क्अ इ,४७८।५-४७९ रो इइ,८५७-८६२ किमर्थम् इदम् उच्यते । द्वन्द्वः अयम् उभयपदार्थप्रधानः । तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य । इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति । एवमर्थम् इदम् उच्यते । तत्पुरुषः च कः प्रयोजयति । यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति । यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः । प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः । अलम्पूर्वः । अलम् जीविकायाः अलम्जीविकः । गतिसमास । निष्कौशाम्बिः निर्वाराणसिः । पूर्वपदस्य च । पूर्वपदस्य च प्रतिषेधः वक्तव्यः । मयूरीकुक्कुटौ । यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत । समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् । समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः । अश्ववडवौ । निपातनात् सिद्धम् । निपातनात् सिद्धम् एतत् । किम् निपातनम् । आश्ववडवपूर्वापर इति । उपसर्जनह्रस्वत्वम् वा । अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति । इह अपि तर्हि प्राप्नोति । कुक्कुटमयूर्यौ । अस्तु । परवत् लिङ्गम् इति शब्दशब्दार्थौ । परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते । तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति । इदम् तर्हि । दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ । द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः । स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति । इदम् तर्हि । दत्ता च युवतिः च दत्तायुवती । द्वौ तिशब्दौ प्राप्नुतः । तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति । ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति । परिहृतम् एतत् : निपातनात् सिद्धम् इति । अथ वा न एवम् विज्ञायते परस्य एव परवत् इति । कथम् तर्हि । परस्य इव परवत् इति । यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते । अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् । प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम् । द्वन्द्वैकदेशिनोः इति वक्ष्यामि । तत् एकदेशिग्रहणम् कर्तव्यम् । न कर्तव्यम् । एकदेशिसमासः न आरप्स्यते । कथम् अर्धपिप्पली इति । समानाधिकरणसमासः भविष्यति । अर्धम् च सा पिप्पली च अर्धपिप्पली इति । न सिध्यति । परत्वात् षष्ठीसमासः प्राप्नोति । अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते । इष्यते च षष्ठीसमासः अपि । तत् यथा । अपूपार्धम् मया भक्षितम् । ग्रामार्धम् मया लब्धम् इति । एवम् पिप्पल्यर्धम् इति भवितव्यम् । कथम् अर्धपिप्पली इति । समानाधिकरणः भविष्यति ।
KA I,478.5-479 Ro II,857-862 kimartham idam ucyate . dvandvaḥ ayam ubhayapadārthapradhānaḥ . tatra kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya . iṣyate ca parasya yat liṅgam tat samāsasya syāt iti . tat ca antareṇa yatnam na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti . evamartham idam ucyate . tatpuruṣaḥ ca kaḥ prayojayati . yaḥ pūrvapadārthapradhānaḥ ekadeśisamāsaḥ ardhapippalī iti . yaḥ hi uttarapadārthapradhānaḥ daivakṛtam tasya paravat liṅgam . paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ . paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ vaktavyaḥ . prāptaḥ jīvikām praptajīvikaḥ āpannaḥ jīvikām apannajīvikaḥ . alampūrvaḥ . alam jīvikāyāḥ alamjīvikaḥ . gatisamāsa . niṣkauśāmbiḥ nirvārāṇasiḥ . pūrvapadasya ca . pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . mayūrīkukkuṭau . yadi punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat atidiśyeta . samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam . samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ luk vaktavyaḥ . aśvavaḍavau . nipātanāt siddham . nipātanāt siddham etat . kim nipātanam . āśvavaḍavapūrvāpara iti . upasarjanahrasvatvam vā . atha vā upasarjanasya iti hrasvatvam bhaviṣyati . iha api tarhi prāpnoti . kukkuṭamayūryau . astu . paravat liṅgam iti śabdaśabdārthau . paravat liṅgam iti śabdaśabdārthau atidiśyete . tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati . idam tarhi . dattā ca kārīṣagandhyā ca dattākārīṣagandhye dattā ca gārgyāyaṇī dattāgārgyāyaṇyau . dvau ṣyaṅau dvau ṣphau ca prāpnutaḥ . stām .pūmvadbhāvena ekasya nivṛttiḥ bhaviṣyati . idam tarhi . dattā ca yuvatiḥ ca dattāyuvatī . dvau tiśabdau prāpnutaḥ . tasmāt na etat śakyam vaktum śabdaśabdārthau atidiśyete iti . nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam iti . parihṛtam etat : nipātanāt siddham iti . atha vā na evam vijñāyate parasya eva paravat iti . katham tarhi . parasya iva paravat iti . yathājātīyakam parasya liṅgam tathājātīyakam samāsasya atidiśyate . atha pūrvapadasya na pratiṣidhyate prāptādiṣu katham . prāptādiṣu ca ekadeśigrahaṇāt siddham . dvandvaikadeśinoḥ iti vakṣyāmi . tat ekadeśigrahaṇam kartavyam . na kartavyam . ekadeśisamāsaḥ na ārapsyate . katham ardhapippalī iti . samānādhikaraṇasamāsaḥ bhaviṣyati . ardham ca sā pippalī ca ardhapippalī iti . na sidhyati . paratvāt ṣaṣṭhīsamāsaḥ prāpnoti . adya punaḥ ayam ekadeśisamāsaḥ ārabhyamāṇaḥ ṣaṣṭhīsamāsam bādhate . iṣyate ca ṣaṣṭhīsamāsaḥ api . tat yathā . apūpārdham mayā bhakṣitam . grāmārdham mayā labdham iti . evam pippalyardham iti bhavitavyam . katham ardhapippalī iti . samānādhikaraṇaḥ bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.