samānaprakṛtigrahaṇam kartavyam . iha mā bhūt ṣiddham ca abhuktam ca iti . anañ iti ca pratiṣedhaḥ kartavyaḥ . iha mā bhūt . kartavyam akṛtam iti . nuḍiḍadhikena api tu samāsadḥ siddhaḥ bhavati . tatra ādhikye viśiṣṭagrahaṇam matvā samānaprakṛtigrahaṇam codyate . avadhāraṇam nañā cet nuḍiḍviśiṣṭena na prakalpeta . atha cet adhikavivakṣā kāryam tulyaprakṛtikena iti . kṛtāpakṛtādīnām ca upasaṅkhyānam . kṛtāpakṛtādīnām ca upasaṅkhyānam . kṛtāpakṛtam bhuktavibhuktam pītavipītam . siddham tu ktena visamāptau anañ . siddham etat . katham. ktāntena kriyāvisamāptau anañ ktāntam samasyate iti vaktavyam . gatapratyāgatādīnām ca upasaṅkhyānam . gatapratyāgatādīnām ca upasaṅkhyānam kartavyam . gatapratyāgatam yātānuyātam puṭāpuṭikā krayākrayikā phalāphalikā mānonmānikā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०२।२-५ रो इइ,६३९ अयुक्तः अयम् निर्देशः । समानाधिकरणेन इति वर्तते । कः प्रसङ्गः यद् व्यधिकरणानाम् समासः स्यात् । एवम् तर्हि ज्ञापयति आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति ।

KA I,402.2-5 Ro II,639 ayuktaḥ ayam nirdeśaḥ . samānādhikaraṇena iti vartate . kaḥ prasaṅgaḥ yad vyadhikaraṇānām samāsaḥ syāt . evam tarhi jñāpayati ācāryaḥ yathājātīyakam uktam uttarapadam tathājātīyakena pūrvapadena samasyate iti . kim etasya jñāpane prayojanam . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā na kartavyā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०२।७-४०३।६ रो इइ,६३९-६४१ इदम् विचार्यते : वर्णेन तृतीयासमासः वा स्यात् : कृष्णेन सारङ्गः कृष्णसारङ्गः समानाधिकरणेन वा : कृष्णः सारङ्गः कृष्णसारङ्गः इति । कः च अत्र विशेषः । वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् । वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् । तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति । अनेते वर्णः इति वक्तव्यम् । अथ द्वितीयेन वर्णग्रहणेन एतविशेषणेन अर्थः । बाढम् अर्थः यदि अवर्ण एतशब्दः अस्ति । ननु च अयम् अस्ति : आ* इतः एतः , कृष्णेतः , लोहितेतः इति । न अर्थः एवमर्थेन वर्णग्रहणेन । यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् । अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् । अथ समानाधिकरणः । समानाधिकरणे द्विः वर्णग्रहणम् । समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् । वर्णः वर्णेषु अनेते इति वक्तव्यम् । एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् । परमशुक्लः परमकृष्णः इति । द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् । कृष्णतिलाः इति । एकम् वर्णग्रहणम् अनक्र्थकम् । अन्यतरत्र कस्मात् न भवति । लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति । एवम् सति । तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् । यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् । सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति । अवश्यम् वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् । क्व च तेन न सिध्यति । शुकबभ्रुः हरितबभ्रुः इति । तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् । अथ समानाधिकरणः सामान्येन सिद्धः स्यात् । बाढम् सिद्धः । कथम् । विशेषणम् विशेष्येण बहुलम् इति । एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् । तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् ।

KA I,402.7-403.6 Ro II,639-641 idam vicāryate : varṇena tṛtīyāsamāsaḥ vā syāt : kṛṣṇena sāraṅgaḥ kṛṣṇasāraṅgaḥ samānādhikaraṇena vā : kṛṣṇaḥ sāraṅgaḥ kṛṣṇasāraṅgaḥ iti . kaḥ ca atra viśeṣaḥ . varṇena tṛtīyāsamāsaḥ etapratiṣedhe varṇagrahaṇam . varṇena tṛtīyāsamāsaḥ etapratiṣedhe varṇagrahaṇam kartavyam . tṛtīyā pūrvapadam prakṛtisvaram bhavati . anete varṇaḥ iti vaktavyam . atha dvitīyena varṇagrahaṇena etaviśeṣaṇena arthaḥ . bāḍham arthaḥ yadi avarṇa etaśabdaḥ asti . nanu ca ayam asti : ā* itaḥ etaḥ , kṛṣṇetaḥ , lohitetaḥ iti . na arthaḥ evamarthena varṇagrahaṇena . yadi tāvat ayam kartari ktaḥ tṛtīyā karmaṇi iti anena svareṇa bhavitavyam . atha api kartari paratvāt kṛtsvareṇa bhavitavyam . atha samānādhikaraṇaḥ . samānādhikaraṇe dviḥ varṇagrahaṇam . samānādhikaraṇe dviḥ varṇagrahaṇam kartavyam . varṇaḥ varṇeṣu anete iti vaktavyam . ekam varṇagrahaṇam kartavyam iha mā bhūt . paramaśuklaḥ paramakṛṣṇaḥ iti . dvitīyam varṇagrahaṇam kartavyam iha mā bhūt . kṛṣṇatilāḥ iti . ekam varṇagrahaṇam anakrthakam . anyataratra kasmāt na bhavati . lakṣaṇapratipadikoktayoḥ pratipadoktasya eva iti . evam sati . tāni etāni trīṇi varṇagrahaṇāni bhavanti samāsavidhau dve svaravidhau ca ekam . yasya api tṛtīyāsamāsaḥ tasya api tāni eva trīṇi varṇagrahaṇāni bhavanti samāsavidhau dve svaravidhau ca ekam . sāmānyena mama tṛtīyāsamāsaḥ bhaviṣyati tṛtīyā tatkṛtārthena guṇavacanena iti . avaśyam varṇena pratipadam samāsaḥ vaktavyaḥ yatra tena na sidhyati tadartham . kva ca tena na sidhyati . śukababhruḥ haritababhruḥ iti . tathā ca sati tāni eva trīṇi varṇagrahaṇāni bhavanti samāsavidhau dve svaravidhau ca ekam . atha samānādhikaraṇaḥ sāmānyena siddhaḥ syāt . bāḍham siddhaḥ . katham . viśeṣaṇam viśeṣyeṇa bahulam iti . evam api dve varṇagrahaṇe kartavye svaravidhau eva pratipadoktasya abhāvāt . tasmāt samānādhikaraṇaḥ iti eṣaḥ pakṣaḥ jyāyān .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०३।७-४०६।८ रो इइ,६४१-६५३ समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन । समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन । प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् । प्रधानानाम् तावत् प्रधानम् । वृदारकनागकुञ्जरैः पूज्यमानम् इति अस्य अवकाशः गोवृन्दारकः अश्ववृन्दारकः । पोटायुवतीनाम् अवकाशः इभ्ययुवतिः आढ्ययुवतिः । इह उभयम् प्राप्नोति । नागयुवतिः वृन्दारकयुवतिः । प्रधानानाम् परम् भवति विप्रतिषेधेन । उपसर्जनानाम् परम् उपसर्जनम् । सन्महत्परमोत्कृष्टाः इति अस्य अवकाशः सद्गवः सदश्वः । कृत्यतुल्याख्या अजात्या इति अस्य अवकाशः तुल्यश्वेतः तुल्यकृष्णः । इह उभयम् प्राप्नोति : तुल्यसत् तुल्यमहान् । उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन । समानाधिकरणसमासात् बहुव्रीहिः । समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन । समानाधिकरणसमासस्य अवकाशः वीरः पुरुषः वीरपुरुषः । बहुव्रीहेः अवकाशः कण्ठेकालः । इह उभयम् प्राप्नोति : वीरपुरुषकः ग्रामः । बहुव्रीहिः भवति विप्रतिषेधेन । कदा चित् कर्मधारयः सर्वधनाद्यर्थः । कदा चित् कर्मधारयः भवति बहुव्रीहेः । किम् प्रयोजनम् । सर्वधनाद्यर्थः । सर्वधनी सर्वबीजी सर्वकेशी नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः । किम् प्रयोजनम् । कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् । किम् च कारणम् न स्यात् । बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य । यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति । न खलु अपि सञ्ज्ञाश्रयः मत्वर्थीयः । किम् तर्हि । अर्थाश्रयः । सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति । एवम् तर्हि इदम् स्यात् : सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी । न एवम् शक्यम् । नित्यम् एवम् सति कर्मधारयः स्यात् । तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् । एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः शब्दाः इति । तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति । यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः । अन्तरङ्गः कर्मधारयः । का अन्तरङ्गता । स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः । अस्तु । विभाषा कर्मधारयः । यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति । एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति । सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति । एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति । किम् तर्हि । इष्टिः इयम् पठिता । समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति । यदि इष्टिः पठिता न अर्थः अनेन । इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आकाङ्क्षन्ति । एकेन माषेण शतसहस्रम् । एकेन कुद्दालकेन खारीसहस्रम् । तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् । कथम् सर्वधनी सर्वबीजी सर्वकेशी नटः इति । इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि । तत् च अवश्यम् वक्तव्यम् ठनः बाधनार्थम् । कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः । अस्ति अत्र विशेषः । जात्या अत्र अभिसम्बन्धः क्रियते । कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति । यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति । पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः भवति विप्रतिषेधेन । किम् प्रयोजनम् । सूक्ष्मवस्त्रतराद्यर्थः । आतिशायिकस्य अवकाशः पटुतरः पटुतमः । बहुव्रीहेः अवकाशः चित्रगुः शबलगुः । इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः तीक्ष्ण्शृङ्गतरः । बहुव्रीहिः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विर्पतिषेधे परम् इति उच्यते । पूर्वः च बहुव्रीहिः परः आतिशायिकः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति । एवम् अपि अयुक्तः । अन्तरङ्गः आतिशाइयिकः । का अन्तरङ्गता । ङ्याप्प्रातिपदिकात् आतिशायिकः

KA I,403.7-406.8 Ro II,641-653 samānādhikaraṇādhikāre pradhānopasarjanānām param param vipratiṣedhena . samānādhikaraṇādhikāre pradhānopasarjanānām param param bhavati vipratiṣedhena . pradhānānām pradhānam upasarjanānām upasarjanam . pradhānānām tāvat pradhānam . vṛdārakanāgakuñjaraiḥ pūjyamānam iti asya avakāśaḥ govṛndārakaḥ aśvavṛndārakaḥ . poṭāyuvatīnām avakāśaḥ ibhyayuvatiḥ āḍhyayuvatiḥ . iha ubhayam prāpnoti . nāgayuvatiḥ vṛndārakayuvatiḥ . pradhānānām param bhavati vipratiṣedhena . upasarjanānām param upasarjanam . sanmahatparamotkṛṣṭāḥ iti asya avakāśaḥ sadgavaḥ sadaśvaḥ . kṛtyatulyākhyā ajātyā iti asya avakāśaḥ tulyaśvetaḥ tulyakṛṣṇaḥ . iha ubhayam prāpnoti : tulyasat tulyamahān . upasarjanānām param upasarjanam bhavati vipratiṣedhena . samānādhikaraṇasamāsāt bahuvrīhiḥ . samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena . samānādhikaraṇasamāsasya avakāśaḥ vīraḥ puruṣaḥ vīrapuruṣaḥ . bahuvrīheḥ avakāśaḥ kaṇṭhekālaḥ . iha ubhayam prāpnoti : vīrapuruṣakaḥ grāmaḥ . bahuvrīhiḥ bhavati vipratiṣedhena . kadā cit karmadhārayaḥ sarvadhanādyarthaḥ . kadā cit karmadhārayaḥ bhavati bahuvrīheḥ . kim prayojanam . sarvadhanādyarthaḥ . sarvadhanī sarvabījī sarvakeśī naṭaḥ gaurakharavat vanam gauramṛgavat vanam kṛṣṇasarpavān valmīkaḥ lohitaśālimān grāmaḥ . kim prayojanam . karmadhārayaprakṛtibhiḥ matvarthīyaiḥ abhidhānam yathā syāt . kim ca kāraṇam na syāt . bahuvrīhiṇā uktatvāt matvarthasya . yadi uktatvam hetuḥ karmadhārayeṇa api uktatvāt na prāpnoti . na khalu api sañjñāśrayaḥ matvarthīyaḥ . kim tarhi . arthāśrayaḥ . saḥ yathā eva bahuvrīhiṇā uktatvāt na bhavati evam karmadhārayeṇa api uktatvāt na bhaviṣyati . evam tarhi idam syāt : sarvāṇi dhanāni sarvadhanāni sarvadhanāni asya saniti sarvadhanī . na evam śakyam . nityam evam sati karmadhārayaḥ syāt . tatra yat uktam kadā cit karmadhārayaḥ iti etat ayuktam . evam tarhi bhavati vai kim cit ācāryāḥ kāryavat buddhim kṛtvā paṭhanti kāryāḥ śabdāḥ iti . tadvat idam paṭhitam samānādhikaraṇasamādāt bahuvrīhiḥ kartavyaḥ kadā cit karmadhārayaḥ sarvadhanādyarthaḥ iti . yad ucyate samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena iti na eṣaḥ yuktaḥ vipratiṣedhaḥ . antaraṅgaḥ karmadhārayaḥ . kā antaraṅgatā . svapadārthe karmadhārayaḥ anyapadārthe bahuvrīhiḥ . astu . vibhāṣā karmadhārayaḥ . yadā na karmadhārayaḥ tadā bahuvrīhiḥ bhaviṣyati . evam api yadi atra kadā cit karmadhārayaḥ bhavati karmadhārayaprakṛtibhiḥ matvarthīyaiḥ abhidhānam prāpnoti . sarvaḥ ca ayam evamarthaḥ yatnaḥ karmadhārayaprakṛtibhiḥ matvarthīyaiḥ abhidhānam mā bhūt iti . evam tarhi na idam tasya yogasya udāharaṇam vipratiṣedhe param iti . kim tarhi . iṣṭiḥ iyam paṭhitā . samānādhikaraṇasamāsāt bahuvrīhiḥ iṣṭaḥ kadā cit karmadhārayaḥ sarvadhanādyarthaḥ iti . yadi iṣṭiḥ paṭhitā na arthaḥ anena . iha hi sarve manuṣyāḥ alpena yatnena mahataḥ arthān ākāṅkṣanti . ekena māṣeṇa śatasahasram . ekena kuddālakena khārīsahasram . tatra karmadhārayaprakṛtibhiḥ matvarthīyaiḥ abhidhānam astu bahuvrīhiṇā iti bahuvrīhiṇā bhaviṣyati laghutvāt . katham sarvadhanī sarvabījī sarvakeśī naṭaḥ iti . iniprakaraṇe sarvādeḥ inim vakṣyāmi . tat ca avaśyam vaktavyam ṭhanaḥ bādhanārtham . katham gaurakharavat vanam gauramṛgavat vanam kṛṣṇasarpavān valmīkaḥ lohitaśālimān grāmaḥ . asti atra viśeṣaḥ . jātyā atra abhisambandhaḥ kriyate . kṛṣṇasarpaḥ nāma sarpajātiḥ sā asmin valmīke asti . yadā hi antareṇa jātim tadvatām abhisambandhaḥ kriyate kṛṣṇasarpaḥ valmīkaḥ iti evam tadā bhaviṣyati . pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ bhavati vipratiṣedhena . kim prayojanam . sūkṣmavastratarādyarthaḥ . ātiśāyikasya avakāśaḥ paṭutaraḥ paṭutamaḥ . bahuvrīheḥ avakāśaḥ citraguḥ śabalaguḥ . iha ubhayam prāpnoti sūkṣmavastrataraḥ tīkṣṇśṛṅgataraḥ . bahuvrīhiḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . virpatiṣedhe param iti ucyate . pūrvaḥ ca bahuvrīhiḥ paraḥ ātiśāyikaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati . evam api ayuktaḥ . antaraṅgaḥ ātiśāiyikaḥ . kā antaraṅgatā . ṅyāpprātipadikāt ātiśāyikaḥ

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०६।१०-११ रो इइ,६५३ चतुष्पात् जातिः इति वक्तव्यम् । इह मा भूत् । कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी ।

KA I,406.10-11 Ro II,653 catuṣpāt jātiḥ iti vaktavyam . iha mā bhūt . kālākṣīgarbhiṇī svastimatī garbhiṇī .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०६।१३-१४ रो इइ,६५४ किमर्थः चकारः । एवकारार्थः । मयूरव्यंसकादयः एव । क्व मा भूत् । परमः मयूरव्यंसकः इति ।

KA I,406.13-14 Ro II,654 kimarthaḥ cakāraḥ . evakārārthaḥ . mayūravyaṃsakādayaḥ eva . kva mā bhūt . paramaḥ mayūravyaṃsakaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०७।२-९ रो इइ,६५५-६५६ इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति । अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः । क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः । समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः । इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति । न वा भवति अर्धपिप्पल्यः इति । भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति । यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् । तदा कस्मात् न भवति । एकाद्खिकरणे इति वर्तते । न तर्हि इदानीम् इदम् भवति : अर्धराशिः इति । भवति । एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।

KA I,407.2-9 Ro II,655-656 iha kasmāt na bhavati : grāmārdhaḥ , nagarārdhaḥ iti . ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ . kva punaḥ ayam napuṃsakaliṅgaḥ kva puṃliṅgaḥ . samapravibhāge napuṃsakaliṅgaḥ , avayavavācī puṃliṅgaḥ . iha kasmāt na bhavati : ardham pippalīnām iti . na vā bhavati ardhapippalyaḥ iti . bhavati yadā khaṇḍasamuccayaḥ : ardhapippalī ca ardhapippalī ca ardhapippalī ca ardhapippalyaḥ iti . yada tu etat vākyam bhavati ardham pippalīnām iti tadā na bhavitavyam . tadā kasmāt na bhavati . ekādkhikaraṇe iti vartate . na tarhi idānīm idam bhavati : ardharāśiḥ iti . bhavati . ekam etat adhikaraṇam yaḥ asau rāśiḥ nāma .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०७।११-४०८।२० रो इइ,६५७-६६० अन्यतरस्याङ्ग्रहणम् किमर्थम् । अन्यतरस्याम् समासः यथा स्यात् । समासेन मुक्ते वाक्यम् अपि यथा स्यात् । द्वितीयम् भिक्षायाः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् अपि भविष्यति । इदम् तर्हि प्रयोजनम् । एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् । भिक्षाद्वितीयम् इति । एतत् अपि न अस्ति प्रयोजनम् । अयम् अपि विभाषा षष्ठीसमासः अपि । तौ उभौ वचनात् भविष्यतः । अतः उत्तरम् पठति । द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य । द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् । किम् ज्ञाप्यते । एतत् ज्ञापयति आचार्यः । अवयवविधौ सामान्यविधिः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । भिनत्ति छिनत्ति । श्नमि कृते शप् न भवति । न एतत् अस्ति प्रयोजनम् । शबादेशाः श्यनादयः करिष्यन्ते । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् ।प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । दिक्पूर्वपदात् ङीप् । प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा । ङीप मुक्ते ङीष् न भवति । न एतत् अस्ति प्रयोजनम् । वक्ष्यति एतत् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति । इदम् तर्हि प्रयोजनम् । अर्धपिप्पली अर्धकोशातकी । एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति । उन्मत्तगङ्गम् लोहितगङ्गम् । अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति । दाक्षिः प्लाक्षिः । इञा मुक्ते अण् न भवति । यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः । तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति । अस्ति अत्र विशेषः । द्वे हि अत्र विभाषा । दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च । तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः । क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति । किम् कारणम् । पूरणेन इति प्रतिषेधात् । न एतत् पूरणान्तम् । अना एतत् पर्यवपन्नम् । एतत् अपि पूरणान्तम् एव । कथ। पूरणम् नाम अर्थः तम् आह तीयशब्दः । अतः पूरणम् । यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव । एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।

