क्अ इ,४४४।१३-२२ रो इइ,७७१-७७२ किमर्थम् इदम् उच्यते । तृतीया यथा स्यात् । अथ द्वितीया सिद्धा । सिद्धा कर्मणि इति एव । तृतीया अपि सिद्धा । कथम् । सुपाम् सुपः भवन्ति इति एव । असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः । यवाग्वा अग्निहोत्रं जुहोति । एवम् तर्हि तृतीया अपि सिद्धा । कथम् । कर्तृकरणयोः इति एव । अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते । तद्यथा । अग्निहोत्रम् प्रज्वलयति इति । अस्ति हविषि वर्तते । तत् यथा । अग्निहोत्रम् जुहोति इति । जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते । तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे । तत् यथा । यवाग्वा अग्निहोत्रम् जुहोति । अग्निं प्रीणाति । यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे । तत् यथा । यवागूम् अग्निहोत्रम् जुहोति । यवागूम् हविः अग्नौ प्रक्षिपति ।
KA I,444.13-22 Ro II,771-772 kimartham idam ucyate . tṛtīyā yathā syāt . atha dvitīyā siddhā . siddhā karmaṇi iti eva . tṛtīyā api siddhā . katham . supām supaḥ bhavanti iti eva . asati etasmin supām supaḥ bhavanti iti tṛtīyārthaḥ ayam ārambhaḥ . yavāgvā agnihotraṃ juhoti . evam tarhi tṛtīyā api siddhā . katham . kartṛkaraṇayoḥ iti eva . ayam agnihotraśabdaḥ asti eva jyotiṣi vartate . tadyathā . agnihotram prajvalayati iti . asti haviṣi vartate . tat yathā . agnihotram juhoti iti . juhotiḥ ca asti eva prakṣepaṇe vartate asti prīṇātyarthe vartate . tat yathā tāvat yavāgūśabdāt tṛtīyā tadā agnihotraśabdaḥ jyotiṣi vartate juhotiḥ ca prīṇātyarthe . tat yathā . yavāgvā agnihotram juhoti . agniṃ prīṇāti . yadā yavāgūśabdāt dvitīyā tadā agnihotraśabdaḥ haviṣi vartate juhotiḥ ca prakṣepaṇe . tat yathā . yavāgūm agnihotram juhoti . yavāgūm haviḥ agnau prakṣipati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.