क्अ इ,४४३।२०-४४४।११ रो इइ,७६९-७७० समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् । समया ग्रामम् निकषा ग्रामम् । हायोगे । हा देवदत्तम् । हा यज्ञदत्तम् । अपरः आह : द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् । द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् । अभितः ग्रामम् परितः ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । अधि अधि ग्रामम् । धिक् जाल्मम् धिक् वृषलम् । अपरः आह । उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते । उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या । उभयतः ग्रामम् सर्वतः ग्रामम् । धिग्योगे । धिक् जाल्मम् धिक् वृषलम् । उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या । उपरि उपरि ग्रामम् । अधि अधि ग्रामम् । अधः अधः ग्रामम् । ततः अन्यत्र अपि दृश्यते । न देवदत्तम् प्रतिभाति किम् चित् । बुभुक्षितम् न प्रतिभाति किम् चित् ।
KA I,443.20-444.11 Ro II,769-770 samayānikaṣāhāyogeṣu upasaṅkhyānam . samayānikaṣāhāyogeṣu upasaṅkhyānam kartavyam . samayā grāmam nikaṣā grāmam . hāyoge . hā devadattam . hā yajñadattam . aparaḥ āha : dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam . dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam kartavyam . abhitaḥ grāmam paritaḥ grāmam . samayā grāmam . nikaṣā grāmam . adhi adhi grāmam . dhik jālmam dhik vṛṣalam . aparaḥ āha . ubhasarvatasoḥ kāryā dhiguparyādiṣu triṣu dvitīyā āmreḍitānteṣu tataḥ anyatra api dṛśyate . ubhaya sarva iti etābhyām tasantābhyām dvitīyā vaktavyā . ubhayataḥ grāmam sarvataḥ grāmam . dhigyoge . dhik jālmam dhik vṛṣalam . uparyādiṣu triṣu āmreḍitānteṣu dvitīyā vaktavyā . upari upari grāmam . adhi adhi grāmam . adhaḥ adhaḥ grāmam . tataḥ anyatra api dṛśyate . na devadattam pratibhāti kim cit . bubhukṣitam na pratibhāti kim cit .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.