KA I,407.11-408.20 Ro II,657-660 anyatarasyāṅgrahaṇam kimartham . anyatarasyām samāsaḥ yathā syāt . samāsena mukte vākyam api yathā syāt . dvitīyam bhikṣāyāḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam api bhaviṣyati . idam tarhi prayojanam . ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt . bhikṣādvitīyam iti . etat api na asti prayojanam . ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api . tau ubhau vacanāt bhaviṣyataḥ . ataḥ uttaram paṭhati . dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam jñāpakam avayavavidhāne sāmānyavidhānābhāvasya . dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam kriyate jñāpārtham . kim jñāpyate . etat jñāpayati ācāryaḥ . avayavavidhau sāmānyavidhiḥ na bhavati iti . kim etasya jñāpane prayojanam . bhinatti chinatti . śnami kṛte śap na bhavati . na etat asti prayojanam . śabādeśāḥ śyanādayaḥ kariṣyante . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam .prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . rudhādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣthīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . evam tarhi jñāpayati ācāryaḥ yatra utsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti . kim etasya jñāpane prayojanam . dikpūrvapadāt ṅīp . prāṅmukhī prāṅmukhā pratyaṅmukhī pratyaṅmukhā . ṅīpa mukte ṅīṣ na bhavati . na etat asti prayojanam . vakṣyati etat . dikpūrvapadāt ṅīṣaḥ anudāttatvam ṅībvidhāne hi anyatra api ṅīṣviṣayāt ṅīpprasaṅgaḥ iti . idam tarhi prayojanam . ardhapippalī ardhakośātakī . ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati . unmattagaṅgam lohitagaṅgam . avyayībhāvena mukte bahuvrīhiḥ na bhavati . dākṣiḥ plākṣiḥ . iñā mukte aṇ na bhavati . yadi etat jñāpyate upagoḥ apatyam aupagavaḥ . taddhitena mukte upagvapatyam iti na sidhyati . asti atra viśeṣaḥ . dve hi atra vibhāṣā . daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām iti samarthānām prathamāt vā iti ca . tatra ekaya vṛttiḥ bhaviṣyati aparaya vṛttiviṣaye vibhāṣapavādaḥ . kriyamāṇe api vai anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti . kim kāraṇam . pūraṇena iti pratiṣedhāt . na etat pūraṇāntam . anā etat paryavapannam . etat api pūraṇāntam eva . katha. pūraṇam nāma arthaḥ tam āha tīyaśabdaḥ . ataḥ pūraṇam . yaḥ asau pūraṇāntāt svārthe bhāge an saḥ api pūraṇam eva . evam tarhi anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०८।२२-४०९।४ रो इइ,६६० किमर्थः चकारः । अनुकरषणार्थः । अन्यतरस्याम् इति एतत् अनुकृष्यते । किम् प्रयोजनम् । अन्यतरस्याम् समासः यथा स्यात् । समासेन मुक्ते वाक्यम् अपि यथ स्यात् । जीविकाम् प्राप्तः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् भविष्यति । इदम् तर्हि प्रयोजनम् । द्वितीयासमासः अपि यथ स्यात् । जीविकाप्राप्तः इति । एतत् अपि न अस्ति प्रयोजनम्। अयम् अपि उच्यते द्वितीयासमासः अपि । तत् उभयम् वचनात् भविष्यति । एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः । किम् तर्हि । अत्वम् अनेन विधीयते । प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति । प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।

KA I,408.22-409.4 Ro II,660 kimarthaḥ cakāraḥ . anukaraṣaṇārthaḥ . anyatarasyām iti etat anukṛṣyate . kim prayojanam . anyatarasyām samāsaḥ yathā syāt . samāsena mukte vākyam api yatha syāt . jīvikām prāptaḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam bhaviṣyati . idam tarhi prayojanam . dvitīyāsamāsaḥ api yatha syāt . jīvikāprāptaḥ iti . etat api na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api . tat ubhayam vacanāt bhaviṣyati . evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ . kim tarhi . atvam anena vidhīyate . prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ iti . prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०९।६-१२ रो इइ,६६१-६६२ किम्प्रधानः अयम् समासः । उत्तरपदार्थप्रधानः । यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् । अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति : राज्ञः पुरुषः राजपुरुषः इति । इह पुनः वाक्ये षष्ठी समासे प्रथमा । केन एतत् एवम् भवति । यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते । अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः । तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति । न तर्हि इदानीम् इदम् भवति : मासजातस्य इति । भवति । बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

KA I,409.6-12 Ro II,661-662 kimpradhānaḥ ayam samāsaḥ . uttarapadārthapradhānaḥ . yadi uttarapadārthapradhānaḥ sadharmaṇā anena anyaiḥ uttarapadārthapradhānaiḥ bhavitavyam . anyeṣu ca uttarapadārthapradhāneṣu yā eva asau antarvartinī vibhaktiḥ tasyāḥ samāse api śravaṇam bhavati : rājñaḥ puruṣaḥ rājapuruṣaḥ iti . iha punaḥ vākye ṣaṣṭhī samāse prathamā . kena etat evam bhavati . yaḥ asau māsajātayoḥ abhisambandhaḥ saḥ samāse nivartate . abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ . tatra prātipadikārthe prathamā iti prathamā bhavati . na tarhi idānīm idam bhavati : māsajātasya iti . bhavati . bāhyam artham apekṣya ṣaṣṭhī .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०९।१३-४१०।६ रो इइ,६६२-६६६ कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः । कालस्य येन समासः सः अपरिमाणी । तस्य अपरिमाणित्वात् अनिर्देशः । अगमकः निर्देशः अनिर्देशः । न हि जातस्य मासः परिमाणम् । कस्य तर्हि । त्रिंशद्रात्रस्य । तत् यथा । द्रोणः बदराणाम् देवदत्तस्य इति । न देवदत्तस्य द्रोणः परिमाणम् । कस्य तर्हि । बदराणाम् । सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन । सिद्धम् एतत् । कथम् । कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति । कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति । येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः । तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च । कया क्रियया । आदित्यगत्या । तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च । यदि एवम् जातस्य मासः परिमाणम् । एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् । इह मा भूत् । मासौ जातस्य मासाः जातस्य इति । द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः । उक्तम् वा । किम् उक्तम् । एकवचने तावत् उक्तम् अनभिधानात् इति । द्विगोः किम् उक्तम् । उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।

KA I,409.13-410.6 Ro II,662-666 kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ . kālasya yena samāsaḥ saḥ aparimāṇī . tasya aparimāṇitvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . na hi jātasya māsaḥ parimāṇam . kasya tarhi . triṃśadrātrasya . tat yathā . droṇaḥ badarāṇām devadattasya iti . na devadattasya droṇaḥ parimāṇam . kasya tarhi . badarāṇām . siddham tu kālaparimāṇam yasya sa kālaḥ tena . siddham etat . katham . kālaparimāṇam yasya sa kālaḥ tena samasyate iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . kam punaḥ kālam matvā bhavān āha kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . yena mūrtīnām upacayāḥ ca apacayāḥ ca lakṣyante tam kālam āhuḥ . tasya eva kayā cit kriyayā yuktasya ahaḥ iti ca bhavati rātriḥ iti ca . kayā kriyayā . ādityagatyā . tayā eva asakṛt āvṛttayā māsaḥ iti bhavati saṃvatsaraḥ iti ca . yadi evam jātasya māsaḥ parimāṇam . ekavacanadvigoḥ ca upasaṅkhyānam . ekavacanāntānām iti vaktavyam . iha mā bhūt . māsau jātasya māsāḥ jātasya iti . dvigoḥ ca iti vaktavyam iha api yathā syāt : dvimāsajātaḥ , trimāsajātaḥ . uktam vā . kim uktam . ekavacane tāvat uktam anabhidhānāt iti . dvigoḥ kim uktam . uttarapadena parimāṇina dvigoḥ samāsavacanam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१०।८-४१२।१२ रो इइ,६६६-६७७ किम्प्रधानः अयम् समासः । उत्तरपदार्थप्रधानः । यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति । अन्यपदार्थप्रधानः तर्हि भविष्यति । यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति । पूर्वपदार्थप्रधानः तर्हि भविष्यति । यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति । न एषः दोषः । पाठेन अव्ययसञ्ज्ञा क्रियते । न च नञ्समासः तत्र पठ्यते । यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते । पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति । यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् । अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः । ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति । अस्ति अत्र विशेषः । राजा विशेषकः प्रयुज्यते । तेन विशिष्टस्य आनयनम् भवति । इह अपि तर्हि नञ् विशेषकः प्रयुज्यते । तेन नञ्विशिष्टस्य आनयनम् भविष्यति । कः पुनः असौ । निवृत्तपदार्थकः । यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी । किम् च अतः । यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति । अथ वाचनिकी तत् वक्तव्यम् : नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति । एवम् तर्हि स्वाभाविकी निवृत्तिः । ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति । नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् । कीलप्रतिकीलवत् । तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति । यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः । न इति एव राजानः ब्रूयुः । एवम् तर्हि स्वाभाविकी निवृत्तिः । ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति । नञ्निमित्ता तु उपलब्धिः । तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति । यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते । एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति । न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति । तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते । एवम् वा एतत् । अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् । तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति । समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते। तद् यथा । पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति । एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च । गुणहीने तावत्। अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति । अब्राह्मणः अयं यः गच्छन् भक्षयति । जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते । सन्देहात् तावत् : गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति । ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति । तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः । दुरुपदेशात् : दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति । स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति । ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति

KA I,410.8-412.12 Ro II,666-677 kimpradhānaḥ ayam samāsaḥ . uttarapadārthapradhānaḥ . yadi uttarapadārthapradhānaḥ abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti . anyapadārthapradhānaḥ tarhi bhaviṣyati . yadi anyapadārthapradhānaḥ , avarṣā hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya api prāpnoti . pūrvapadārthapradhānaḥ tarhi bhaviṣyati . yadi pūrvapadārthapradhānaḥ avyayasañjñā prāpnoti : avyayam hi asya pūrvapadam iti . na eṣaḥ doṣaḥ . pāṭhena avyayasañjñā kriyate . na ca nañsamāsaḥ tatra paṭhyate . yadi api nañsamāsaḥ na paṭhyate nañ tu paṭhyate . pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . na idam vācanikam aliṅgatā asaṅkhyatā va . kim tarhi . svābhāvikam etat . tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat nañaḥ prāk samāsāt liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . guṅavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . atha vā punaḥ astu uttarapadārthapradhānaḥ . nanu ca uktam abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ : atha iha rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam kasmāt na bhavati . asti atra viśeṣaḥ . rājā viśeṣakaḥ prayujyate . tena viśiṣṭasya ānayanam bhavati . iha api tarhi nañ viśeṣakaḥ prayujyate . tena nañviśiṣṭasya ānayanam bhaviṣyati . kaḥ punaḥ asau . nivṛttapadārthakaḥ . yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī nivṛttiḥ āhosvit vācanikī . kim ca ataḥ . yadi svābhāvikī kim nañ prayujyamānaḥ karoti . atha vācanikī tat vaktavyam : nañ prayujyamānaḥ padārtham nivartayati iti . evam tarhi svābhāvikī nivṛttiḥ . nanu ca uktam kim nañ prayujyamānaḥ karoti iti . nañ prayujyamānaḥ padārtham nivartayati katham . kīlapratikīlavat . tat yathā kīlaḥ āhanyamānaḥ pratikīlam nirhanti . yadi etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ hastyaśvam bibhṛyuḥ . na iti eva rājānaḥ brūyuḥ . evam tarhi svābhāvikī nivṛttiḥ . nanu ca uktam kim nañ prayujyamānaḥ karoti iti . nañnimittā tu upalabdhiḥ . tat yathā samandhakāre dravyāṇām samavasthitānām pradīpnimittam darśanam na ca teṣām pradīpaḥ nirvartakaḥ bhavati . yadi punaḥ ayam nivṛttapadārthakaḥ kimartham brāhmaṇaśabdaḥ prayujyate . evam yathā vijñayeta asya padārthaḥ nivartate iti . na iti hi ukte sandehaḥ syāt kasya padārthaḥ nivartate iti . tatra asandehārtham brāhmaṇaśabdaḥ prayujyate . evam vā etat . atha vā sarve ete śabdāḥ guṇasamudāyeṣu vartante brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ iti . tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ . tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇye guṇān kurvanti . samudāyeṣu ca vṛttāḥ śabdāḥ avayaveṣu api vartante. tad yathā . pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . evam ayam samudāye brāhmaṇaśabdaḥ pravṛttaḥ avayaveṣu api vartate jātihīne guṇahīne ca . guṇahīne tāvat. abrāhmaṇaḥ ayam yaḥ tiṣṭhan mūtrayati . abrāhmaṇaḥ ayaṃ yaḥ gacchan bhakṣayati . jātihīne sandehāt durupadeśāt ca brāhmaṇaśabdaḥ vartate . sandehāt tāvat : gauram śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti . tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti . tatra sandehāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ . durupadeśāt : durupadiṣṭam asya bhavati amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti . sa tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam iti . tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१२।१४-१६ रो इइ,६७७ ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् । अकृता इति उच्यमाने इह च प्रसज्येत । ईषत् गार्ग्यः इति । इह च न स्यात् । ईषत्कडारः ।

KA I,412.14-16 Ro II,677 īṣat guṇavacanena .īṣat guṇavacanena iti vaktavyam . akṛtā iti ucyamāne iha ca prasajyeta . īṣat gārgyaḥ iti . iha ca na syāt . īṣatkaḍāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१२।१८-४१३।१३ रो इइ,६७८-६८० कृद्योगा च । कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् । इध्मप्रव्रश्चनः पलाशशातनः । किमर्थम् इदम् उच्यते । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः । का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा । सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा । कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा । तत्स्थैः च गुणैः । तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् । ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः । न तु तद्विशेषणैः । न तु तद्विशेषणैः इति वक्तव्यम् । इह मा भूत् । घृतस्य तीव्रः चन्दनस्य मृदुः इति । किमर्थम् इदम् उच्यते । गुणेन इति प्रतिषेधम् वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः । किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते । न एवम् शक्यम् । इह हि न स्यात् । काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति । एतत् एव तस्मिन् योगे उदाहरणम् । यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः । तस्मात् गुणेन न इति वक्तव्यम् । गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् । तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।

KA I,412.18-413.13 Ro II,678-680 kṛdyogā ca . kṛdyogā ca ṣaṣṭhī samasyate iti vaktavyam . idhmapravraścanaḥ palāśaśātanaḥ . kimartham idam ucyate . pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati . tasya ayam purastāt apakarṣaḥ . kā punaḥ ṣaṣṭhīpratipadavidhānā kā kṛdyogā . sarvā ṣaṣṭhī pratipadavidhānā śeṣalakṣaṇām varjayitvā . kartṛkarmaṇoḥ kṛti iti yā ṣaṣṭhī sā kṛdyogā . tatsthaiḥ ca guṇaiḥ . tatsthaiḥ ca guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam . brāhmaṇavarṇaḥ candanagandhaḥ paṭahaśabdaḥ nadhīghoṣaḥ . na tu tadviśeṣaṇaiḥ . na tu tadviśeṣaṇaiḥ iti vaktavyam . iha mā bhūt . ghṛtasya tīvraḥ candanasya mṛduḥ iti . kimartham idam ucyate . guṇena iti pratiṣedham vakṣyati . tasya ayam purastāt apakarṣaḥ . kim kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena iti ucyate . na evam śakyam . iha hi na syāt . kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . etat eva tasmin yoge udāharaṇam . yat vai brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ . tasmāt guṇena na iti vaktavyam . guṇena na iti ucyamāne tatsthaiḥ ca guṇaiḥ iti vaktavyam . tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१३।१५-१७ रो इइ,६८१ प्रतिपदविधाना च । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् । इह मा भूत् । सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।

KA I,413.15-17 Ro II,681 pratipadavidhānā ca . pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam . iha mā bhūt . sarpiṣaḥ jñānam madhunaḥ jñānam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१३।१९-४१४।२१ रो इइ,६८१-६८४ गुणे किम् उदाहरणम् । ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति । न एतत् अस्ति प्रयोजनम् । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः । इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति । इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति । ननु च उक्तम् । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति । न एषः दोषः । भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति । सति किम् उदाहरणम् । ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः । न एतत् अस्ति । प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति । या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति । तत्र अस्मार्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते ओदनः । इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् । ननु च अत्र अपि प्रतिषिध्यते । वक्ष्यति एतत् द्विषः शतुः वावचनम् इति । अव्यये किम् उदाहरणम् । ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते आसनम् । इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति । एतत् अपि न अस्ति । प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति । या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति । तत्र अस्मार्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते कटः । इदम् तर्हि । पुरा सूर्यस्य उदेतोः आधेयः । पुरा वत्सानाम् अपाकर्तोः । ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा । वक्ष्यति एतत् । अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति । समानाधिकरणे किम् उदाहरणम् । राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य । न एतत् अस्ति । असामर्थ्यात् अत्र न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । इदम् तर्हि । सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति । ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति । कथम् असामर्थ्यम् । समानाधिकरणम् असमर्थवत् भवति इति । अधात्वभिहितम् इति एवम् तत् ।

KA I,413.19-414.21 Ro II,681-684 guṇe kim udāharaṇam . brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . na etat asti prayojanam . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ . idam tarhi kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . idam api udāharaṇam brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . nanu ca uktam . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate dantāḥ iti . na eṣaḥ doṣaḥ . bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam tadā vṛttiḥ prāpnoti . sati kim udāharaṇam . brahmaṇasya pakṣyan brāhmaṇasya pakṣyamāṇaḥ . na etat asti . pratiṣidhyate atra ṣaṣṭhī laprayoge na iti . yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . tatra asmārthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate odanaḥ . idam tarhi caurasya dviṣan vṛṣalasya dviṣan . nanu ca atra api pratiṣidhyate . vakṣyati etat dviṣaḥ śatuḥ vāvacanam iti . avyaye kim udāharaṇam . brāhmaṇasya uccaiḥ vṛṣalasya nīcaiḥ iti . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate āsanam . idan tarhi brāhmaṇasya kṛṭvā vṛṣalasya kṛtvā iti . etat api na asti . pratiṣidhyate tatra ṣaṣṭhī avyayaprayoge na iti . yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . tatra asmārthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate kaṭaḥ . idam tarhi . purā sūryasya udetoḥ ādheyaḥ . purā vatsānām apākartoḥ . nanu ca atra api pratiṣidhyate avyayam iti kṛtvā . vakṣyati etat . avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ iti . samānādhikaraṇe kim udāharaṇam . rājñaḥ pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya . na etat asti . asāmarthyāt atra na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . idam tarhi . sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti . nanu ca atra api asāmarthyāt eva na bhaviṣyati . katham asāmarthyam . samānādhikaraṇam asamarthavat bhavati iti . adhātvabhihitam iti evam tat .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१४।२३-४१५।१९ रो इइ,६८४-६८६ कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति । कुतः सन्देहः । उभयम् प्रकृतम् । तत्र अन्यतरत् शक्यम् विशेषयितुम् । कः च अत्र विशेषः । कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम् । कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः । इध्मप्रव्रश्चनः पलाशशातनः । तृककाभ्यम् च अनर्थकः प्रतिषेधः । तृककाभ्यम् च अनर्थकः प्रतिषेधः । अपाम् स्रष्टा । कर्मणि इति एव सिद्धम् । अस्तु तर्हि कर्मणि यः क्तः इति । किम् उदाहरणम् । ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति । क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः । क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । समासः कस्मात् न भवति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । द्रव्यम् अत्र अपेक्ष्यते ओदनः । प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् । ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति । पूजायाम् च प्रतिषेधानर्थक्यम् । पूजायाम् च प्रतिषेधः अनर्थः । राज्ञाम् पूजितः । कर्मणि इति एव सिद्धम् । तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः । तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः इत्यर्थे अयम् चः पठितः । कमणि च । कर्मणि इति एवम् या षष्ठी इति ।

KA I,414.23-415.19 Ro II,684-686 katham idam vijñāyate karmaṇi yā ṣaṣṭhī sā na samasyate iti āhosvit karmaṇi yaḥ ktaḥ iti . kutaḥ sandehaḥ . ubhayam prakṛtam . tatra anyatarat śakyam viśeṣayitum . kaḥ ca atra viśeṣaḥ . karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsavacanam . karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsaḥ vaktavyaḥ . idhmapravraścanaḥ palāśaśātanaḥ . tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ . tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ . apām sraṣṭā . karmaṇi iti eva siddham . astu tarhi karmaṇi yaḥ ktaḥ iti . kim udāharaṇam . brāhmaṇasya bhuktam vṛṣalasya pītam iti . ktanirdeśe asamarthatvāt apratiṣedhaḥ . ktanirdeśe asamarthatvāt apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . samāsaḥ kasmāt na bhavati . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . dravyam atra apekṣyate odanaḥ . pratiṣedhyam iti cet kartari api pratiṣedhaḥ .atha evam sati pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ syāt . brāhmaṇasya gataḥ brāhmaṇasya yātaḥ iti . pūjāyām ca pratiṣedhānarthakyam . pūjāyām ca pratiṣedhaḥ anarthaḥ . rājñām pūjitaḥ . karmaṇi iti eva siddham . tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ . tasmāt ubhayaprāptau karmaṇi iti evam yā ṣaṣṭhī tasyāḥ pratiṣedhaḥ vaktavyaḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ ityarthe ayam caḥ paṭhitaḥ . kamaṇi ca . karmaṇi iti evam yā ṣaṣṭhī iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१५।२१-२२ रो इइ,६८६ किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः । विधिः इति आह । कुतः एतत् । विधिः हि विभाषा नित्यः प्रतिषेधः ।

KA I,415.21-22 Ro II,686 kim iha nityagrahaṇena abhisambadhyate vidhiḥ āhosvit pratiṣedhaḥ . vidhiḥ iti āha . kutaḥ etat . vidhiḥ hi vibhāṣā nityaḥ pratiṣedhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१६।२-४१७।६ रो इइ,६८६-६९० प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः । वृक्षम् प्रति विद्योतते विद्युत् । साधुः देवदत्तः मातरम् प्रति । व्यवेतप्रतिषेधः च । व्यवेतानाम् च प्रतिषेधः वक्तव्यः । अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः । सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् । सिद्धम् एतत् । कथम् । क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् । कु । कुब्राह्मणः कुवृषलः । आङ् । आकडारः आपिङ्गलः । सु । सुब्राह्मणः सुवृषलः । अत् । अतिब्राह्मणः अतिवृषलः । दुर् । दुर्ब्राह्मणः । गति । प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् । प्रादयः क्तार्थे । प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । एतत् एव च सौनागैः विस्तरतरकेण पठितम् । स्वती पूजायाम् । स्वतीपूजायाम् इति वक्तव्यम् । सुराजा अतिराजा । दुः निन्दायाम् । दुः निन्दायाम् इति वक्तव्यम् । दुष्कुलम् दुर्गवः । आङ् ईषदर्थे । आङ् ईषदर्थे इति वक्तव्यम् । आकडारः आपिङ्गलः । कुः पापार्थे । कुः पापार्थेइति वक्तव्यम् । कुब्राह्मणः कुवृषलः । प्रादयः गताद्यर्थे प्रथमया । प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् । प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् । अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया । अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् । अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या । पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् । परिग्लानः अध्ययनाय पर्यधयनः । निरादयः क्रान्ताद्यर्थे पञ्चम्या । निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः । अव्ययम् प्रवृद्धादिभिः । अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् । पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् । इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च । वाससीइव कन्येइव । उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् । अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।

