क्अ इ,४६५।२-१७ रो इइ,८२६-८२७ कर्मादिषु अकर्मकवद्वचनम् । कर्मादिषु अकर्मकवद्भावः वक्तव्यः । किम् प्रयोजनम् । अकर्मकाणाम् भावे लः भवति । भावे लः यथा स्यात् । मातुः स्मर्यते । पितुः स्मर्यते । अथ वत्करणम् किमर्थम् । स्वाश्रयम् अपि यथा स्यात् । माता स्मर्यते । पिता स्मर्यते इति । कर्माभिधाने हि लिङ्गवचनानुपपत्तिः । कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् । मातुः स्मृतम् । मात्रोः स्मृतम् । माटॄणाम् स्मृतम् इति । मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति । षष्ठीप्रसण्गः च । षष्ठी च प्राप्नोति । कुतः । स्मृतशब्दात् । मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति । अपरः आह : षष्ठीप्रसङ्गः च । षष्ठी च प्रसङ्क्तव्या । कुतः । मातृशब्दात् । स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अविवक्षिते कर्मणि षष्ठी भवति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । शेषे इति वर्तते । शेषः च कः । कर्मादीनाम् अविवक्षा शेषः । यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति । तत् यथा । स्मरामि अहम् मातरम् । स्मरामि अहम् पितरम् इति ।
KA I,465.2-17 Ro II,826-827 karmādiṣu akarmakavadvacanam . karmādiṣu akarmakavadbhāvaḥ vaktavyaḥ . kim prayojanam . akarmakāṇām bhāve laḥ bhavati . bhāve laḥ yathā syāt . mātuḥ smaryate . pituḥ smaryate . atha vatkaraṇam kimartham . svāśrayam api yathā syāt . mātā smaryate . pitā smaryate iti . karmābhidhāne hi liṅgavacanānupapattiḥ . karmābhidhāne hi sati liṅgavacanayoḥ anupapattiḥ syāt . mātuḥ smṛtam . mātroḥ smṛtam . māṭṝṇām smṛtam iti . mātuḥ yat liṅgam vacanam ca tat smṛtaśabdasya api prāpnoti . ṣaṣṭhīprasaṇgaḥ ca . ṣaṣṭhī ca prāpnoti . kutaḥ . smṛtaśabdāt . mātuḥ sāmānādhikaraṇyāt ṣaṣṭhī prāpnoti . aparaḥ āha : ṣaṣṭhīprasaṅgaḥ ca . ṣaṣṭhī ca prasaṅktavyā . kutaḥ . mātṛśabdāt . smṛtaśabdena bhihitam karma iti kṛtvā ṣaṣṭhī na prāpnoti . tat tarhi vaktavyam . na vaktavyam . avivakṣite karmaṇi ṣaṣṭhī bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . śeṣe iti vartate . śeṣaḥ ca kaḥ . karmādīnām avivakṣā śeṣaḥ . yadā karma vivakṣitam bhavati tadā ṣaṣṭhī na bhavati . tat yathā . smarāmi aham mātaram . smarāmi aham pitaram iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.