क्अ इ,४५८।२-२९ रो इइ,८०४-८०६ सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् । सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् । अधीती व्याकरणे । परिगणिती याज्ञिक्ये । आम्नाती च्छन्दसि । साध्वसाधुप्रयोगे च । साध्वसाधुप्रयोगे च सप्तमी वक्तव्या । साधुः देवदत्तः मातरि । असाधुः पितरि । कारकार्हाणाम् च कारकत्वे । कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या । ऋद्धेषु भुञ्जानेषु दरिद्राः आसते । ब्राह्मणेषु तरत्सु वृषलाः आसते । अकारकार्हाणाम् चाकारकत्वे । अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या । मूर्खेषु आसीनेषु वृद्धाः भुञ्जते । वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति । तद्विपर्यासे च । तद्विपर्यासे च सप्तमी वक्तव्या । ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते । ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति । निमित्तात् कर्मसंयोगे । निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या । चर्मणि द्वीपिनम् हन्ति । दन्तयोः हन्ति कुञ्जरम् । केषेषु चमरीम् हन्ति । सीम्नि पुष्कलकः हतः ।
KA I,458.2-29 Ro II,804-806 saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam . saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam vaktavyam . adhītī vyākaraṇe . parigaṇitī yājñikye . āmnātī cchandasi . sādhvasādhuprayoge ca . sādhvasādhuprayoge ca saptamī vaktavyā . sādhuḥ devadattaḥ mātari . asādhuḥ pitari . kārakārhāṇām ca kārakatve . kārakārhāṇām ca kārakatve saptamī vaktavyā . ṛddheṣu bhuñjāneṣu daridrāḥ āsate . brāhmaṇeṣu taratsu vṛṣalāḥ āsate . akārakārhāṇām cākārakatve . akārakārhāṇām cākārakatve saptamī vaktavyā . mūrkheṣu āsīneṣu vṛddhāḥ bhuñjate . vṛṣaleṣu āsīneṣu brāhmaṇāḥ taranti . tadviparyāse ca . tadviparyāse ca saptamī vaktavyā . ṛddheṣu āsīneṣu mūrkhāḥ bhuñjate . brāhmaṇeṣu āsīneṣu vṛṣalāḥ taranti . nimittāt karmasaṃyoge . nimittātkarmasaṃyoge saptamī vaktavyā . carmaṇi dvīpinam hanti . dantayoḥ hanti kuñjaram . keṣeṣu camarīm hanti . sīmni puṣkalakaḥ hataḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.