KA I,416.2-417.6 Ro II,686-690 prādiprasaṅge karmapravacanīyapratiṣedhaḥ . prādiprasaṅge karmapravacanīyānām pratiṣedhaḥ vaktavyaḥ . vṛkṣam prati vidyotate vidyut . sādhuḥ devadattaḥ mātaram prati . vyavetapratiṣedhaḥ ca . vyavetānām ca pratiṣedhaḥ vaktavyaḥ . a mandraiḥ indra haribhiḥ yahi mayuraromabhiḥ . siddham tu kvāṅsvatidurgativacanāt . siddham etat . katham . kvāṅsvatidurgatayaḥ samasyante iti vaktavyam . ku . kubrāhmaṇaḥ kuvṛṣalaḥ . āṅ . ākaḍāraḥ āpiṅgalaḥ . su . subrāhmaṇaḥ suvṛṣalaḥ . at . atibrāhmaṇaḥ ativṛṣalaḥ . dur . durbrāhmaṇaḥ . gati . prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam . prādayaḥ ktārthe . prādayaḥ ktārthe samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam . svatī pūjāyām . svatīpūjāyām iti vaktavyam . surājā atirājā . duḥ nindāyām . duḥ nindāyām iti vaktavyam . duṣkulam durgavaḥ . āṅ īṣadarthe . āṅ īṣadarthe iti vaktavyam . ākaḍāraḥ āpiṅgalaḥ . kuḥ pāpārthe . kuḥ pāpārtheiti vaktavyam . kubrāhmaṇaḥ kuvṛṣalaḥ . prādayaḥ gatādyarthe prathamayā . prādayaḥ gatādyarthe prathamayā samasyante iti vaktavyam . pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . atyādayaḥ krāntādyarthe dvitīyayā . atyādayaḥ krāntādyarthe dvitīyayā samasyante iti vaktavyam . atikrāntaḥ khaṭvām atikhaṭvaḥ atimālaḥ . avādayaḥ kruṣṭādyarthe tṛtīyayā . avādayaḥ kruṣṭādyarthe tṛtīyayā samasyante iti vaktavyam . avakruṣṭaḥ kokilayā avakokilaḥ vasantaḥ . paryādayaḥ glānādyarthe caturthyā . paryādayaḥ glānādyarthe caturthyā samasyante iti vaktavyam . pariglānaḥ adhyayanāya paryadhayanaḥ . nirādayaḥ krāntādyarthe pañcamyā . nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam . niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ nirvārāṇasiḥ . avyayam pravṛddhādibhiḥ . avyayam pravṛddhādibhiḥ samasyate iti vaktavyam . punaḥprvavṛddham barhiḥ bhavati punarṇavam punaḥsukham . ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca . vāsasīiva kanyeiva . udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam . anuvyacalat anuprāviśat yat pariyanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१७।८-४१८।१३ रो इइ,६९०-६९६ अतिङ् इति किमर्थम् । कारकः व्रजति । हारकः व्रजति । अतिङ् इति शक्यम् अकर्तुम् । कस्मात् न भवति । कारकः व्रजति । हारकः व्रजति इति । सुप् सुपा इति वर्तते । अतः उत्तरम् पठति । उपपदम् अतिङ् इति तदर्थप्रतिषेधः । उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः । कस्य । तिङर्थस्य । कः पुनः तिङर्थः । क्रिया । क्रियाप्रतिषेधः वा । अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति । अथ अक्रियया इति किम् प्रत्युदाह्रियते । कारकः गतः हारकः गतः । न एतत् क्रियावाचि । किम् तर्हि। द्रव्यवाचि । इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या । एतत् अपि द्रव्य्वाचि । कथम् । कृदभिहितः भावः द्रव्यवत् भवति इति । एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति । किम् एतस्य ज्ञापने प्रयोजनम् । गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति । यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति । समर्थेन । यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति । पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति । न एतत् अस्ति । पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण । साधनम् हि क्रियाम् निर्वर्तयति । ताम् उपसर्गः विशिनष्टि । अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् । षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन । षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन । षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः । उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः । इह उभयम् प्राप्नोति । कुम्भकारः नगरकारः । उपपदसमासः भवति विप्रतिषेधेन । न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति । कथम् । गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् । अथ वा विभाषा षष्ठीसमासः । यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति । अनेन एव यथा स्यात् तेन मा भूत् इति । कः च अत्र विशेषः तेन वा स्यात् अनेन वा । उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा । ननु च नित्यम् यः समासः सः नित्यसमासः । यस्य विग्रहः न अस्ति । न इति आह । नित्याधिकारे यः समासः सः नित्यसमासः । न एवम् शक्यम् । अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत । तस्मात् नित्यः समासः नित्यसमासः । यस्य विग्रहः न अस्ति ।

KA I,417.8-418.13 Ro II,690-696 atiṅ iti kimartham . kārakaḥ vrajati . hārakaḥ vrajati . atiṅ iti śakyam akartum . kasmāt na bhavati . kārakaḥ vrajati . hārakaḥ vrajati iti . sup supā iti vartate . ataḥ uttaram paṭhati . upapadam atiṅ iti tadarthapratiṣedhaḥ . upapadam atiṅ iti tadarthasya ayam pratiṣedhaḥ vaktavyaḥ . kasya . tiṅarthasya . kaḥ punaḥ tiṅarthaḥ . kriyā . kriyāpratiṣedhaḥ vā . atha vā vyaktam eva idam paṭhitavyam upapadam akriyayā iti . atha akriyayā iti kim pratyudāhriyate . kārakaḥ gataḥ hārakaḥ gataḥ . na etat kriyāvāci . kim tarhi. dravyavāci . idam tarhi kārakasya gatiḥ kārakasya vrajyā . etat api dravyvāci . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . evam tarhi siddhe sati yat atiṅ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ anayoḥ yogayoḥ nivṛttam sup supā iti . kim etasya jñāpane prayojanam . gatikārakopapadānām kṛdbhiḥ samāsaḥ bhavati iti eṣā paribhāṣā na kartavyā bhavati . yadi etat jñāpyate kena idānīm samāsaḥ bhaviṣyati . samarthena . yadi evam dhātūpasargayoḥ api samāsaḥ prāpnoti . pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . na etat asti . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . sādhanam hi kriyām nirvartayati . tām upasargaḥ viśinaṣṭi . abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena . ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena . ṣaṣṭhīsamāsasya avakāśaḥ rājñaḥ puruṣaḥ rājapuruṣaḥ . upapadasamāsasya avakāśaḥ stamberamaḥ karṇejapaḥ . iha ubhayam prāpnoti . kumbhakāraḥ nagarakāraḥ . upapadasamāsaḥ bhavati vipratiṣedhena . na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ . na vā arthaḥ vipratiṣedhena . kim kāraṇam . na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ bhaviṣyati . katham . gatikārakopadānām kṛdbhiḥ saha samāsavanacam prāk subutpatteḥ iti vacanāt . atha vā vibhāṣā ṣaṣṭhīsamāsaḥ . yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati . anena eva yathā syāt tena mā bhūt iti . kaḥ ca atra viśeṣaḥ tena vā syāt anena vā . upapadasamāsaḥ nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā . nanu ca nityam yaḥ samāsaḥ saḥ nityasamāsaḥ . yasya vigrahaḥ na asti . na iti āha . nityādhikāre yaḥ samāsaḥ saḥ nityasamāsaḥ . na evam śakyam . avyayībhāvasya hi anityasamāsatā prasajyeta . tasmāt nityaḥ samāsaḥ nityasamāsaḥ . yasya vigrahaḥ na asti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१८।१५-२२ रो इइ,६९७ एवकारः किमर्थः । नियमार्थः । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि भविष्यति । यथा एवम् विज्ञायेत : अमा एव अव्ययेन इति । मा एवम् विज्ञायि : अमा अव्ययेन एव इति । अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् । अस्ति इति आह । खशयम् ब्राह्मणकुलम् इति । न एतत् अस्ति प्रयोजनम् । अन्तरङ्गत्वात् अत्र समासः भविष्यति । इदम् तर्हि प्रयोजनम् । अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् । अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति । अग्रे भोजम् अग्रे भुक्त्वा । अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति । सः न वक्तव्यः भवति ।

KA I,418.15-22 Ro II,697 evakāraḥ kimarthaḥ . niyamārthaḥ . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa api evakāram niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi bhaviṣyati . yathā evam vijñāyeta : amā eva avyayena iti . mā evam vijñāyi : amā avyayena eva iti . asti ca idānīm anavyayam amśabdaḥ yadarthaḥ vidhiḥ syāt . asti iti āha . khaśayam brāhmaṇakulam iti . na etat asti prayojanam . antaraṅgatvāt atra samāsaḥ bhaviṣyati . idam tarhi prayojanam . amā eva yat tulyavidhānam upapadam tatra eva yathā syāt . amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti . agre bhojam agre bhuktvā . agrādiṣu aprāptavidheḥ samāsapratiṣedham codayiṣyati . saḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१८।२४-४१९।८ रो इइ,६९८ शेषः इति उच्यते । कः शेषः नाम । येषाम् पदानाम् अनुक्तः समासः सः शेषः । शेषवचनम् पदतः चेत् न अभावात् । शेषवचनम् पदतः चेत् तत् न । किम् कारणम् । अभावात् । न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः । अर्थतः तर्हि शेषग्रहणम् । येषु अर्थेषु अनुक्तः समासः सः शेषः । अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति । कुतः । पदतः । न हि सन्ति ते अर्थाः येषु अनुक्तः समासः । त्रिकतः तर्हि शेषग्रहणम् । यस्य त्रिकस्य अनुक्तः समासः सः शेषः । कस्य च अनुक्तः । प्रथमायाः ।

KA I,418.24-419.8 Ro II,698 śeṣaḥ iti ucyate . kaḥ śeṣaḥ nāma . yeṣām padānām anuktaḥ samāsaḥ saḥ śeṣaḥ . śeṣavacanam padataḥ cet na abhāvāt . śeṣavacanam padataḥ cet tat na . kim kāraṇam . abhāvāt . na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ . arthataḥ tarhi śeṣagrahaṇam . yeṣu artheṣu anuktaḥ samāsaḥ saḥ śeṣaḥ . arthataḥ cet aviśiṣṭam . arthataḥ cet aviśiṣṭam etat bhavati . kutaḥ . padataḥ . na hi santi te arthāḥ yeṣu anuktaḥ samāsaḥ . trikataḥ tarhi śeṣagrahaṇam . yasya trikasya anuktaḥ samāsaḥ saḥ śeṣaḥ . kasya ca anuktaḥ . prathamāyāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२०।२-४२१।१६ रो इइ,६९९-७०४ पदग्रहणम् किमर्थम्। अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् । यथा मे माता तथा मे पिता सुस्नातम् भोः इति । पदग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ अन्यग्रहणम् किमर्थम् । अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् । राजपुरुषः तक्षपुरुषः इति । न एतत् अस्ति प्रयोजनम् । तत्पुरुषः स्वपदार्थे बाधकः भविष्यति । भवेत् एकसञ्ज्ञाधिकारे सिद्धम् । परङ्कार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति । परङ्कार्यत्वे च न दोषः । शेषः इति वर्तते । शेषत्वात् न भविष्यति । शेषवचने उक्तम् । किम् उक्तम् । तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति । अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन । एकसङ्ज्ञाधिकारे च कर्तव्यम् । अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत । अथ अनेकग्रहणम् किमर्थम्। अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् । सर्पिषः अपि स्यात् । मधुनः अपि स्यात् । गोमूत्रस्य अपि स्यात् । न एतत् अस्ति प्रयोजनम् । सुप् सुपा इति वर्तते । इदम् तर्हि प्रयोजनम् । बहूनाम् अपि समासः यथा स्यात् । सुसूक्ष्मजटकेशेन सुनताजिनवाससा । उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति । इह अपि यथा स्यात् । प्लक्षन्यग्रोधखदिरपलाशाः इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति । तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति । ग्रहणेन तत्पुरुषः उच्यते । तेन बहूनाम् न भविष्यति । अतः उत्तरम् पठति । अनेकवचनम् उपसर्जनार्थम् । अनेकग्रहणम् क्रियते उपसर्जनार्थम् । प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् । चित्रगुः शबलगुः इति । न वा एकविभक्तित्वात् । न वा एतत् अपि प्रयोजनम् अस्ति । किम् कारणम् । एकविभक्तित्वात् । एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति । चित्रगुः शबलगुः इति । चित्राः यस्य गावः चित्रगुः तिष्ठति । चित्राः यस्य गावः चित्रगुम् पश्य । चित्राः यस्य गावः चित्रगुणा कृतम् । चित्राः यस्य गावः चित्रगवे देहि । चित्राः यस्य गावः चित्रगोः आनय । चित्राः यस्य गावः चित्रगोः स्वम् । चित्राः यस्य गावः चित्रगौ निधेहि । चित्राः यस्य गावः हे चित्रगो इति । यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति । राजकुमारी तक्षकुमारी । राज्ञः या कुमारी राजकुमारी तिष्ठति । राज्ञः या कुमारी राजकुमारीम् पश्य । राज्ञः या कुमारी राजकुमार्या कृतम् । राज्ञः या कुमारी राजकुमार्यै देहि । राज्ञः या कुमारी राजकुमार्याः आनय । राज्ञः या कुमारी राजकुमार्याः स्वम् । राज्ञः या कुमारी राजकुमार्याम् निधेहि । राज्ञः या कुमारी हे राजकुमारि इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एकग्रहणसामर्थ्यात् । यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् । विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।

KA I,420.2-421.16 Ro II,699-704 padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt . yathā me mātā tathā me pitā susnātam bhoḥ iti . padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha anyagrahaṇam kimartham . anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ syāt . rājapuruṣaḥ takṣapuruṣaḥ iti . na etat asti prayojanam . tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati . bhavet ekasañjñādhikāre siddham . paraṅkāryatve tu na sidhyati . ārambhasāmarthyāt ca tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti . paraṅkāryatve ca na doṣaḥ . śeṣaḥ iti vartate . śeṣatvāt na bhaviṣyati . śeṣavacane uktam . kim uktam . tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti . atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena . ekasaṅjñādhikāre ca kartavyam . akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe bahuvrīhim bādhate evam anyapadārthe api bādheta . atha anekagrahaṇam kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt . sarpiṣaḥ api syāt . madhunaḥ api syāt . gomūtrasya api syāt . na etat asti prayojanam . sup supā iti vartate . idam tarhi prayojanam . bahūnām api samāsaḥ yathā syāt . susūkṣmajaṭakeśena sunatājinavāsasā . uttarārtham ca anekagrahaṇam kartavyam cārthe dvandvaḥ anekam iti . iha api yathā syāt . plakṣanyagrodhakhadirapalāśāḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti . tatpuruṣaḥ api tarhi bahūnām prāpnoti . grahaṇena tatpuruṣaḥ ucyate . tena bahūnām na bhaviṣyati . ataḥ uttaram paṭhati . anekavacanam upasarjanārtham . anekagrahaṇam kriyate upasarjanārtham . prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā syāt . citraguḥ śabalaguḥ iti . na vā ekavibhaktitvāt . na vā etat api prayojanam asti . kim kāraṇam . ekavibhaktitvāt . ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati . citraguḥ śabalaguḥ iti . citrāḥ yasya gāvaḥ citraguḥ tiṣṭhati . citrāḥ yasya gāvaḥ citragum paśya . citrāḥ yasya gāvaḥ citraguṇā kṛtam . citrāḥ yasya gāvaḥ citragave dehi . citrāḥ yasya gāvaḥ citragoḥ ānaya . citrāḥ yasya gāvaḥ citragoḥ svam . citrāḥ yasya gāvaḥ citragau nidhehi . citrāḥ yasya gāvaḥ he citrago iti . yadi tarhi yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati iha api prāpnoti . rājakumārī takṣakumārī . rājñaḥ yā kumārī rājakumārī tiṣṭhati . rājñaḥ yā kumārī rājakumārīm paśya . rājñaḥ yā kumārī rājakumāryā kṛtam . rājñaḥ yā kumārī rājakumāryai dehi . rājñaḥ yā kumārī rājakumāryāḥ ānaya . rājñaḥ yā kumārī rājakumāryāḥ svam . rājñaḥ yā kumārī rājakumāryām nidhehi . rājñaḥ yā kumārī he rājakumāri iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ekagrahaṇasāmarthyāt . yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam anarthakam syāt . vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ, ४२१।१७-४२३।१४ रो इइ,७०४-७१० पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् । पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः । चित्रगुः देवदत्तः इति । किम् कारणम् । अभिहितत्वात् । चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति । न वा अनभिहितत्वात् । न वा एषः दोषः । किम् कारणम् । अनभिहितत्वात् । चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति । सामान्याभिधाने हि विशेषानभिधानम् । सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। भवेत् सिद्धम् यदा सामान्ये वृत्तिः । यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति । चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति । तत् अपि सिद्धम् । कथम् । न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च । यदा वाक्यम् तदा न समासः । यदा समासः तदा न वक्यम् । यदा समासः तदा सामान्ये वृत्तिः । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति । चित्रगु तत् । चित्रगु किम् चित् । चित्रगु सर्वम् इति । सामान्यम् अपि यथा विशेषः तद्वत् । चित्रगु इति उक्ते सन्देहः स्यात् । सर्वम् वा विश्वम् वा इति । तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । अथ वा विभक्त्यर्थः अभिदीयते । एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते । तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः । बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति । अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः । बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति । कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् । सिद्धम् तु यथा गुणवचनेषु । सिद्धम् एतत्। कथम् । यथा गुणवचनेषु । गुणवचनेषु उक्तम् : गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति । तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च । अर्थग्रहणसामर्थ्यात् । इह अनेकम् अन्यपदे इति इयता सिद्धम् । कथम् पुनः पदे नाम वृत्तिः स्यात् । शब्दः हि एषः । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति । यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति । उक्तम् वा । किम् उक्तम् । लिङ्गेषु तावत् । सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति । साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति । प्रथमा तर्हि न प्राप्नोति । समयात् भविष्यति । यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति । कर्मादीनाम् अभावात् । षष्ठी तर्हि प्राप्नोति । शेषलक्षणा षष्ठी । अशेषत्वात् न भविष्यति । एवम् अपि व्यतिकरः । एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने । अर्थतः व्यवस्था भविष्यति । अथ वा सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येअम् अन्या विशेष्यम् । यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । अथ वा वक्ष्यति एतत् । तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति । एवम् अपि षष्ठी प्राप्नोति । किम् कारणम् । व्यभिचरति एव हि

KA I, 421.17-423.14 Ro II,704-710 padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt . padārthasya abhidhāne anuprayogasya anupapattiḥ . citraguḥ devadattaḥ iti . kim kāraṇam . abhihitatvāt . citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti . na vā anabhihitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anabhihitatvāt . citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . katham anabhihitaḥ yāvatā idānīm eva uktam padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt iti . sāmānyābhidhāne hi viśeṣānabhidhānam . sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. bhavet siddham yadā sāmānye vṛttiḥ . yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati . citrā gāvaḥ devadattasya citraguḥ devadattaḥ iti . tat api siddham . katham . na idam ubhayam yugapat bhavati vākyam ca samāsaḥ ca . yadā vākyam tadā na samāsaḥ . yadā samāsaḥ tadā na vakyam . yadā samāsaḥ tadā sāmānye vṛttiḥ . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti . citragu tat . citragu kim cit . citragu sarvam iti . sāmānyam api yathā viśeṣaḥ tadvat . citragu iti ukte sandehaḥ syāt . sarvam vā viśvam vā iti . tatra avaśyam sandehanivṛttyartham viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . atha vā vibhaktyarthaḥ abhidīyate . etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate . tatra hi sarvapaścāt padam vartate asya iti . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyābhyām upacāraḥ anupapannaḥ . bahuyavam bahuyavā bahuyavaḥ bahuyavau bahuhavāḥ iti . aparaḥ āha : vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ vibhaktyarthābhidhāne dravyasya ye liṅgasaṅkhye tābhyām vibhaktyarthasya upacāraḥ anupapannaḥ . bahuyavam bahuyavāḥ bahuyavaḥ bahuyavau bahuhavāḥ iti . katham hi anyasya liṅgasaṅkhyābhyām anyasya upacāraḥ syāt . siddham tu yathā guṇavacaneṣu . siddham etat. katham . yathā guṇavacaneṣu . guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . tat yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca . arthagrahaṇasāmarthyāt . iha anekam anyapade iti iyatā siddham . katham punaḥ pade nāma vṛttiḥ syāt . śabdaḥ hi eṣaḥ . śabde asambhavāt arthe kāryam vijñāsyate . saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti . yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti . uktam vā . kim uktam . liṅgeṣu tāvat . siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti . sāṅkhyeṣu api uktam karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti . prathamā tarhi na prāpnoti . samayāt bhaviṣyati . yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti . karmādīnām abhāvāt . ṣaṣṭhī tarhi prāpnoti . śeṣalakṣaṇā ṣaṣṭhī . aśeṣatvāt na bhaviṣyati . evam api vyatikaraḥ . ekasmin api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu api ekavacanadvivacane . arthataḥ vyavasthā bhaviṣyati . atha vā saṅkhyā nāma iyam parapradhānā . saṅkhyeam anyā viśeṣyam . yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt . atha vā vakṣyati etat . tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti . evam api ṣaṣṭhī prāpnoti . kim kāraṇam . vyabhicarati eva hi

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२३।१६-४२५।१३ रो इइ,७१०-७१४ परिगणनम् कर्तव्यम् । बहुव्रीहिः समानाधिकरणानाम् । समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः । किम् प्रयोजनम् । व्यधिकरणानाम् मा भूत् इति । पञ्चभिः भुक्तम् अस्य इति । अव्ययानाम् च । अव्ययानाम् बहुव्रीहिः वक्तव्यः । उच्चैर्मुखः नीचैर्मुखः । सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च । सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः । समुदायविकारषष्ठ्याः च । समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः । प्रादिभ्यः धातुजस्य वा । प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः । नञः अस्त्यर्थानाम् । नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः । तत् तर्हि बहु वक्तव्यम् । न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः । न वा वक्तव्यम् । असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : पञ्चभिः भुक्तम् अस्य इति । अनभिधानात् । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः । तत् यथा पञ्च भुक्तवन्तः अस्य इति । अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् । तत् कथम् कर्तव्यम् । अर्थनियमे मत्वर्थग्रहणम् । अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् । मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् । इह मा भूत् : कष्टम् श्रितम् अनेन इति । तथा च उत्तरस्य वचनार्थः । एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति । के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति । सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति । अपरः आह : यत् वार्त्तिके इति । कर्मवचनेन अप्रथ्मायाः । कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः । ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली । यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् । प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः । कर्तृवचनेन अपि । कर्तृवचनेन अपि इति वक्तव्यम् । अप्रथमायाः इति किमर्थम् । वृष्टे देवे गतः । अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति । वृष्टे देवे गतम् पश्य इति । बहिरङ्गा अत्र अप्रथमा । सुबधिकारे अस्तिक्षीरादिवचनम् । सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी । तत् तर्हि वक्तव्यम् । न वा अव्ययत्वात् । न वा वक्तव्यम् । किम् कारणम् । अव्ययत्वात् । अव्ययः अयम् अस्तिशब्दः । न एषः अस्तेः लट् । कथम् अव्ययत्वम् । उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा । निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

KA I,423.16-425.13 Ro II,710-714 parigaṇanam kartavyam . bahuvrīhiḥ samānādhikaraṇānām . samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ . kim prayojanam . vyadhikaraṇānām mā bhūt iti . pañcabhiḥ bhuktam asya iti . avyayānām ca . avyayānām bahuvrīhiḥ vaktavyaḥ . uccairmukhaḥ nīcairmukhaḥ . saptamyupamānapūrvapadasya uttarapadalopaḥ ca . saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . kaṇṭhesthaḥ kālaḥ asya kaṇṭhekālaḥ uṣṭramukham iva mukham asya uṣṭramukhaḥ kharamukhaḥ . samudāyavikāraṣaṣṭhyāḥ ca . samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . keśānām samāhāraḥ cūḍā asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ . prādibhyaḥ dhātujasya vā . prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ . nañaḥ astyarthānām . nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ . tat tarhi bahu vaktavyam . na vā anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ . na vā vaktavyam . asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam asya iti . anabhidhānāt . tat ca avaśyam anabhidhānam āśrayitavyam . kriyamāṇe api vai parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ . tat yathā pañca bhuktavantaḥ asya iti . atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam kriyate vartiparigaṇanam api kartavyam . tat katham kartavyam . arthaniyame matvarthagrahaṇam . arthaniyame matvarthagrahaṇam kartavyam . matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam . iha mā bhūt : kaṣṭam śritam anena iti . tathā ca uttarasya vacanārthaḥ . evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati . ke cit tāvat āhuḥ : yat vṛttisūtre iti . saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . aparaḥ āha : yat vārttike iti . karmavacanena aprathmāyāḥ . karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ . ūḍhaḥ rathaḥ anena ūḍharathaḥ anaḍvān upahṛtaḥ paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ uddhṛtaudanā sthālī . yadi karmavacanena iti ucyate kartṛvacanena katham . prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ grāmam āgatātithiḥ grāmaḥ . kartṛvacanena api . kartṛvacanena api iti vaktavyam . aprathamāyāḥ iti kimartham . vṛṣṭe deve gataḥ . aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati . vṛṣṭe deve gatam paśya iti . bahiraṅgā atra aprathamā . subadhikāre astikṣīrādivacanam . subadhikāre astikṣīrādīnām upasaṅkhyānam kartavyam . astikṣīrā brāhmaṇī . tat tarhi vaktavyam . na vā avyayatvāt . na vā vaktavyam . kim kāraṇam . avyayatvāt . avyayaḥ ayam astiśabdaḥ . na eṣaḥ asteḥ laṭ . katham avyayatvam . upasargavibhaktisvarapratirūpakāḥ ca nipātasañjñāḥ bhavanti iti nipātasñjñā . nipātaḥ avyayam iti avyayasañjñā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२५।१४-४२७।५ रो इइ,७१४-७१९ अथ किंसब्रह्मचारी इति कः अयम् समासः । बहुव्रीहिः इति अह । कः अस्य विग्रहः । के सब्रह्मचारिणः अस्य इति । यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते । न हि अन्यत् पृष्टेन अन्यत् आख्यायते । एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति । प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति । किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत । किंसब्रह्मचारी इति च इष्यते । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी किंसब्रह्मचारी इति । भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति । अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति । ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते । न एषः दोषः । अग्नौकरवाणिन्यायेन भविष्यति । तत् यथा । कः चित् कम् चित् आह । अग्नौ करवाणि इति । कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति । अपरः आह : अग्नौ करिष्यते इति । क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति । यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते । नूनम् सः अपि कठ इति । एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् । नूनम् ते अपि कठाः इति । न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् । उपसर्जनम् हे ते भवन्ति । अथ अर्थतृतीयाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । अर्धम् तृतीयम् एषाम् इति । कः समासार्थः । समासार्थः न उपपद्यते । अन्यपदार्थः हि नाम सः भवति । येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः । एवम् तर्हि एवम् विग्रहः करिष्यते । अर्धम् तृतीयम् अनयोः इति । एवम् अपि कः षष्ठ्यर्थः । षष्ठ्यर्थः न उपपद्यते । किम् हि तयोः अर्धम् भवति । अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् समासार्थः न उपपद्यते इति । न एषः दोषः । अवयवेन विग्रहः समुदायः समासार्थः । यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः । ननु च उक्तम् । षष्ठ्यर्थः न उपपद्यते इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः । तत्र एतत् स्यात् । एकस्मात् प्रादुर्भावः इति । एतत् च वार्तम् । तत् यथा । सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति । एवञ्जातीयकम् भ्रातृत्वम् नाम । अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् । इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति इति । न एषः दोषः । अयम् तीयन्तः शब्दः अस्ति एव पूरणम् । अस्ति सहायवाची । तत् यः सहायवाची तस्य इदम् ग्रहणम् । असिद्वितीयः असिसहायः इति गम्यते । एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति । ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति । न एषः दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि । तत् यथा । शुक्लवाससम् आनय । लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति । अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् एकवचनम् प्राप्नोति इति । न एषः दोषः । सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येयम् अनया विशेष्यम् । यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते । न एषः दोषः । समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते। तद् यथा । पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति । एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति । कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम्

KA I,425.14-427.5 Ro II,714-719 atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti aha . kaḥ asya vigrahaḥ . ke sabrahmacāriṇaḥ asya iti . yadi evam kaṭhaḥ iti prativacanam na upapadyate . na hi anyat pṛṣṭena anyat ākhyāyate . evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī iti . prativacanam ca eva na upapadyate svare ca doṣaḥ bhavati . kiṃsabrahmacārī iti evam svaraḥ prasajyeta . kiṃsabrahmacārī iti ca iṣyate . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī kiṃsabrahmacārī iti . bhavet prativacanam upapannam svare tu doṣaḥ bhavati . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī tava kiṃsabrahmacārī tvam iti . atha vā punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya iti . nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate . na eṣaḥ doṣaḥ . agnaukaravāṇinyāyena bhaviṣyati . tat yathā . kaḥ cit kam cit āha . agnau karavāṇi iti . kuru iti kartari anujñāte karma api anujñātam bhavati . aparaḥ āha : agnau kariṣyate iti . kriyatām iti karmaṇi anujñāte kartā api anujñātaḥ bhavati . yathā eva khalu api ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate . nūnam saḥ api kaṭha iti . evam kaṭhaḥ iti ukte sambandhāt etat gantavyam syāt . nūnam te api kaṭhāḥ iti . na khalu api te śakyāḥ samāsena pratinirdeṣṭum . upasarjanam he te bhavanti . atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . ardham tṛtīyam eṣām iti . kaḥ samāsārthaḥ . samāsārthaḥ na upapadyate . anyapadārthaḥ hi nāma saḥ bhavati . yeṣām padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ . evam tarhi evam vigrahaḥ kariṣyate . ardham tṛtīyam anayoḥ iti . evam api kaḥ ṣaṣṭhyarthaḥ . ṣaṣṭhyarthaḥ na upapadyate . kim hi tayoḥ ardham bhavati . astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam samāsārthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . avayavena vigrahaḥ samudāyaḥ samāsārthaḥ . yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ . nanu ca uktam . ṣaṣṭhyarthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ . tatra etat syāt . ekasmāt prādurbhāvaḥ iti . etat ca vārtam . tat yathā . sārthikanam ekapratiśraye uṣitānām prātaḥ utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ bhavati . evañjātīyakam bhrātṛtvam nāma . atra cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām . iha tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti iti . na eṣaḥ doṣaḥ . ayam tīyantaḥ śabdaḥ asti eva pūraṇam . asti sahāyavācī . tat yaḥ sahāyavācī tasya idam grahaṇam . asidvitīyaḥ asisahāyaḥ iti gamyate . evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti . nanu ca uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti . na eṣaḥ doṣaḥ . bhavati bahuvrīhau tadguṇasaṃvijñānam api . tat yathā . śuklavāsasam ānaya . lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti . tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . atha vā punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam ekavacanam prāpnoti iti . na eṣaḥ doṣaḥ . saṅkhyā nāma iyam parapradhānā . saṅkhyeyam anayā viśeṣyam . yadi ca atra ekavacanam syāt saṅkhyeyam aviśeṣitam syāt . iha tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye pravṛttaḥ avayave na upapadyate . na eṣaḥ doṣaḥ . samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api vartante. tad yathā . pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . evam ayam samudāye droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati . kāmam tarhi anena eva hetunā yadā dvau droṇau ardhārḍhakam

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२७।७-४२८।१६ रो इइ,७१९-७२४ द्वित्राः त्रिचतुराः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । द्वौ वा त्रयः वा इति । भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति । तदा अपि सिध्यति । कथम् । के चित् तावत् आहुः : अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति । तत् यथा : कति भवतः पुत्राः । कति भवतः भार्याः इति । अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते । त्रयः वा इति उक्ते द्वौ वा इति गम्यते । सा एषा पञ्चाधिष्ठाना वाक् । अत्र युक्तम् बहुवचनम् । अथ द्विदशाः त्रिदशाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । द्विः दश द्विशशाः इति । सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः । सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः । न हि सुजन्ता सङ्ख्या अस्ति । एवम् तर्हि एवम् विग्रहः करिष्यते । द्वौ दशतौ द्विदशाः इति । एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः । न हि अत्कारान्ता सङ्ख्या अस्ति । अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति । ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति । न वा असुजन्तत्वात् । न वा एषः दोषः । किम् कारणम् । असुजन्तत्वात् । सुजन्ता इति उच्यते । न च अत्र सुजन्तम् पश्यामः । किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते । सुजभावः अहिहितार्थत्वात् समासे । समासे सुचः अभावः । किम् कारणम् । अहिहितार्थत्वात् । अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते । न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः । कथम् । यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः । सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति । अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात् । अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः । किम् कारणम् । सङ्ख्येयवाभिध्यायित्वात् । सङ्ख्येयम् वार्थः च अभिदीयते । तत्र अन्यपदार्थे इति एव सिद्धम् । भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते । विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति । इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते । अथ उपदशाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । दशानाम् समीपे उपदशाः इति । कस्य पुनः सामीप्यम् अर्थः । उपस्य । यदि एवम् न अन्यपदार्थः भवति । तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् । मत्वर्थे वा पूर्वस्य विधानात् । अथ वा मत्वर्थे पूर्वः योगः । अमत्वर्थः अयम् आरम्भः । कबभावार्थम् वा । अथ व कप् मा भूत् इति ।

KA I,427.7-428.16 Ro II,719-724 dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . dvau vā trayaḥ vā iti . bhavet yadā bahūnām ānayanam tadā bahuvacanam upapannam yadā tu khalu dvau ānīyete tadā na sidhyati . tadā api sidhyati . katham . ke cit tāvat āhuḥ : anirjñāte arthe bahuvacanam prayoktavyam iti . tat yathā : kati bhavataḥ putrāḥ . kati bhavataḥ bhāryāḥ iti . aparaḥ āha : dvau vā iti ukte trayaḥ vā iti gamyate . trayaḥ vā iti ukte dvau vā iti gamyate . sā eṣā pañcādhiṣṭhānā vāk . atra yuktam bahuvacanam . atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . dviḥ daśa dviśaśāḥ iti . saṅkhyāsamāse sujantatvāt saṅkhyāprasiddhiḥ . saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ . na hi sujantā saṅkhyā asti . evam tarhi evam vigrahaḥ kariṣyate . dvau daśatau dvidaśāḥ iti . evam api atkārāntatvāt saṅkhyā iti aprasiddhiḥ . na hi atkārāntā saṅkhyā asti . astu tarhi ayam eva vigrahaḥ dviḥ daśa dviśaśāḥ iti . nanu ca uktam saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti . na vā asujantatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . asujantatvāt . sujantā iti ucyate . na ca atra sujantam paśyāmaḥ . kim punaḥ kāraṇam vākye suc dṛśyate samāse tu na dṛśyate . sujabhāvaḥ ahihitārthatvāt samāse . samāse sucaḥ abhāvaḥ . kim kāraṇam . ahihitārthatvāt . abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate . na khalu sujarthe iti ucyate gamyate tu sujarthaḥ . katham . yāvatā saṅkhyeyaḥ yaḥ saṅkhyayā saṅkhyāyate saḥ ca kriyābhyāvṛttyarthaḥ . saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati . aśiṣyaḥ saṅkhyottarapadaḥ saṅkhyeyavābhidhyāyitvāt . aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ . kim kāraṇam . saṅkhyeyavābhidhyāyitvāt . saṅkhyeyam vārthaḥ ca abhidīyate . tatra anyapadārthe iti eva siddham . bhavet siddham adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate . viśatyādayaḥ daśadarthe vā syuḥ parimāṇini vā iti . idam tu na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye eva vartate . atha upadaśāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . daśānām samīpe upadaśāḥ iti . kasya punaḥ sāmīpyam arthaḥ . upasya . yadi evam na anyapadārthaḥ bhavati . tatra prathānirdiṣṭam saṅkhyāgrahaṇam śakyam akartum . matvarthe vā pūrvasya vidhānāt . atha vā matvarthe pūrvaḥ yogaḥ . amatvarthaḥ ayam ārambhaḥ . kababhāvārtham vā . atha va kap mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२९।१८-४३०।६ रो इइ,७२७-७२८ तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् । तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः । किम् कारणम् । क्रियाभिधानात् । क्रिया अभिधीयते । तत्र अन्यपदार्थे इति एव सिद्धम् । न वा एकशेषप्रतिषेधार्थम् । न वा अशिष्यः । किम् कारणम् । एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् । पूर्वदीर्घार्थम् च । पूर्वदीर्घार्थम् च इदम् वक्तव्यम् । केशाकेशि । स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् । अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति । मत्वर्थे वा पूर्वस्य विधानात् । अथ व मत्वर्थे पूर्वः योगः । अमत्वर्थः अयम् आरम्भः । कबभावार्थम् वा । अथ व कप् मा भूत् इति ।

KA I,429.18-430.6 Ro II,727-728 tṛtīyāsaptamyanteṣu ca kriyābhidhānāt . tṛtīyāsaptamyanteṣu ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ . kim kāraṇam . kriyābhidhānāt . kriyā abhidhīyate . tatra anyapadārthe iti eva siddham . na vā ekaśeṣapratiṣedhārtham . na vā aśiṣyaḥ . kim kāraṇam . ekaśeṣapratiṣedhārtham idam vaktavyam . pūrvadīrghārtham ca . pūrvadīrghārtham ca idam vaktavyam . keśākeśi . syāt etat prayojanam yadi niyogataḥ asya anena eva dīrghatvam syāt . atha idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam bhavati . matvarthe vā pūrvasya vidhānāt . atha va matvarthe pūrvaḥ yogaḥ . amatvarthaḥ ayam ārambhaḥ . kababhāvārtham vā . atha va kap mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३०।८-२५ रो इइ,७२९-७३० चार्थे इति उच्यते चः च अव्ययम् । तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति । न एषः दोषः । पाठेन अव्ययसञ्ज्ञा क्रियते । न च समासः तत्र पठ्यते । पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति । यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् । अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । अथ इह कस्मात् न भवति । याज्ञिकः च अयम् वैयाकरणः च । कठः च अयम् बह्वृचः च । औक्थिकः च अयम् मीमांसकः च इति । शेषः इति वर्तते । अशेषत्वात् न भविष्यति । यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति । न एषः दोषः । अन्यत् हि कृतम् अन्यत् अकृतम् ।

KA I,430.8-25 Ro II,729-730 cārthe iti ucyate caḥ ca avyayam . tena samāsasya avyayasañjñā prāpnoti . na eṣaḥ doṣaḥ . pāṭhena avyayasañjñā kriyate . na ca samāsaḥ tatra paṭhyate . pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . na idam vācanikam aliṅgatā asaṅkhyatā va . kim tarhi . svābhāvikam etat . tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat prāk samāsāt cārthasya liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . atha iha kasmāt na bhavati . yājñikaḥ ca ayam vaiyākaraṇaḥ ca . kaṭhaḥ ca ayam bahvṛcaḥ ca . aukthikaḥ ca ayam mīmāṃsakaḥ ca iti . śeṣaḥ iti vartate . aśeṣatvāt na bhaviṣyati . yadi śeṣaḥ iti vartate upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum mā tvā tāptām kṛtākṛte iti etat na sidhyati . na eṣaḥ doṣaḥ . anyat hi kṛtam anyat akṛtam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३१।१-४३४।१४ रो इइ,७३१-७४१ चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः । चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति । अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति । सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् । सिद्धम् एतत् । कथम् । युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् । तत्र पुंवद्भावप्रतिषेधः । तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः । पट्वीमृद्व्यौ । समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति । विप्रतिषिद्धेषु च अनुपपत्तिः । विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः । शीतोष्णे सुखदुःखे जननमरणे । किम् कारणम् । सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् । यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति । इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति । दर्शनीयायाः माता दर्शनीयामाता इति । अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति । यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति । सर्वे एव हि शब्दाः विप्रतिषिद्धाः । इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति । न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति । अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् । एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति । अतः किम् । युगपतधिकरणवचनतायाः अनुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति । विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य । विग्रहे खलु अपि युगपद्वचनता दृश्यते : द्यवा ह क्षमा । द्यवा चित् अस्मै पृथिवी नमेते इति । किम् एतत् । युगपदधिकरणवचनतायाः उपोद्बलकम् । विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे । समुदायात् सिद्धम् । समुदायात् सिद्धम् एतत् । किम् एतत् समुदायात् सिद्धम् इति । द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् । तस्य अयम् परिहारः । समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य । समुदायात् सिद्धम् इति चेत् तत् न । किम् कारणम् । एकार्थत्वात् समुदायस्य । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । न ऐकार्थ्यम् । न अयम् एकार्थः । किम् तर्हि । द्व्यर्थः बह्वर्थः च । प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः । यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः । तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न । किम् कारणम् । बहुत्वाभावात् । न अत्र बहुत्वम् अस्ति । किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति । याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि । यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः । अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न । किम् कारणम् । प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः । कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः । कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् । कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् । तुल्यम् हि कारणम् । यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति । तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति । दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते । दर्शनम् हेतुः इति चेत् तुल्यम् । दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति । प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् । तुल्यम्

KA I,431.1-434.14 Ro II,731-741 cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ . cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam prāpnoti . ahaḥ ahaḥ nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti . siddham tu yugapadadhikaraṇavacane dvandvavacanāt . siddham etat . katham . yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam . tatra puṃvadbhāvapratiṣedhaḥ . tatra etasmin lakṣaṇe puṃvadbhāvasya pratiṣedhaḥ vaktavyaḥ . paṭvīmṛdvyau . samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ prāpnoti . vipratiṣiddheṣu ca anupapattiḥ . vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ . śītoṣṇe sukhaduḥkhe jananamaraṇe . kim kāraṇam . sukhapratighātena hi duḥkham duḥkapratighātena ca sukham . yat tāvat ucyate tatra puṃvadbhāvapratiṣedhaḥ iti . idam tāvat ayam praṣṭavyaḥ : atha iha kasmāt na bhavati . darśanīyāyāḥ mātā darśanīyāmātā iti . atha matam etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati . yad api ucyate vipratiṣiddheṣu ca anupapattiḥ iti . sarve eva hi śabdāḥ vipratiṣiddhāḥ . iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ plakṣārtham sampratyāyayati nyagrodhārtham nivartayati . nyagrodhaśabdaḥ prayujyamānaḥ nyagrodhārtham sampratyāyayati plakṣārtham nivartayati . atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām . evam api śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam prāpnoti . ataḥ kim . yugapatadhikaraṇavacanatāyāḥ anupapattiḥ . plakṣanyagrodhau plakṣanyagrodhāḥ iti . yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : plakṣanyagrodhau plakṣanyagrodhāḥ iti . plakṣaśabdaḥ sārthakaḥ nivṛttaḥ nyagrodhaśabdaḥ upasthitaḥ ekārthaḥ tasya ekārthatvāt ekavacanam eva prāpnoti . vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya . vigrahe khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā . dyavā cit asmai pṛthivī namete iti . kim etat . yugapadadhikaraṇavacanatāyāḥ upodbalakam . vigrahe kila nāma yugapadadhikaraṇavacanatā syāt kim punaḥ samāse . samudāyāt siddham . samudāyāt siddham etat . kim etat samudāyāt siddham iti . dvivacanabahuvacanaprasiddhiḥ iti coditam . tasya ayam parihāraḥ . samudāyāt siddham iti cet na ekārthatvāt samudāyasya . samudāyāt siddham iti cet tat na . kim kāraṇam . ekārthatvāt samudāyasya . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . na aikārthyam . na ayam ekārthaḥ . kim tarhi . dvyarthaḥ bahvarthaḥ ca . plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ . yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ . tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na . kim kāraṇam . bahutvābhāvāt . na atra bahutvam asti . kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti . yābhyām eva atra ekaḥ dvyarthaḥ tābhyām eva aparaḥ api . yadi evam anyavācakena anyasya vacanānupapattiḥ . anyavācakena śabdena anyasya vacanam na upapadyate . anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . anyavācakena anyasya vacanānupapattiḥ iti cet ucyate tat na . kim kāraṇam . plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ . katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ . kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham . kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na tulyakāraṇatvāt siddham . tulyam hi kāraṇam . yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api etat bhavati . tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat bhavati . darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ dṛśyate . darśanam hetuḥ iti cet tulyam . darśanam hetuḥ iti cet tulyam etat bhavati . plakṣe api nyagrodhaśabdaḥ dṛśyatām . tulyam

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३४।१५-४३५।३ रो इइ,७४२-७४३ एकादश द्वादश इति कः अयम् समासः । एकादीनाम् दशादिभिः द्वन्द्वः । एकादीनाम् दशादिभिः द्वन्द्वः समासः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति । एकविंशतिः द्वाविंशतिः । सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् । कथम् । समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति । एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः । यदि समानाधिकरणः स्वरः न सिध्यति । यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् । किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् । इह मा भूत् शतसहस्रम् इति । अस्तु तर्हि द्वन्द्वः । ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति। न एषः दोषः । सर्वः द्वन्द्वः विभाषा एकवत् भवति । यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

KA I,434.15-435.3 Ro II,742-743 ekādaśa dvādaśa iti kaḥ ayam samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ . ekādīnām daśādibhiḥ dvandvaḥ samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam prāpnoti . ekaviṃśatiḥ dvāviṃśatiḥ . siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca . siddham etat . katham . samānādhikaraṇādhikāre vaktavyam adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ bhavati iti . ekādhikā viṃśatiḥ ekaviṃśatiḥ dvyadhikā viṃśatiḥ dvāviṃśatiḥ . yadi samānādhikaraṇaḥ svaraḥ na sidhyati . yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat . kim punaḥ kāraṇam dvandve iti evam tat . iha mā bhūt śatasahasram iti . astu tarhi dvandvaḥ . nanu ca uktam ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ . sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati . yadā tarhi ekavacanam tadā napuṃsakaliṅgam prāpnoti . liṅgam aśiṣyam lokāśrayatvāt liṅgasya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३५।५-१६ रो इइ,७४३-७४४ किमर्थम् इदम् उच्यते । उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् । उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति । न वा अनिष्टदर्शनात् । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । अनिष्टदर्शनात् । न हि किम् चित् अनिष्टम् दृश्यते । न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते । यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् । अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति । राज्ञः पुरुषस्य राजपुरुषस्य इति । षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः । षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति । एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।

KA I,435.5-16 Ro II,743-744 kimartham idam ucyate . upasarjanasya pūrvavacanam paraprayoganivṛttyartham . upasarjanasya pūrvavacanam kriyate paraprayogaḥ mā bhūt iti . na vā aniṣṭadarśanāt . na vā etat prayojanam asti . kim kāraṇam . aniṣṭadarśanāt . na hi kim cit aniṣṭam dṛśyate . na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ iti prayuṅkte . yadi ca aniṣṭam drśyete tataḥ yatnārtham syāt . atha yatra dve ṣaṣṭhyante bhavataḥ kasmāt tatra pradhānasya pūrvanipātaḥ na bhavati . rājñaḥ puruṣasya rājapuruṣasya iti . ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ . ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya pūrvanipātaḥ na bhaviṣyati . evam na ca idam akṛtam bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३५।१८-४३६।१४ रो इइ,७४४-७४६ किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् । किम् च अतः । यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः । तत्र कः दोषः । शङ्खदुन्दुभिवीङानाम् इति न सिध्यति । दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति । अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि। प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति । यथा इच्छसि तथा अस्तु । अस्तु तावत् तन्त्रम् । ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति । तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति । दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति । न एषः दोषः । यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि । अथ वा पुनः अस्तु अतन्त्रम् । ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि। प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति । अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः । अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते । शङ्खः च तूणवः च शण्खतूणवौ । मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः । रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति । अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण । अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु । अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु । पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।

KA I,435.18-436.14 Ro II,744-746 kim ayam tantram taranirdeśaḥ āhosvit atantram . kim ca ataḥ . yadi tantram dvayoḥ niyamaḥ bahuṣu aniyamaḥ . tatra kaḥ doṣaḥ . śaṅkhadundubhivīṅānām iti na sidhyati . dundubhiśabdasya api pūrvnipātaḥ prāpnoti . atha atantram mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati . yathā icchasi tathā astu . astu tāvat tantram . nanu ca uktam dvayoḥ niyamaḥ bahuṣu aniyamaḥ iti . tatra śaṅkhadundubhivīṅānām iti na sidhyati . dundubhiśabdasya api pūrvnipātaḥ prāpnoti iti . na eṣaḥ doṣaḥ . yat etat alpāctaram iti tat alpāc iti vakṣyāmi . atha vā punaḥ astu atantram . nanu ca uktam mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti . atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ . atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ kariṣyate . śaṅkhaḥ ca tūṇavaḥ ca śaṇkhatūṇavau . mṛdaṅgaḥ ca śaṇkhatūṇavau ca mṛdaṅgaśaṅkhatūṇavāḥ . rāmaḥ ca keśavaḥ ca rāmakeśavau dhanapatiḥ ca rāmakeśavau ca dhanapatirāmakeśavāḥ teṣām dhanapatirāmakeśavānām iti . atha yatra bahūnām pūrvanipātaprasaṅgaḥ kim tatra ekasya niyamaḥ bhavati ahosvit aviśeṣeṇa . anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu . anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu . paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३६।१५-४३७।७ रो इइ,७४६-७४७ ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् । ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः । शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः । अभ्यर्हितम् । अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् । मातापितरौ श्रद्धामेधे । लघ्वक्षरम् । लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् । कुशकाशम् शरशीर्यम् । अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् । लघ्वक्षरात् अपि इति । श्रद्धातपसी दीक्षातपसी । वर्णानाम् आनुपूर्व्येण । वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् । ब्राह्मणक्षत्रियविट्शूद्राः । भ्रातुः च ज्यायसः । भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् । युधिष्ठिरार्जुनौ । सङ्ख्यायाः अल्पीयसः । सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः । एकादश द्वादश । धर्मादिषु उभयम् । धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् । धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी

KA I,436.15-437.7 Ro II,746-747 ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām . ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām pūrvanipātaḥ vaktavyaḥ . śiśiravasantau udagayanasthau kṛttikārohiṇyaḥ . abhyarhitam . abhyarhitam pūrvam nipatati iti vaktavyam . mātāpitarau śraddhāmedhe . laghvakṣaram . laghvakṣaram pūrvam nipatati iti vaktavyam . kuśakāśam śaraśīryam . aparaḥ āha : sarvatra eva abhyarhitam pūrvam nipatati iti vaktavyam . laghvakṣarāt api iti . śraddhātapasī dīkṣātapasī . varṇānām ānupūrvyeṇa . varṇānām ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam . brāhmaṇakṣatriyaviṭśūdrāḥ . bhrātuḥ ca jyāyasaḥ . bhrātuḥ ca jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam . yudhiṣṭhirārjunau . saṅkhyāyāḥ alpīyasaḥ . saṅkhyāyāḥ alpīyasaḥ pūrvanipātaḥ vaktavyaḥ . ekādaśa dvādaśa . dharmādiṣu ubhayam . dharmādiṣu ubhayam pūrvam nipatati iti vaktavyam . dharmārthau arthadharmau kāmārthau arthakāmau guṇavṛddhī vṛddhiguṇau ādyantau antādī

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३७।९-१७ रो इइ,७४८ बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् । बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् । विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः । अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात् सङ्ख्यायाः : द्व्यन्याय त्र्यन्याय । वा प्रियस्य । वा प्रियस्य पूर्वनिपातः वक्तव्यः । प्रियगुडः गुडप्रियः । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् । गडुकण्ठः गडुशिराः ।

KA I,437.9-17 Ro II,748 bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam . bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam kartavyam . viśvadevaḥ viśvayasāḥ dviputraḥ dvibhāryaḥ . atha yatra saṅkhyāsarvanāmnoḥ eva bahurvīhiḥ kasya tatra pūrvanipātena bhavitavyam . paratvāt saṅkhyāyāḥ : dvyanyāya tryanyāya . vā priyasya . vā priyasya pūrvanipātaḥ vaktavyaḥ . priyaguḍaḥ guḍapriyaḥ . saptamyāḥ pūrvanipāte gaḍvādibhyaḥ paravacanam . saptamyāḥ pūrvanipāte gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam . gaḍukaṇṭhaḥ gaḍuśirāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३७।१९-४३८।२० रो इइ,७४८-७४९ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् । निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् । शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता । न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य । न वा वक्तव्यम् । किम् कारणम् । उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य । यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति । प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः । प्रतिषेधे तु पूर्वनिपातः प्राप्नोति । अकृतमितप्रतिपन्नाः इति । तस्मात् राजदन्तादिषु पाठः कर्तव्यः । न कर्तव्यः । अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति । प्रहरणार्थेभ्यः च । प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् । अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः । द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन । द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन । द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ । अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ । इह उभयम् प्राप्नोति इन्द्राग्नी । अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन । उभाभ्याम् अल्पाच्तरम् । उभाभ्याम् अल्पाच्तरम् इति एतत् भवति । द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ । अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ । इह उभयम् प्राप्नोति वागग्नी । अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन । अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ । अल्पाच्तरम् इति अस्य अवकाशः सः एव । इह उभयम् प्राप्नोति वागिन्द्रौ । अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।

KA I,437.19-438.20 Ro II,748-749 niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam . niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam . śārṅgajagdhī palāṇḍubhakṣitī māsajātā saṃvatsarajātā sukhajātā duḥkhajātā . na vā uttarapadasya antodāttavacanam jñāpakam parabhāvasya . na vā vaktavyam . kim kāraṇam . uttarapadasya antodāttavacanam jñāpakam parabhāvasya . yat ayam jātikālasukhādibhyaḥ parasyāḥ niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat jñāpayati ācāryaḥ parā atra niṣṭhā bhavati iti . pratiṣedhe tu pūrvanipātaprasaṅgaḥ tasmāt rājadantādiṣu pāṭhaḥ . pratiṣedhe tu pūrvanipātaḥ prāpnoti . akṛtamitapratipannāḥ iti . tasmāt rājadantādiṣu pāṭhaḥ kartavyaḥ . na kartavyaḥ . atra api pratiṣedhavacanam jñāpakam parā niṣṭhā bhavati iti . praharaṇārthebhyaḥ ca . praharaṇārthebhyaḥ ca pare niṣṭhāsaptamyau bhavataḥ iti vaktavyam . asyudyataḥ musalodyataḥ asipāṇiḥ daṇḍapāṇiḥ . dvandve ghi ajādyantam vipratiṣedhena . dvandve ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena . dvandve ghi iti asya avakāśaḥ paṭuguptau . ajādyadantam iti asya avakāśaḥ uṣṭrakharau . iha ubhayam prāpnoti indrāgnī . ajādyadantam iti etat bhavati vipratiṣedhena . ubhābhyām alpāctaram . ubhābhyām alpāctaram iti etat bhavati . dvandve ghi iti asya avakāśaḥ paṭuguptau . alpāctaram iti asya avakāśaḥ vāgdṛṣadau . iha ubhayam prāpnoti vāgagnī . alpāctaram iti etat bhavati vipratiṣedhena . ajādyadantam iti asya avakāśaḥ uṣṭrakharau . alpāctaram iti asya avakāśaḥ saḥ eva . iha ubhayam prāpnoti vāgindrau . alpāctaram iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३८।२२-२४ रो इइ,७५० कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् । गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते ।

KA I,438.22-24 Ro II,750 kaḍārādayaḥ iti vaktavyam iha api yathā syāt . gaḍulaśāṇḍilyaḥ śāṇḍilyagaḍulaḥ khaṇḍavātsyaḥ vatsyakaṇḍaḥ . tat tarhi vaktavyam . na vaktavyam . bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३९।२-४४१।१८ रो इइ,७५१-७६२ अनभिहिते इति उच्यते । किम् इदम् अनभिहितम् नाम । उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् । यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति । अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते । अनभिहितवचनम् अनर्थकम् । किम् कारणम् । अन्यत्र अपि विहितस्य अभावात् अभिहिते । अन्यत्र अपि अभिहिते विहितम् न भवति । क्व अन्यत्र । चित्रगुः शबलगुः । बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति । गर्गाः वत्साः विदाः उर्वाः । यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति । सप्तपर्णः अष्टापदमिति । समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति । यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति । अस्तिना सामानाधिकरण्ये मतुप् विधीयते । न च अत्र अस्तिना सामानाधिकरण्यम् । यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति । समर्थानाम् प्रथमात् वा इति वर्तते । न च एतत् समर्थानाम् प्रथमम् । किं तर्हि । द्वितीयम् अर्थमुपसंक्रान्तम् । यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति । यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते । किम् पुनः तत् । पर्वणि पर्वणि सप्त पर्णानि अस्य । पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति । श्नम्बहुजकक्षु तर्हि । श्नम् : भिनत्ति छिनत्ति । श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति । बहुच् : बहुकृतम् , बहुभिन्नम् इति । बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति । अकच् : उच्चकैः , नीचकैः इति । अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति । ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति । श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः । समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति । नानादेशत्वात् न प्राप्नोति । किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते । इह अकर्तव्यः क्रियते । एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् । अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् । अनभिहितः तु विभक्त्यर्थः । कः पुनः विभक्त्यर्थः । एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति । तस्मात् अनभिहितवचनम् । तस्मात् अनभिहिताधिकारः क्रियते । अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति । अभिहिते प्रथमाभावः । यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति । क्व । वृक्षः प्लक्षः ।किं कारणम् । प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति । न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा । सा वचनात् भविष्यति । तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति । प्रथमा ते न प्राप्नोति । क्व । पचति ओदनम् देवदत्तः इति । किम् कारणम् । तिङा उक्ताः एकत्वादयः इति । अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च । न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा । सा वचनात् भविष्यति । ननु च इह अनभिधानम् वृक्षः प्लक्षः इति । अत्र अपि अभिधानम् अस्ति । कथम् । वक्ष्यति एतत् : अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति । वृक्षः प्लक्षः । अस्ति इति गम्यते । तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति । प्रथमा ते प्राप्नोति । क्व । कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति । कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति । का तर्हि प्राप्नोति । प्रथमा । तत् यथा । कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति । करोतेः उत्पद्यमानेन क्तेन अभिहितम्

KA I,439.2-441.18 Ro II,751-762 anabhihite iti ucyate . kim idam anabhihitam nāma . uktam nirdiṣṭam abhihitam iti anarthāntaram . yāvat brūyāt anukte anirdiṣṭe iti tāvat anabhihite iti . anabhihitavacanam anarthakam anyatra api vihitasya abhāvāt abhihite . anabhihitavacanam anarthakam . kim kāraṇam . anyatra api vihitasya abhāvāt abhihite . anyatra api abhihite vihitam na bhavati . kva anyatra . citraguḥ śabalaguḥ . bahuvrīhiṇā uktatvāt matvarthasya matvarthīyaḥ na bhavati . gargāḥ vatsāḥ vidāḥ urvāḥ . yañañbhyām uktatvāt apatyārthasya nyāyyotpattiḥ na bhavati . saptaparṇaḥ aṣṭāpadamiti . samāsena uktatvāt vīpsāyāḥ dvirvacanam na bhavati . yat tāvat ucyate citraguḥ śabalguḥ bahuvrīhiṇā uktatvāt matvarthasya matvarthīyaḥ na bhavati iti . astinā sāmānādhikaraṇye matup vidhīyate . na ca atra astinā sāmānādhikaraṇyam . yat api ucyate gargāḥ vatsāḥ vidāḥ urvāḥ yañañbhyām uktatvāt apatyārthasya nyāyyotpattiḥ na bhavati iti . samarthānām prathamāt vā iti vartate . na ca etat samarthānām prathamam . kiṃ tarhi . dvitīyam arthamupasaṃkrāntam . yat api ucyate saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ dvirvacanam na bhavati iti . yat atra vīpsāyuktam na adaḥ prayujyate . kim punaḥ tat . parvaṇi parvaṇi sapta parṇāni asya . paṅktau paṅktau aṣṭau padāni iti . śnambahujakakṣu tarhi . śnam : bhinatti chinatti . śnamā uktatvāt kartṛtvasya kartari śap na bhavati . bahuc : bahukṛtam , bahubhinnam iti . bahucā uktatvāt īṣadasmāpteḥ kalpabādayaḥ na bhavanti iti . akac : uccakaiḥ , nīcakaiḥ iti . akacā uktatvāt kutsādīnām kādayaḥ na bhavanti . nanu ca śnambahujakacaḥ apavādāḥ te apavādatvāt bādhakāḥ bhaviṣyanti . śnambahujakakṣu nānādeśatvāt utsargāpratiṣedhaḥ . samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati . nānādeśatvāt na prāpnoti . kim punaḥ iha akartavyaḥ anabhihitādhikāraḥ kriyate āhosvit anyatra kartavyaḥ na kriyate . iha akartavyaḥ kriyate . eṣaḥ eva hi nyāyyaḥ pakṣaḥ yat abhihite vihitam na syāt . anabhitaḥ tu vibhaktyarthaḥ tasmāt anabhihitavacanam . anabhihitaḥ tu vibhaktyarthaḥ . kaḥ punaḥ vibhaktyarthaḥ . ekatvādayaḥ vibhaktyarthāḥ teṣu anabhihiteṣu karmādayaḥ bhihitāḥ vibhaktīnām utpattau nimittatvāya mā bhūvan iti . tasmāt anabhihitavacanam . tasmāt anabhihitādhikāraḥ kriyate . avaśyam ca etat evam vijñeyam ekatvādayaḥ vibhaktyarthāḥ iti . abhihite prathamābhāvaḥ . yaḥ hi manyate karmādayaḥ vibhaktyarthāḥ teṣu abhihiteṣu sāmarthyāt me vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti . kva . vṛkṣaḥ plakṣaḥ .kiṃ kāraṇam . prātipadikena uktaḥ prātipadikārthaḥ iti . na kva cit prātipadikena anuktaḥ prātipadikārthaḥ ucyate ca prathamā . sā vacanāt bhaviṣyati . tava eva tu khalu eṣaḥ doṣaḥ yasya te ekatvādayaḥ vibhaktyarthāḥ abhihite prathamābhāvaḥ iti . prathamā te na prāpnoti . kva . pacati odanam devadattaḥ iti . kim kāraṇam . tiṅā uktāḥ ekatvādayaḥ iti . anabhihitādhikāram ca tvam karoṣi parigaṇanam ca . na kva cit tiṅā ekatvādīnām anabhidhānam ucyate ca prathamā . sā vacanāt bhaviṣyati . nanu ca iha anabhidhānam vṛkṣaḥ plakṣaḥ iti . atra api abhidhānam asti . katham . vakṣyati etat : astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti . vṛkṣaḥ plakṣaḥ . asti iti gamyate . tava eva tu khalu eṣaḥ doṣaḥ yasya te karmādayaḥ vibhaktyārthāḥ abhihite prathamābhāvaḥ iti . prathamā te prāpnoti . kva . kaṭam karoti bhīṣmam udāram śobhanam darśanīyam iti . kaṭaśabdāt utpadyamānayā dvitīyayā abhihitam karma iti kṛtvā bhīṣādibhyaḥ dvitīyā na prāpnoti . kā tarhi prāpnoti . prathamā . tat yathā . kṛtaḥ kaṭaḥ bhīṣmaḥ udāraḥ śobhanaḥ darśanīyaḥ iti . karoteḥ utpadyamānena ktena abhihitam

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४१।१९-४४२।५ रो इइ,७६२-७६४ परिगणनं कर्तव्यम् । तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् । तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् । तिङ् । क्रियते कटः । कृत् । कृतः कटः । तद्धित । औपगवः कापटवः । समास । चित्रगुः शबलगुः । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या । क्व । कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति । कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति । का तर्हि स्यात् । षष्ठी । शेषलक्षणा षष्ठी । अशेषत्वात् न भविष्यति । अन्याः अपि न प्राप्नुवन्ति । किम् कारणम् । कर्मादीन् आमभावात् । समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति । न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति । अथ वा कटः अपि कर्म भीष्मादयः अपि । तत्र कर्मणि इति एव सिद्धम् । अथ वा कटः एव कर्म । तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति । तस्मात् न अर्थः परिगणनेन ।

KA I,441.19-442.5 Ro II,762-764 parigaṇanaṃ kartavyam . tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam . tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam kartavyam . tiṅ . kriyate kaṭaḥ . kṛt . kṛtaḥ kaṭaḥ . taddhita . aupagavaḥ kāpaṭavaḥ . samāsa . citraguḥ śabalaguḥ . utsarge hi prātipadikasāmānādhikaraṇye vibhaktivacanam . utsarge hi prātipadikasāmānādhikaraṇye vibhaktiḥ vaktavyā . kva . kaṭam karoti bhīṣmam udāram śobhanam darśanīyam iti . kaṭaśabdāt utpadyamānayā dvitīyayā abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā na prāpnoti . kā tarhi syāt . ṣaṣṭhī . śeṣalakṣaṇā ṣaṣṭhī . aśeṣatvāt na bhaviṣyati . anyāḥ api na prāpnuvanti . kim kāraṇam . karmādīn āmabhāvāt . samayaśca kṛtaḥ ne kevalā prakṛtiḥ proktavyā na kevalaḥ pratyayaḥ iti . na cānyā utpadyamānā etam abhisambandham utsahante vaktum iti kṛtvā dvitīyā bhaviṣyati . atha vā kaṭaḥ api karma bhīṣmādayaḥ api . tatra karmaṇi iti eva siddham . atha vā kaṭaḥ eva karma . tatsāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati . tasmāt na arthaḥ parigaṇanena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४२।६-२६ रो इइ,७६४-७६७ द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रसङ्गः । द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति । क्व । प्रासादे आस्ते , शयने आस्ते इति । किम् कारणम् । सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति । न वा अन्यतरेण अनभिधानात् । न वा एषः दोषः । किम् कारणम् । अन्यतरेण अनभिधानात् । अन्यतरेण अत्र अनभिधानम् । सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् । यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति । कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति । अनभिहिते हि विधानम् । अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् । आसने आस्ते । शयने शेते इति । अत्र अपि अन्यत्वम् अस्ति । कुतः । कालभेदात् साधनभेदात् च । एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः । किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः । किम् च अतः । यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् । अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् । अन्यः हि सदिगुणः अन्यः च आसिगुणः । किं पुनः साधनम् न्याय्यम् । गुणः इति आह । कथम् ज्ञायते । एवम् हि कः चित् कम् चित् पृच्छति । क्व देवदत्तः इति । सः तस्मै आचष्टे । असौ वृक्षे इति । कतरस्मिन् । यः तिष्ठति इति । सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते । द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव ।

KA I,442.6-26 Ro II,764-767 dvayoḥ kriyayoḥ kārake anyatareṇa abhihite vibhaktyabhāvaprasaṅgaḥ . dvayoḥ kriyayoḥ kārake anyatareṇa abhihite vibhaktiḥ na prāpnoti . kva . prāsāde āste , śayane āste iti . kim kāraṇam . sadipratyayena abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti . na vā anyatareṇa anabhidhānāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anyatareṇa anabhidhānāt . anyatareṇa atra anabhidhānam . sadipratyayena bhidhānam āsipratyayena anabhidhānam . yataḥ anabhidhānam tadāśrayā saptamī bhaviṣyati . kutaḥ na khalu etat sati abhidhāne ca anabhidhāne ca anabhihitāśrayā saptamī bhaviṣyati na punaḥ abhihitāśrayaḥ pratiṣedhaḥ iti . anabhihite hi vidhānam . anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ . yadi api tāvat atra etat śakyate vaktum yatra anyā ca anyā ca kriyā yatra tu khalu sā eva kriyā tatra katham . āsane āste . śayane śete iti . atra api anyatvam asti . kutaḥ . kālabhedāt sādhanabhedāt ca . ekasya atra āseḥ āsiḥ sādhanam sarvakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ . kim punaḥ dravyam sādhanam āhosvit guṇaḥ . kim ca ataḥ . yadi dravyam sādhanam na etat anyat bhavati abhihitāt . atha hi guṇaḥ sādhanam bhavati etat anyat abhihitāt . anyaḥ hi sadiguṇaḥ anyaḥ ca āsiguṇaḥ . kiṃ punaḥ sādhanam nyāyyam . guṇaḥ iti āha . katham jñāyate . evam hi kaḥ cit kam cit pṛcchati . kva devadattaḥ iti . saḥ tasmai ācaṣṭe . asau vṛkṣe iti . katarasmin . yaḥ tiṣṭhati iti . saḥ vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ kartā sampadyate . dravye punaḥ sādhane sati yat karma karma eva syāt yat karaṇam karaṇam eva yat adhikaraṇam adhikaraṇam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४३।१-१८ रो इइ,७६७-७६९ अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य अनवकाशत्वात् । अनभिहितवचनम् अनर्थकम् । किम् कारणम् । प्रथमाविधानस्य अनवकाशत्वात् । अनवकाशा प्रथमा । सा वचनात् भविष्यति। सावकाशा प्रथमा । कः अवकाशः । अकारकम् । वृक्षः प्लक्षः इति । अवकाशः अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति । अवकाशः अकारकम् इति चेत् तत् न । किम् कारणम् । अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते । वृक्षः प्लक्षः । अस्ति इति गम्यते। विप्रतिषेधात् वा प्रथमाभावः। अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन । द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति । प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति । इह उभयम् प्राप्नोति । कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति । प्रथमा भविष्यति विप्रतिषेधेन । न सिध्यति । परत्वात् षष्ठी प्राप्नोति । शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति । कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् । कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति । तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः । कर्तव्यः कटः इति । सः कथम् कर्तव्यः । यदि एकत्वादयः विभक्त्यर्थाः । अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण ।

KA I,443.1-18 Ro II,767-769 anabhihitavacanam anarthakam prathamāvidhānasya anavakāśatvāt . anabhihitavacanam anarthakam . kim kāraṇam . prathamāvidhānasya anavakāśatvāt . anavakāśā prathamā . sā vacanāt bhaviṣyati. sāvakāśā prathamā . kaḥ avakāśaḥ . akārakam . vṛkṣaḥ plakṣaḥ iti . avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti . avakāśaḥ akārakam iti cet tat na . kim kāraṇam . astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti gamyate . vṛkṣaḥ plakṣaḥ . asti iti gamyate. vipratiṣedhāt vā prathamābhāvaḥ. atha vā dvitīyādayaḥ kriyantām prathamā vā iti prathamā bhaviṣyati vipratiṣedhena . dvitīyādīnām avakāśaḥ kaṭam karoti bhīṣmam udāram śobhanamdarśanīyam iti . prathamāyāḥ avakāśaḥ akārakam vṛkṣaḥ plakṣaḥ iti . iha ubhayam prāpnoti . kṛtaḥ kaṭaḥ bhīṣmaḥ udāraḥ śobhanaḥ darśanīyaḥ iti . prathamā bhaviṣyati vipratiṣedhena . na sidhyati . paratvāt ṣaṣṭhī prāpnoti . śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati . kṛtprayoge tu param vidhānam ṣaṣṭhyāḥ tatpratiṣedhārtham . kṛtprayoge tu paratvā tṣaṣṭhī prāpnoti . tatpratiṣedhārtham anabhihitādhikāraḥ kartavyaḥ . kartavyaḥ kaṭaḥ iti . saḥ katham kartavyaḥ . yadi ekatvādayaḥ vibhaktyarthāḥ . atha hi karmādayaḥ vibhaktyarthāḥ na arthaḥ anabhihitādhikāreṇa .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४३।२०-४४४।११ रो इइ,७६९-७७० समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् । समया ग्रामम् निकषा ग्रामम् । हायोगे । हा देवदत्तम् । हा यज्ञदत्तम् । अपरः आह : द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् । द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् । अभितः ग्रामम् परितः ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । अधि अधि ग्रामम् । धिक् जाल्मम् धिक् वृषलम् । अपरः आह । उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते । उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या । उभयतः ग्रामम् सर्वतः ग्रामम् । धिग्योगे । धिक् जाल्मम् धिक् वृषलम् । उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या । उपरि उपरि ग्रामम् । अधि अधि ग्रामम् । अधः अधः ग्रामम् । ततः अन्यत्र अपि दृश्यते । न देवदत्तम् प्रतिभाति किम् चित् । बुभुक्षितम् न प्रतिभाति किम् चित् ।

KA I,443.20-444.11 Ro II,769-770 samayānikaṣāhāyogeṣu upasaṅkhyānam . samayānikaṣāhāyogeṣu upasaṅkhyānam kartavyam . samayā grāmam nikaṣā grāmam . hāyoge . hā devadattam . hā yajñadattam . aparaḥ āha : dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam . dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam kartavyam . abhitaḥ grāmam paritaḥ grāmam . samayā grāmam . nikaṣā grāmam . adhi adhi grāmam . dhik jālmam dhik vṛṣalam . aparaḥ āha . ubhasarvatasoḥ kāryā dhiguparyādiṣu triṣu dvitīyā āmreḍitānteṣu tataḥ anyatra api dṛśyate . ubhaya sarva iti etābhyām tasantābhyām dvitīyā vaktavyā . ubhayataḥ grāmam sarvataḥ grāmam . dhigyoge . dhik jālmam dhik vṛṣalam . uparyādiṣu triṣu āmreḍitānteṣu dvitīyā vaktavyā . upari upari grāmam . adhi adhi grāmam . adhaḥ adhaḥ grāmam . tataḥ anyatra api dṛśyate . na devadattam pratibhāti kim cit . bubhukṣitam na pratibhāti kim cit .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४४।१३-२२ रो इइ,७७१-७७२ किमर्थम् इदम् उच्यते । तृतीया यथा स्यात् । अथ द्वितीया सिद्धा । सिद्धा कर्मणि इति एव । तृतीया अपि सिद्धा । कथम् । सुपाम् सुपः भवन्ति इति एव । असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः । यवाग्वा अग्निहोत्रं जुहोति । एवम् तर्हि तृतीया अपि सिद्धा । कथम् । कर्तृकरणयोः इति एव । अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते । तद्यथा । अग्निहोत्रम् प्रज्वलयति इति । अस्ति हविषि वर्तते । तत् यथा । अग्निहोत्रम् जुहोति इति । जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते । तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे । तत् यथा । यवाग्वा अग्निहोत्रम् जुहोति । अग्निं प्रीणाति । यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे । तत् यथा । यवागूम् अग्निहोत्रम् जुहोति । यवागूम् हविः अग्नौ प्रक्षिपति ।

KA I,444.13-22 Ro II,771-772 kimartham idam ucyate . tṛtīyā yathā syāt . atha dvitīyā siddhā . siddhā karmaṇi iti eva . tṛtīyā api siddhā . katham . supām supaḥ bhavanti iti eva . asati etasmin supām supaḥ bhavanti iti tṛtīyārthaḥ ayam ārambhaḥ . yavāgvā agnihotraṃ juhoti . evam tarhi tṛtīyā api siddhā . katham . kartṛkaraṇayoḥ iti eva . ayam agnihotraśabdaḥ asti eva jyotiṣi vartate . tadyathā . agnihotram prajvalayati iti . asti haviṣi vartate . tat yathā . agnihotram juhoti iti . juhotiḥ ca asti eva prakṣepaṇe vartate asti prīṇātyarthe vartate . tat yathā tāvat yavāgūśabdāt tṛtīyā tadā agnihotraśabdaḥ jyotiṣi vartate juhotiḥ ca prīṇātyarthe . tat yathā . yavāgvā agnihotram juhoti . agniṃ prīṇāti . yadā yavāgūśabdāt dvitīyā tadā agnihotraśabdaḥ haviṣi vartate juhotiḥ ca prakṣepaṇe . tat yathā . yavāgūm agnihotram juhoti . yavāgūm haviḥ agnau prakṣipati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४४।२४-४४५।१० रो इइ,७७२-७७४ इह कस्मात् न भवति । किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव । तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् । तत् यथा । अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः । अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् । अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् । अप्रधाने द्वीइया भवति इति वक्तव्यम् । अन्तरा त्वाम् च माम् च कमण्डलुः इति । कमण्डलोः द्वितीया मा भूत् इति । कः पुनः एताभ्याम् कमण्डलोः योगः । यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् । तत्त् अर्हि वक्तव्यम् । न वक्तव्यम् । कमण्डलोः द्वितीया कस्मात् न भवति । उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।

KA I,444.24-445.10 Ro II,772-774 iha kasmāt na bhavati . kim te bābhravaśālaṅkāyanānām antareṇa gatena iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . atha vā yadi api tāvat ayam antareṇaśabdaḥ dṛṣṭāpacāraḥ nipātaḥ ca anipātaḥ ca ayaṃ tu khalu antarāśabdaḥ adṛṣṭāpacāraḥ nipātaḥ eva . tasya asya kaḥ anyaḥ dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ nipātāt . tat yathā . asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ . antarāntareṇayuktānām apradhānavacanam . antarāntareṇayuktānāmapradhānagrahaṇam vaktavyam . apradhāne dvīiyā bhavati iti vaktavyam . antarā tvām ca mām ca kamaṇḍaluḥ iti . kamaṇḍaloḥ dvitīyā mā bhūt iti . kaḥ punaḥ etābhyām kamaṇḍaloḥ yogaḥ . yat tat tvām ca mām ca antarā tat kamaṇḍaloḥ sthānam . tatt arhi vaktavyam . na vaktavyam . kamaṇḍaloḥ dvitīyā kasmāt na bhavati . upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४५।१३-४४६।४ रो इइ,७७४-७७७ अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् । अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् । किम् प्रयोजनम् । लाद्यर्थम् । लादिभिः अभिधानम् यथा स्यात् । आस्यते मासः । शय्यते क्रोशः । अथ वत्करणम् किमर्थम् । स्वाश्रयम् अपि यथा स्यात् । आस्यते मासम् । शय्यते क्रोशम् । अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति । एवम् मन्यते । यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति । न च इह कः चित् क्रियाकृतः विशेषः उपजायते । न एवम् शक्यम् । इह अपि न स्यात् । आदित्यम् पश्यति । हिमवन्तम् शृणोति । ग्रामम् गच्छति । तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति । यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति। आस्यते मासम् देवदत्तेन इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः । ते एवम् विज्ञास्यामः । क्व चित् ये अकर्मकाः इति । अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् । न च एतेन कर्मणा कः चिद् अपि अकर्मकः । अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् । न च एतत् कर्म क्व चित् अपि न भवति । न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् । वक्तव्यम् च । किम् प्रयोजनम् । यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् । क्रोशम् कुटिला नदी । क्रोशम् रमणीया वनराजिः ।

KA I,445.13-446.4 Ro II,774-777 atyantasaṃyoge karmavat lādyartham . atyantasaṃyoge kālādhvānau karmavat bhavataḥ iti vaktavyam . kim prayojanam . lādyartham . lādibhiḥ abhidhānam yathā syāt . āsyate māsaḥ . śayyate krośaḥ . atha vatkaraṇam kimartham . svāśrayam api yathā syāt . āsyate māsam . śayyate krośam . akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ yathā syāt . tat tarhi vaktavyam . na vaktavyam . prākṛtameva etat karma yathā kaṭam karoti śakaṭam karoti iti . evam manyate . yatra kaḥ citkriyākṛtaḥ viśeṣaḥ upajāyate tat nyāyyam karma iti . na ca iha kaḥ cit kriyākṛtaḥ viśeṣaḥ upajāyate . na evam śakyam . iha api na syāt . ādityam paśyati . himavantam śṛṇoti . grāmam gacchati . tasmāt prākṛtameva etat karma yathā kaṭam karoti śakaṭam karoti iti . yadi tarhi prākṛtam eva etat karma akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ na prāpnoti. āsyate māsam devadattena iti . tat tarhi vaktavyam . na vaktavyam . akarmakāṇām iti ucyate na ca ke cit kālabhāvādhvabhiḥ akarmakāḥ . te evam vijñāsyāmaḥ . kva cit ye akarmakāḥ iti . atha vā yena karmaṇā sakarmakāḥ ca akarmakāḥ ca bhavanti tena akarmakāṇām . na ca etena karmaṇā kaḥ cid api akarmakaḥ . atha vā yat karma bhavati na ca bhavati tena karmakāṇām . na ca etat karma kva cit api na bhavati . na tarhi idānīm idam sūtram vaktavyam . vaktavyam ca . kim prayojanam . yatra akriyayā atyantasaṃyogaḥ tadartham . krośam kuṭilā nadī . krośam ramaṇīyā vanarājiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४६।६-७ रो इइ,७७७ क्रियापर्वर्गे इति वक्तव्यम् । साधनापवर्गे मा भूत् । मासम् अधीतः अनुवाको न च अनेन गृहीतः इति ।

KA I,446.6-7 Ro II,777 kriyāparvarge iti vaktavyam . sādhanāpavarge mā bhūt . māsam adhītaḥ anuvāko na ca anena gṛhītaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४६।९-१३ रो इइ,७७७-७७८ क्रियामध्ये इति वक्तव्यम् । इह अपि यथा स्यात् । अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता । कारकमध्ये इति इयति उच्यमाने इह एव स्यात् : इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति । यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति । क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् ।

KA I,446.9-13 Ro II,777-778 kriyāmadhye iti vaktavyam . iha api yathā syāt . adya devadattaḥ bhuktvā dvyahāt bhoktā dvyahe bhoktā . kārakamadhye iti iyati ucyamāne iha eva syāt : ihasthaḥ ayam iṣvāsaḥ krośāt lakṣyam vidhyati krośe lakṣyam vidhyati . yam ca vidhyati yataḥ ca vidhyati ubhayoḥ tanmadhyam bhavati . tat tarhi vaktavyam . na vaktavyam . na antareṇa sādhanam kriyāyāḥ pravṛttiḥ bhavati . kriyāmadhyam cet kārakamadhyam api bhavati tatra kārakamadhye iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४६।१५-४४७।५ रो इइ,७७८-७७९ कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् सप्तमीपञ्चम्योः प्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् । वृक्षम् प्रति विद्योतते विद्युत् । वृक्षम् परि । वृक्षमनु । साधुः देवदत्तः मातरम् प्रति । मातरम् परि । मातरम् अनु । किम् प्रयोजनम् । सप्तमीपञ्चम्योः प्रतिषेधार्थम् । सप्तमीपञ्चम्यौ मा भूताम् इति । साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी । पञ्चमी अपाङ्परिभिः इति पञ्चमी । तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उक्तं वा । किम् उक्तम् । एकत्र तावत् उक्तम् अप्रतेः इति । इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव । तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् । तत् यथा । अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।

KA I,446.15-447.5 Ro II,778-779 karmapravacanīyayukte pratyādibhiḥ ca lakṣaṇādiṣu upasaṅkhyānam saptamīpañcamyoḥ pratiṣedhārtham . karmapravacanīyayukte pratyādibhiḥ ca lakṣaṇādiṣu upasaṅkhyānam kartavyam . vṛkṣam prati vidyotate vidyut . vṛkṣam pari . vṛkṣamanu . sādhuḥ devadattaḥ mātaram prati . mātaram pari . mātaram anu . kim prayojanam . saptamīpañcamyoḥ pratiṣedhārtham . saptamīpañcamyau mā bhūtām iti . sādhunipuṇābhyām arcāyām saptamī iti saptamī . pañcamī apāṅparibhiḥ iti pañcamī . tatra ayam api arthaḥ aprateḥ iti na vaktavyam bhavati . tat tarhi vaktavyam . na vaktavyam . uktaṃ vā . kim uktam . ekatra tāvat uktam aprateḥ iti . itaratra api yadi api tāvat ayam pariḥ dṛṣṭāpacāraḥ varjane ca avarjane ca ayaṃ khalu apaśabdaḥ adṛṣṭāpacāraḥ varjanārthaḥ eva . tasya kaḥ anyaḥ dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ varjanārthāt . tat yathā . asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४७।७-४४८।११ रो इइ,७७९-७८२ कथम् इदम् विज्ञायते । यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति । आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति । कः च अत्र विशेषः । यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् । यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् । अधि ब्रह्मदत्ते पञ्चालाः । आधृताः ते तस्मिन् भवन्ति । सत्यम् एवम् एतत् । नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति । प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते । कुतः । पञ्चालेभ्यः । का तर्हि स्यात् । षष्ठीसप्तम्यौ । स्वामीश्वराधिपति इति । न तत्र अधिशब्दः पठ्यते । यदि अपि न पठ्यते अधिः ईश्वरवाची । न तत्र पर्यायवचनानाम् ग्रहणम् । कथम् ज्ञायते । यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति : अधिपतिदायाद इति । षष्ठी तर्हि प्राप्नोति । शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति । द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति । सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति । भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् । यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति । स्ववचनात् सिद्धम् । अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति । एवम् अपि अन्तरेण वचनम् सिद्धम् । अधि ब्रह्मदत्तः पञ्चालेषु । आधृतः स तेषु भवति । सत्यम् एवम् एतत् । नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति । प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते । कुतः । ब्रह्मदत्तात् । का तर्हि स्यात् । षष्ठीसप्तम्यौ । स्वामीश्वराधिपति इति । न तत्र अधिशब्दः पठ्यते । यदि अपि न पठ्यते अधिः ईश्वरवाची । न तत्र पर्यायवचनानाम् ग्रहणम् । कथम् ज्ञायते । यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति । अधिपतिदायाद इति । षष्ठी तर्हि प्राप्नोति । शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति । द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति । सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति । भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति । एवं तर्हि स्ववचनात् सिद्धम् । अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् । एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति । उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।

KA I,447.7-448.11 Ro II,779-782 katham idam vijñāyate . yasya ca aiśvaryam īśvaratā īśvarabhāvaḥ tasmāt karmapravacanīyayuktāt iti . āhosvit yasya svasya īśvaraḥ tasmāt karmapravacanīyayuktāt iti . kaḥ ca atra viśeṣaḥ . yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham . yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet antareṇa vacanam siddham . adhi brahmadatte pañcālāḥ . ādhṛtāḥ te tasmin bhavanti . satyam evam etat . nityam parigrahītavyam parigrahītradhīnam bhavati . prathamānupapattiḥ tu . prathamā na upapadyate . kutaḥ . pañcālebhyaḥ . kā tarhi syāt . ṣaṣṭhīsaptamyau . svāmīśvarādhipati iti . na tatra adhiśabdaḥ paṭhyate . yadi api na paṭhyate adhiḥ īśvaravācī . na tatra paryāyavacanānām grahaṇam . katham jñāyate . yat ayam kasya cit paryāyavacanasya grahaṇam karoti : adhipatidāyāda iti . ṣaṣṭhī tarhi prāpnoti . śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati . dvitīyā tarhi prāpnoti karmapravacanīyayukte dvitīyā iti . saptamyā uktatvāt tasya abhisambandhasya dvitīyā na bhaviṣyati . bhavet yaḥ adheḥ brahamadattasya ca abhisambandhaḥ saḥ saptamyā uktaḥ syāt . yaḥ tu khalu adheḥ pañcālānām ca abhisambandhaḥ tatra dvitīyā prāpnoti . svavacanāt siddham . astu yasya svasya īśvaraḥ tasmāt karmapravacanīyayuktāt iti . evam api antareṇa vacanam siddham . adhi brahmadattaḥ pañcāleṣu . ādhṛtaḥ sa teṣu bhavati . satyam evam etat . nityam parigrahītā parigrahītavyādhīnaḥ bhavati . prathamānupapattiḥ tu . prathamā na upapadyate . kutaḥ . brahmadattāt . kā tarhi syāt . ṣaṣṭhīsaptamyau . svāmīśvarādhipati iti . na tatra adhiśabdaḥ paṭhyate . yadi api na paṭhyate adhiḥ īśvaravācī . na tatra paryāyavacanānām grahaṇam . katham jñāyate . yat ayam kasya cit paryāyavacanasya grahaṇam karoti . adhipatidāyāda iti . ṣaṣṭhī tarhi prāpnoti . śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati . dvitīyā tarhi prāpnoti karmapravacanīyayukte dvitīyā iti . saptamyā uktatvāt tasya abhisambandhasya dvitīyā na bhaviṣyati . bhavet yaḥ dheḥ pañcālānām ca abhisambandhaḥ saḥ saptamyā uktaḥ syāt yaḥ tu khalu adheḥ brahmadattasya ca abhisaṃbandhaḥ tatra dvitīyā prāpnoti . evaṃ tarhi svavacanāt siddham . adhiḥ svam prati karmapravacanīyasaṃjñaḥ bhavati iti vaktavyam . evam api yadā brahmadatte adhikaraṇe saptamī tadā pañcālebhyaḥ dvitīyā prāpnoti karmapravacanīyayukte dvitīya iti . upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४८।१३-४४९।३ रो इइ,७८२-७८४ अध्वनि अर्थग्रहणम् । अध्वनि अर्थग्रहणम् कर्तव्यम् । इह अपि मा भूत् । पन्थानम् गच्छति । वीवधम् गच्छत् इ इति । आस्थितप्रतिषेधः च । आस्थितप्रतिषेधः च अयम् वक्तव्यः । यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् । किम् अर्थम् पुनः इदम् उच्यते । चतुर्थी यथा स्यात् । अथ द्वितीया सिद्धा । सिद्धा कर्मणि इति एव । चतुर्थी अपि सिद्धा । । कथम् । सम्प्रदाने इति एव । न सिध्यति । कर्मणा यम् अभिप्रैति सः संप्रदानम् इति उच्यते । क्रियया च असौ ग्रामम् अभिप्रैति । कया क्रियया । गमिक्रियया । क्रियाग्रहणम् अपि तत्र चोद्यते । चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः । चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति । सिद्धम् तु असम्प्राप्तवचनात् । सिद्धम् एतत् । कथम् । असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् । अध्वनः च अनपवादः । एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति । सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति ।

KA I,448.13-449.3 Ro II,782-784 adhvani arthagrahaṇam . adhvani arthagrahaṇam kartavyam . iha api mā bhūt . panthānam gacchati . vīvadham gacchat i iti . āsthitapratiṣedhaḥ ca . āsthitapratiṣedhaḥ ca ayam vaktavyaḥ . yaḥ hi utpathena panthānam gacchati pathe gacchati iti eva tatra bhavitavyam . kim artham punaḥ idam ucyate . caturthī yathā syāt . atha dvitīyā siddhā . siddhā karmaṇi iti eva . caturthī api siddhā . | katham . sampradāne iti eva . na sidhyati . karmaṇā yam abhipraiti saḥ saṃpradānam iti ucyate . kriyayā ca asau grāmam abhipraiti . kayā kriyayā . gamikriyayā . kriyāgrahaṇam api tatra codyate . ceṣṭāyām anadhvani striyam gacchati ajām nayati iti atiprasaṅgaḥ . ceṣṭāyām anadhvani striyam gacchati ajām nayati iti atiprasaṅgaḥ bhavati . siddham tu asamprāptavacanāt . siddham etat . katham . asamprāpte karmaṇi dvitīyācaturthyau bhavataḥ iti vaktavyam . adhvanaḥ ca anapavādaḥ . evam ca kṛtvā anadhvani iti etat api na vaktavyam bhavati . samprāptam hi etat karma adhvānam gacchati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४९।५-४५०।३ रो इइ,७८४-७८७ चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् । चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् । यूपाय दारु कुण्डलाय हिरण्यम् । किम् इदम् तादर्थ्यम् इति । तदर्थस्य भावः तादर्थ्यम् । तदर्थम् पुनः किम् । सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः । कथम् च अत्र चतुर्थी । अनेन एव । यदि एवम् इतरेतराश्रयम् भवति । का इतरेतराश्रयता । निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति । न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति । किम् तर्हि । षष्ठ्यन्तस्य अपि भवति । तत् यथा । गुरोः इदम् गुर्वर्थम् इति । यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन । यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति । तत्र तादर्थ्ये इति एव सिद्धम् । अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् । छात्राय रुचितम् । छात्राय स्वदितम् इति । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति । कॢपि सम्पद्यमाने । कॢपि सम्पद्यमाने चतुर्थी वक्तव्या । मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवान्नम् इति । उत्पातेन ज्ञाप्यमाने । उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या । वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् । मांसौदनाय व्याहरति मृगः । हितयोगे च । हितयोगे चतुर्थी वक्तव्या । । हितम् अरोचकिने हितम् आमयाविने ।

KA I,449.5-450.3 Ro II,784-787 caturthīvidhāne tādarthye upasaṅkhyānam . caturthīvidhāne tādarthye upasaṅkhyānam kartavyam . yūpāya dāru kuṇḍalāya hiraṇyam . kim idam tādarthyam iti . tadarthasya bhāvaḥ tādarthyam . tadartham punaḥ kim . sarvanāmnaḥ ayam caturthyantasya arthaśabdena saha samāsaḥ . katham ca atra caturthī . anena eva . yadi evam itaretarāśrayam bhavati . kā itaretarāśrayatā . nirdeśottarakālam caturthyā bhavitavyam caturthyā ca nirdeśaḥ tat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . tat tarhi vaktavyam . na vaktavyam . ācāryapravṛttiḥ jñāpayati bhavati arthaśabdena yoge caturthī iti yat ayam carturthī tadarthārtha iti caturthyantasya arthaśabdena saha samāsam śāsti . na khalu api avaśyaṃ caturthyantasya eva arthaśabdena saha samāsaḥ bhavati . kim tarhi . ṣaṣṭhyantasya api bhavati . tat yathā . guroḥ idam gurvartham iti . yadi tādarthye upasaṅkhyānam kriyate na arthaḥ sampradānagrahaṇena . yaḥ api hi upādhyāyāya gauḥ dīyate upādhyāyārthaḥ saḥ bhavati . tatra tādarthye iti eva siddham . avaśyam saṃpradānagrahaṇam kartavyam yā anyena lakṣaṇena sampradānasañjñā tadartham . chātrāya rucitam . chātrāya svaditam iti . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . ācāryapravṛttiḥ jñāpayati bhavati tādarthye caturthī iti yat ayam caturthī tadarthārtha iti caturthyantasya tadarthena saha samāsam śāsti . kḷpi sampadyamāne . kḷpi sampadyamāne caturthī vaktavyā . mūtrāya kalpate yavāgūḥ . uccārāya kalpate yavānnam iti . utpātena jñāpyamāne . utpātena jñāpyamāne caturthī vaktavyā . vātāya kapilā vidyut ātapāya atilohinī pītā bhavati sasyāya durbhikṣāya sitā bhavet . māṃsaudanāya vyāharati mṛgaḥ . hitayoge ca . hitayoge caturthī vaktavyā . | hitam arocakine hitam āmayāvine .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५०।५-१४ रो इइ,७८७-७८८ स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् । स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन । स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय । कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः । कुशलम् देवत्ताय कुशलम् देवदत्तस्य । इह उभयम् प्राप्नोति । स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति । चतुर्थी भवति विप्रतिषेधेन । अलमिति पर्याप्त्यर्थग्रहणम् । अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् । इह मा भूत् । अलङ्कुरुते कन्याम् इति । अपरः आह : अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् । इह अपि यथा स्यात् । अलम् मल्लः मल्लाय । प्रभुःमल्लः मल्लाय । प्रभवति मल्लः मल्लाय इति ।

KA I,450.5-14 Ro II,787-788 svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt . svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt bhavati vipratiṣedhena . svastiyoge caturthyāḥ avakāśaḥ svasti jālmāya svasti vṛṣalāya . kuśalārthaiḥ āśiṣi vāvidhānasya avakāśaḥ anye kuśalārthāḥ . kuśalam devattāya kuśalam devadattasya . iha ubhayam prāpnoti . svasti gobhyaḥ svasti brāhmaṇebhyaḥ iti . caturthī bhavati vipratiṣedhena . alamiti paryāptyarthagrahaṇam . alamiti paryāptyarthagrahaṇam kartavyam . iha mā bhūt . alaṅkurute kanyām iti . aparaḥ āha : alam iti paryāptyarthagrahaṇam kartavyam . iha api yathā syāt . alam mallaḥ mallāya . prabhuḥmallaḥ mallāya . prabhavati mallaḥ mallāya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५०।१६-४५१।३ रो इइ,७८८-७८९ अप्राणिषु इति उच्यते । तत्र इदम् न सिध्यति : न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति । एवम् तर्हि योगविभागः करिष्यते । मन्यकर्मणि अनादरे विभाषा । ततः अप्राणिषु । अप्राणिषु च विभाषा इति । इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति । यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि । इमे च नावादयः भविष्यन्ति । न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् । न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् । अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति ।

KA I,450.16-451.3 Ro II,788-789 aprāṇiṣu iti ucyate . tatra idam na sidhyati : na tvā śvānam manye , na tvā śune manye iti . evam tarhi yogavibhāgaḥ kariṣyate . manyakarmaṇi anādare vibhāṣā . tataḥ aprāṇiṣu . aprāṇiṣu ca vibhāṣā iti . iha api tarhi prāpnoti : na tvā kākam manye , na tvā śukam manye iti . yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi . ime ca nāvādayaḥ bhaviṣyanti . na tvā nāvam manye yāvat tīrṇam na nāvyam . na tvā annam manye yāvat bhuktam na śrāddham . atra yeṣu prāṇiṣu na iṣyate te nāvādayaḥ bhaviṣyanti . manyakarmaṇi prakṛṣyakutsitagrahaṇam . manyakarmaṇi prakṛṣyakutsitagrahaṇam kartavyam iha mā bhūt : tvām tṛṇam manye iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५२।२-१५ रो इइ,७८९-७९१ तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् । तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् । प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः । माठरः अस्मि गोत्रेण। गार्ग्यः अस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यम् क्रीणाति । त्रिद्रोणेन धान्यम् क्रीणाति । पञ्चकेन पशून् क्रीणाति । साहस्रेण अश्वान् क्रीणाति। तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कर्तृकरणयोः तृतीया इति एव सिद्धम् । इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् । प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति । एषः तत्र प्रायः येन ते अधीयते । माठरः अस्मि गोत्रेण। गार्ग्यः अस्मि गोत्रेण इति । एतेन अहम् सञ्ज्ञाये । समेन धावति । विषमेण धावति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति । द्विद्रोणेन धान्यम् क्रीणाति । त्रिद्रोणेन धान्यम् क्रीणाति । तादर्थ्यात् ताच्छब्द्यम् । द्विद्रोणार्थम् द्विद्रोणम् । द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति । पञ्चकेन पशून् क्रीणाति इति । अत्र अपि तादर्थ्यात् ताच्छब्द्यम् । पञ्चपश्वर्थः पञ्चकः । पञ्चकेन पशून् क्रीणाति इति । साहस्रेण अश्वान् क्रीणाति इति। सहस्रपरिमाणम् साहस्रम् । साहस्रेण हिरण्येन अश्वान् क्रीणाति इति।

KA I,452.2-15 Ro II,789-791 tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam . tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam kartavyam . tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam . prakṛtyā abhirūpaḥ prakṛtyā darśanīyaḥ . prāyeṇa yājñikāḥ prāyeṇa vaiyākaraṇāḥ . māṭharaḥ asmi gotreṇa. gārgyaḥ asmi gotreṇa . samena dhāvati . viṣameṇa dhāvati . dvidroṇena dhānyam krīṇāti . tridroṇena dhānyam krīṇāti . pañcakena paśūn krīṇāti . sāhasreṇa aśvān krīṇāti. tat tarhi vaktavyam . na vaktavyam . kartṛkaraṇayoḥ tṛtīyā iti eva siddham . iha tāvat prakṛtyā abhirūpaḥ prakṛtyā darśanīyaḥ iti prakṛtikṛtam tasya ābhirūpyam . prāyeṇa yājñikāḥ prāyeṇa vaiyākaraṇāḥ iti . eṣaḥ tatra prāyaḥ yena te adhīyate . māṭharaḥ asmi gotreṇa. gārgyaḥ asmi gotreṇa iti . etena aham sañjñāye . samena dhāvati . viṣameṇa dhāvati . idam atra prayoktavyam sat na prayujyate samena pathā dhāvati viṣameṇa pathā dhāvatīti . dvidroṇena dhānyam krīṇāti . tridroṇena dhānyam krīṇāti . tādarthyāt tācchabdyam . dvidroṇārtham dvidroṇam . dvidroṇena hiraṇyena dhānyam krīṇāti iti . pañcakena paśūn krīṇāti iti . atra api tādarthyāt tācchabdyam . pañcapaśvarthaḥ pañcakaḥ . pañcakena paśūn krīṇāti iti . sāhasreṇa aśvān krīṇāti iti. sahasraparimāṇam sāhasram . sāhasreṇa hiraṇyena aśvān krīṇāti iti.

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५२।१७-४५३।७ रो इइ,७९१-७९३ किम् उदाहरणम् । तिलैः सह माषान् वपति इति । न एतत् अस्ति । तिलैः मिश्रीकृत्य माषाः उप्यन्ते । तत्र करणे इति एव सिद्धम् । इदम् तर्हि । पुत्रेण सह आगतः देवदत्तः इति । अप्रधाने कर्तरि तृतीया यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया । इदम् तर्हि । पुत्रेण सह आगमनम् देवदत्तस्य इति । षष्ठी अत्र बाधिका भविष्यति । इदम् तर्हि । पुत्रेण सह स्थूलः । पुत्रेण सह पिङ्गलः इति । इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति । ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते । तत्र करणे इति एव सिद्धम् इति । भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् । यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति । सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि । सहयुक्ते अप्रधानवचनम् अनर्थकम् । किं कारणम् । उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् । अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति । क्व अन्यत्र । गाः स्वामी व्रजति इति ।

KA I,452.17-453.7 Ro II,791-793 kim udāharaṇam . tilaiḥ saha māṣān vapati iti . na etat asti . tilaiḥ miśrīkṛtya māṣāḥ upyante . tatra karaṇe iti eva siddham . idam tarhi . putreṇa saha āgataḥ devadattaḥ iti . apradhāne kartari tṛtīyā yathā syāt . etat api na asti prayojanam . pradhāne kartari lādayaḥ bhavanti iti pradhānakartā ktena abhidhīyate yaḥ ca apradhānam siddhā tatra kartari iti eva tṛtīyā . idam tarhi . putreṇa saha āgamanam devadattasya iti . ṣaṣṭhī atra bādhikā bhaviṣyati . idam tarhi . putreṇa saha sthūlaḥ . putreṇa saha piṅgalaḥ iti . idam ca api udāharaṇam tilaiḥ saha māṣān vapati iti . nanu ca uktam tilaiḥ miśrīkṛtya māṣāḥ upyante . tatra karaṇe iti eva siddham iti . bhavet siddham yadā tilaiḥ miśrīkṛtya upyeran . yadā tu khalu kasya cin māṣabījāvāpaḥ upasthitaḥ tadartham ca kṣetram upārjitam tatra anyat api kiṃ cid upyate yadi bhaviṣyati bhaviṣyati iti tadā na sidhyati . sahayukte apradhānavacanam anarthakam upapadavibhakteḥ kārakavibhaktibalīyastvāt anyatra api . sahayukte apradhānavacanam anarthakam . kiṃ kāraṇam . upapadavibhakteḥ kārakavibhaktibalīyastvāt . anyatra api kārakavibhaktirbalīyasī iti prathamā bhaviṣyati . kva anyatra . gāḥ svāmī vrajati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५३।९-१४ रो इइ,७९३-७९४ इह कस्मात् न भवति । अक्षि काणम् अस्य इति । अङ्गात् विकृतात् तद्विकारतः चेत् अङ्गिनः वचनम् । अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया । येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते ।

KA I,453.9-14 Ro II,793-794 iha kasmāt na bhavati . akṣi kāṇam asya iti . aṅgāt vikṛtāt tadvikārataḥ cet aṅginaḥ vacanam . aṅgāt vikṛtāt tṛtīyā vaktavyā tena eva cet vikāreṇa aṅgī dyotyate iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . aṅgaśabdaḥ ayam samudāyaśabdaḥ yena iti ca karaṇe eṣā tṛtīyā . yena avayavena samudāyaḥ aṅgī dyotyate tasmin bhavitavyam na ca etena avayavena samudāyaḥ dyotyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५३।१६-२३ रो इइ,७९४-७९५ इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः । इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः । अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति । न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् । न वा वक्तव्यम् । किम् कारणम् । इत्थम्भूतस्य लक्षणेन अपृथग्भावात् । यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् । न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति । इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति ।

KA I,453.16-23 Ro II,794-795 itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ . itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ vaktavyaḥ . api bhavānkamaṇḍalupāṇim chātrama drākṣīt iti . na vā itthambhūtasya lakṣaṇena apṛthagbhāvāt . na vā vaktavyam . kim kāraṇam . itthambhūtasya lakṣaṇena apṛthagbhāvāt . yatra itthambhūtasya pṛthagbhūtam lakṣaṇam tatra bhavitavyam . na ca atra itthambhūtasya pṛthagbhūtam lakṣaṇam . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . tathā hi ayam prādhānyena lakṣaṇam pratinirdiśati . itthambhūtasya lakṣaṇam itthaṃbhūtalakṣaṇam tasmin nitthaṃbhūtalakṣaṇe iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५४।२-१६ रो इइ,७९६ सञ्ज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः । मातरम् सञ्जानीते । मात्रा सञ्जानीते । कृत्प्रयोगे षष्ठ्याः अवकाशः । इध्मप्रव्रश्चनः पलाशशातनः । इह उभयम् प्राप्नोति । मातुः सञ्ज्ञाता । पितुः सञ्ज्ञाता इति । षष्ठी भवति विप्रतिषेधेन । उपपदविभक्तेः च उपपदविभक्तिः । उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः । अन्यः देवदत्तात् । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः । गोषु स्वामी । गवां स्वामी । इह उभयम् प्राप्नोति । अन्यः गोषु स्वामी । अन्यः गवां स्वामी इति । स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन । न एषः युक्त्ः विप्रतिषेधः । न हि अत्र गावः अन्ययुक्ताः । कः तर्हि । स्वामी । एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः । तुल्यः देवदत्तस्य । तुल्यः देवदत्तेन इति । स्वामीश्वराधिपति इति अस्य वकाशः सः एव । इह उभयम् प्राप्नोति । तुल्यः गोभिः स्वामी । तुल्यः गवां स्वामी इति । तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन ।

KA I,454.2-16 Ro II,796 sañjñaḥ kṛtprayoge ṣaṣṭhī vipratiṣedhena . sañjñaḥ anyatarasyām karmaṇi iti etasmāt kṛprayoge ṣaṣṭhī bhavati vipratiṣedhena . sañjñaḥ anyatarasyām iti asya avakāśaḥ . mātaram sañjānīte . mātrā sañjānīte . kṛtprayoge ṣaṣṭhyāḥ avakāśaḥ . idhmapravraścanaḥ palāśaśātanaḥ . iha ubhayam prāpnoti . mātuḥ sañjñātā . pituḥ sañjñātā iti . ṣaṣṭhī bhavati vipratiṣedhena . upapadavibhakteḥ ca upapadavibhaktiḥ . upapadavibhakteḥ ca upapadavibhaktiḥ bhavati vipratiṣedhena | anyārāditarertadikśabdāñcūttarapadājāhiyukte iti asya avakāśaḥ . anyaḥ devadattāt . svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca iti asya avakāśaḥ . goṣu svāmī . gavāṃ svāmī . iha ubhayam prāpnoti . anyaḥ goṣu svāmī . anyaḥ gavāṃ svāmī iti . svāmīśvarādhipati iti etat bhavati vipratiṣedhena . na eṣaḥ yuktḥ vipratiṣedhaḥ . na hi atra gāvaḥ anyayuktāḥ . kaḥ tarhi . svāmī . evam tarhi tulyārthaḥ atulopamābhyām tṛtīyā anyatarasyām iti asya avakāśaḥ . tulyaḥ devadattasya . tulyaḥ devadattena iti . svāmīśvarādhipati iti asya vakāśaḥ saḥ eva . iha ubhayam prāpnoti . tulyaḥ gobhiḥ svāmī . tulyaḥ gavāṃ svāmī iti . tulyārthaḥ ratulopamābhyām iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५४।१८-४५५।२ रो इइ,७९७ निमित्तकारणहेतुषु सर्वासाम् प्रायदर्शनम् । निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् । किम् निमित्तम् वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति । कस्मात् निमित्तात् वसति । कस्य निमित्तस्य वसति । कस्मिन् निमित्ते वसति । किम् कारणम् वसति । केन कारणेन वसति । कस्मै कारणाय वसति । कस्मात् कारणात् वसति । कस्य कारणस्य वसति । कस्मिन् कारणे वसति । कः हेतुः वसति । कम् हेतुम् वसति । केन हेतुना वसति । कस्मै हेतवे वसति । कस्मात् हेतोः वसति । कस्य हेतोः वसति । कस्मिन् हेतौ वसति ।

KA I,454.18-455.2 Ro II,797 nimittakāraṇahetuṣu sarvāsām prāyadarśanam . nimittakāraṇahetuṣu sarvā vibhaktayaḥ prāyeṇa dṛśyante iti vaktavyam . kim nimittam vasati . kena nimittena vasati . kasmai nimittāya vasati . kasmāt nimittāt vasati . kasya nimittasya vasati . kasmin nimitte vasati . kim kāraṇam vasati . kena kāraṇena vasati . kasmai kāraṇāya vasati . kasmāt kāraṇāt vasati . kasya kāraṇasya vasati . kasmin kāraṇe vasati . kaḥ hetuḥ vasati . kam hetum vasati . kena hetunā vasati . kasmai hetave vasati . kasmāt hetoḥ vasati . kasya hetoḥ vasati . kasmin hetau vasati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५५।४-४५६। ५ रो इइ,७९७-८०० पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् । पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् कर्तव्यम् । प्रासादम् आरुह्य प्रेक्षते । प्रासादात्प्रेक्षते । अधिकरणे च । अधिकरणे च उपसङ्ख्यानम् कर्तव्यम् । आसनात् प्रेक्षते । शयनात् प्रेक्षते । प्रश्नाख्यानयोः च । प्रश्नाख्यानयोः च पञ्चमी वक्तव्या । कुतः भवान् । पाटलिपुत्रात् । यतः च अध्वकालनिर्माणम् । यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या । गवीधुमतः सावकाश्यईम् चत्वारि योजनानि । कार्तिक्याः आग्रहायणी मासे । तद्युक्तात् काले सप्तमी । तद्युक्तात् काले सप्तमी वक्तव्या । कार्तिक्याः आग्रहायणी मासे । अध्वनः प्रथमा च । अध्वनः प्रथमा च सप्तमी च वक्तय्वा । गवीधुमतः सावकाश्यईम् चत्वारि योजनानि चतुर्षु योजनेषु । तत् तर्हि इदं बहु वक्तव्यम् । न वक्तव्यम् । अपादाने इति एव सिद्धम् । इह तावत् प्रासादात् प्रेक्षते । शयनात् प्रेक्षते इति । अपक्रामति तत् तस्मात् दर्शनम् । यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति । सन्ततत्वात् । अथ वा अन्यान्यप्रादुर्भावा । प्रश्नाख्यानयोः च पञ्चमी वक्तव्या इति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते । कुतः भवान् आगच्छति । पाटलिपुत्रात् आगच्छमि इति । यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या इति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य साङ्काश्यम् चत्वारि योजनानि । कार्तिक्याः आग्रहायणी मासे इति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते । कार्त्तिक्याः प्रभृति आग्रहायणी मास इति । तद्युक्तात् काले सप्तमी वक्तव्या इति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते । कार्त्तिक्याः आग्रहायणी गते मासे इति । अध्वनः प्रथमा च सप्तमी च इति । इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते । गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः साङ्काश्यम् । चतुर्षु योजनेषु गतेषु साङ्काश्यम् इति ।

KA I,455.4-456. 5 Ro II,797-800 pañcamīvidhāne lyablope karmaṇi upasaṅkhyānam . pañcamīvidhāne lyablope karmaṇi upasaṅkhyānam kartavyam . prāsādam āruhya prekṣate . prāsādātprekṣate . adhikaraṇe ca . adhikaraṇe ca upasaṅkhyānam kartavyam . āsanāt prekṣate . śayanāt prekṣate . praśnākhyānayoḥ ca . praśnākhyānayoḥ ca pañcamī vaktavyā . kutaḥ bhavān . pāṭaliputrāt . yataḥ ca adhvakālanirmāṇam . yataḥ ca adhvakālanirmāṇam tatra pañcamī vaktavyā . gavīdhumataḥ sāvakāśyaīm catvāri yojanāni . kārtikyāḥ āgrahāyaṇī māse . tadyuktāt kāle saptamī . tadyuktāt kāle saptamī vaktavyā . kārtikyāḥ āgrahāyaṇī māse . adhvanaḥ prathamā ca . adhvanaḥ prathamā ca saptamī ca vaktayvā . gavīdhumataḥ sāvakāśyaīm catvāri yojanāni caturṣu yojaneṣu . tat tarhi idaṃ bahu vaktavyam . na vaktavyam . apādāne iti eva siddham . iha tāvat prāsādāt prekṣate . śayanāt prekṣate iti . apakrāmati tat tasmāt darśanam . yadi apakrāmati kim na atyantāya apakrāmati . santatatvāt . atha vā anyānyaprādurbhāvā . praśnākhyānayoḥ ca pañcamī vaktavyā iti . idam atra prayoktavyam sat na prayujyate . kutaḥ bhavān āgacchati . pāṭaliputrāt āgacchami iti . yataḥ ca adhvakālanirmāṇam tatra pañcamī vaktavyā iti . idam atra prayoktavyam sat na prayujyate gavīdhumataḥ niḥsṛtya sāṅkāśyam catvāri yojanāni . kārtikyāḥ āgrahāyaṇī māse iti . idam atra prayoktavyam sat na prayujyate . kārttikyāḥ prabhṛti āgrahāyaṇī māsa iti . tadyuktāt kāle saptamī vaktavyā iti . idam atra prayoktavyam sat na prayujyate . kārttikyāḥ āgrahāyaṇī gate māse iti . adhvanaḥ prathamā ca saptamī ca iti . idam atra prayoktavyam sat na prayujyate . gavīdhumato niḥsṛtya yadā catvāri yojanāni gatāni bhavanti tataḥ sāṅkāśyam . caturṣu yojaneṣu gateṣu sāṅkāśyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५६।७-८ रो इइ,८०० अञ्चूत्तरपदग्रहणम् किमर्थम् न दिक्शब्दैः योगे इति एव सिद्धम् । षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः ।

KA I,456.7-8 Ro II,800 añcūttarapadagrahaṇam kimartham na dikśabdaiḥ yoge iti eva siddham . ṣaṣṭhī atasarthapratyayena iti vakṣyati . tasya ayam purastāt apakarṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५६।१०-१५ रो इइ,८०१ अर्थग्रहणम् किमर्थम् । षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् । दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति । इह न स्यात् । उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति । अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः । अथ प्रत्ययग्रहणम् किमर्थम् । इह मा भूत् । प्राक् ग्रामात् प्रत्यक् ग्रामात् । अञ्चूत्तरपदस्य अपि एतत् प्रयोजनम् उक्तम् । तत्र अन्यतरत् शक्यम् अकर्तुम् ।

KA I,456.10-15 Ro II,801 arthagrahaṇam kimartham . ṣaṣṭhī ataspratyayena iti ucyamāne iha eva syāt . dakṣiṇato grāmasya uttarato grāmasya iti . iha na syāt . upari grāmasya upariṣṭāt grāmasya iti . arthagrahaṇe punaḥ kriyamāṇe ataspratyayena ca siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ . atha pratyayagrahaṇam kimartham . iha mā bhūt . prāk grāmāt pratyak grāmāt . añcūttarapadasya api etat prayojanam uktam . tatra anyatarat śakyam akartum .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५६।१६-४५७।१५ रो इइ,८०१-८०३ पृथगादिषु पञ्चमीविधानम् । पृथगादिषु पञ्चमीविधेया । पृथक् देवदत्तात् । किमर्थम् न प्रकृतम् पञ्चमीग्रहणम् अनुवर्तते । क्व प्रकृतम् । अपादाने पञ्चमी इति। अनधिकारात् । अनधिकारः सः । अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः । अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् । दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य । एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् पञ्चमी भविष्यति । अस्ति अन्यत् अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् । किम् । यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् । कस्याम् च न अप्राप्तायाम् । अन्ततः षष्ठ्याम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । अपादाने पञ्चमी इति । ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति । एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते । अपादाने पञ्चमी । अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते पञ्चमी । षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे पञ्चमी । एनपा द्वितीया अन्यारादिभिर्योगे पञ्चमी । पृथग्विनानानाभिः तृतीया अन्यतरस्याम् । पञ्चमीग्रहणम् अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् । अथ वा मण्डूकगतयः अधिकाराः । तत्। यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य । अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः पञ्चम्याः द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अथ वा वक्ष्यति एतत् । अनुवर्तन्ते च नाम विधयः । न च अनुवर्तनात् एव भवन्ति । किम् तर्हि । यत्नात् भवन्ति इति ।

KA I,456.16-457.15 Ro II,801-803 pṛthagādiṣu pañcamīvidhānam . pṛthagādiṣu pañcamīvidheyā . pṛthak devadattāt . kimartham na prakṛtam pañcamīgrahaṇam anuvartate . kva prakṛtam . apādāne pañcamī iti. anadhikārāt . anadhikāraḥ saḥ . adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ . adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ vaktavyaḥ syāt . dakṣiṇena grāmam , dakṣiṇataḥ grāmasya . evam tarhi anyatarasyāṅgrahaṇasāmarthyāt pañcamī bhaviṣyati . asti anyat anyatarasyāṅgrahaṇasya prayojanam . kim . yasyām na aprāptāyām tṛtīyā ārabhyate sā yathā syāt . kasyām ca na aprāptāyām . antataḥ ṣaṣṭhyām . tat tarhi vaktavyam . na vaktavyam . prakṛtam anuvartate . kva prakṛtam . apādāne pañcamī iti . nanu ca uktam anadhikāraḥ saḥ adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ iti . evam tarhi sambandham anuvartiṣyate . apādāne pañcamī . anyārāditarartedikśabdāñcūttarapadājāhiyukte pañcamī . ṣaṣṭhī atasarthapratyayena anyārādibhiḥ yoge pañcamī . enapā dvitīyā anyārādibhiryoge pañcamī . pṛthagvinānānābhiḥ tṛtīyā anyatarasyām . pañcamīgrahaṇam anuvartate anyārādibhiḥ yoge iti nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . tat. yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā anyavacanāt cakārākaraṇāt prakṛtasya apavādaḥ vijñāyate yathā utsargeṇa prasaktasya . anyasyā vibhakteḥ vacanāt cakārasya anukarṣaṇārthasya akaraṇāt prakṛtāyaḥ pañcamyāḥ dvitīyāṣaṣṭhyau bādhike bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . atha vā vakṣyati etat . anuvartante ca nāma vidhayaḥ . na ca anuvartanāt eva bhavanti . kim tarhi . yatnāt bhavanti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५७।१७-२३ रो इइ,८०३-८०४ दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात् पञ्चमीप्रतिषेधः । दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधः वक्तव्यः । दूराद् ग्रामस्य । न वा तत्र अपि दर्शनात् अप्रतिषेधः । न वा तत्र अपि दर्शनात् पञ्चम्याः प्रतिषेधः अनर्थकः । तत्र अपि पञ्चमी दृश्यते । दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः ।

KA I,457.17-23 Ro II,803-804 dūrāntikārthebhyaḥ pañcamīvidhāne tadyuktāt pañcamīpratiṣedhaḥ . dūrāntikārthebhyaḥ pañcamīvidhāne tadyuktātpañcamyāḥ pratiṣedhaḥ vaktavyaḥ . dūrād grāmasya . na vā tatra api darśanāt apratiṣedhaḥ . na vā tatra api darśanāt pañcamyāḥ pratiṣedhaḥ anarthakaḥ . tatra api pañcamī dṛśyate . dūrāt āvasathāt mūtram dūrāt pādāvasecanam dūrāt ca bhāvyam dasyubhyaḥ dūrāt ca kupitāt guroḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५८।२-२९ रो इइ,८०४-८०६ सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् । सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् । अधीती व्याकरणे । परिगणिती याज्ञिक्ये । आम्नाती च्छन्दसि । साध्वसाधुप्रयोगे च । साध्वसाधुप्रयोगे च सप्तमी वक्तव्या । साधुः देवदत्तः मातरि । असाधुः पितरि । कारकार्हाणाम् च कारकत्वे । कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या । ऋद्धेषु भुञ्जानेषु दरिद्राः आसते । ब्राह्मणेषु तरत्सु वृषलाः आसते । अकारकार्हाणाम् चाकारकत्वे । अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या । मूर्खेषु आसीनेषु वृद्धाः भुञ्जते । वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति । तद्विपर्यासे च । तद्विपर्यासे च सप्तमी वक्तव्या । ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते । ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति । निमित्तात् कर्मसंयोगे । निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या । चर्मणि द्वीपिनम् हन्ति । दन्तयोः हन्ति कुञ्जरम् । केषेषु चमरीम् हन्ति । सीम्नि पुष्कलकः हतः ।

KA I,458.2-29 Ro II,804-806 saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam . saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam vaktavyam . adhītī vyākaraṇe . parigaṇitī yājñikye . āmnātī cchandasi . sādhvasādhuprayoge ca . sādhvasādhuprayoge ca saptamī vaktavyā . sādhuḥ devadattaḥ mātari . asādhuḥ pitari . kārakārhāṇām ca kārakatve . kārakārhāṇām ca kārakatve saptamī vaktavyā . ṛddheṣu bhuñjāneṣu daridrāḥ āsate . brāhmaṇeṣu taratsu vṛṣalāḥ āsate . akārakārhāṇām cākārakatve . akārakārhāṇām cākārakatve saptamī vaktavyā . mūrkheṣu āsīneṣu vṛddhāḥ bhuñjate . vṛṣaleṣu āsīneṣu brāhmaṇāḥ taranti . tadviparyāse ca . tadviparyāse ca saptamī vaktavyā . ṛddheṣu āsīneṣu mūrkhāḥ bhuñjate . brāhmaṇeṣu āsīneṣu vṛṣalāḥ taranti . nimittāt karmasaṃyoge . nimittātkarmasaṃyoge saptamī vaktavyā . carmaṇi dvīpinam hanti . dantayoḥ hanti kuñjaram . keṣeṣu camarīm hanti . sīmni puṣkalakaḥ hataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५८।२१-४५९।१० रो इइ,८०६-८०७ भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् । भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् कर्तव्यम् । अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः । गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः । किम् पुनः कारणम् न सिध्यति । लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते । सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः । सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात् । सिद्धमेतत् । कथम् । यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् इति । न एषः दोषः । न खलु अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते । सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति । तत् यथा । अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति । सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः । तस्य तत् एव लक्षणम् भवति ।

KA I,458.21-459.10 Ro II,806-807 bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam . bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam kartavyam . agniṣu hūyamāneṣu prasthitaḥ huteṣu āgataḥ . goṣu duhyamānāsu prasthitaḥ dugdhāsu āgataḥ . kim punaḥ kāraṇam na sidhyati . lakṣaṇam hi nāma tat bhavati yena punaḥ punaḥ lakṣyate . sakṛt ca asau katham cit agniṣu hūyamāneṣu prasthitaḥ huteṣu āgataḥ goṣu duhyamānāsu prasthitaḥ dugdhāsu āgataḥ . siddham tu bhāvapravṛttau yasya bhāvārambhavacanāt . siddhametat . katham . yasya bhāvapravṛttau dvitīyaḥ bhāvaḥ ārabhyate tatra saptamī vaktavyā . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam iti . na eṣaḥ doṣaḥ . na khalu avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate . sakṛt api yat nimittatvāya kalpate tat api lakṣaṇam bhavati . tat yathā . api bhavān kamaṇḍalupāṇim chātram adrākṣīt iti . sakṛt asau kamaṇḍalupāṇiḥ dṛṣṭaḥ chātraḥ . tasya tat eva lakṣaṇam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५९।१२-१६ रो इइ,८०७ इह कस्मात् न भवति । कृष्णा गवाम् सम्पन्नक्षीरतमा इति । विभक्ते इति उच्यते । न च एतत् विभक्तम् । विभक्तमेतत् । गोभ्यः कृष्णा विभज्यते । विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् । न च एतत् नित्यम् विभक्तम् । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । विभक्तग्रहणसामर्थ्यात् । यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् ।

KA I,459.12-16 Ro II,807 iha kasmāt na bhavati . kṛṣṇā gavām sampannakṣīratamā iti . vibhakte iti ucyate . na ca etat vibhaktam . vibhaktametat . gobhyaḥ kṛṣṇā vibhajyate . vibhaktam eva yat nityam tatra bhavitavyam . na ca etat nityam vibhaktam . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . vibhaktagrahaṇasāmarthyāt . yadi hi yat vibhaktam ca avibhaktam ca tatra syāt vibhāktagrahaṇam anarthakam syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५९।१८-१९ रो इइ,८०८ अप्रत्यादिभिः इति वक्तव्यम् । इह अपि यथा स्यात् । साधुः देवदत्तः मातरम् परि । मातरम् अनु ।

KA I,459.18-19 Ro II,808 apratyādibhiḥ iti vaktavyam . iha api yathā syāt . sādhuḥ devadattaḥ mātaram pari . mātaram anu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४५९।२१-२२ रो इइ,८०८ प्रसितः इति उच्यते कः प्रसितः नाम । यः तत्र नित्यम् प्रतिबद्धः । कुतः एतत् । सिनोतिः अयम् बध्नात्यर्थे वर्तते । बद्धः इव असौ तत्र भवति ।

KA I,459.21-22 Ro II,808 prasitaḥ iti ucyate kaḥ prasitaḥ nāma . yaḥ tatra nityam pratibaddhaḥ . kutaḥ etat . sinotiḥ ayam badhnātyarthe vartate . baddhaḥ iva asau tatra bhavati .

Sanskrit only: no published translation is held for this verse.