क्अ इ,४९८।२-१२ रो इइ,९०२-९०३ अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् । किम् कारणम् । लिङ्गाभावात् । अलिङ्गम् अव्ययम् । किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति । यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि । सत्यम् एतत् । प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति । आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति । उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति । किम् कारणम् । एकत्वादीनाम् अभावात् । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । न च एषाम् एकत्वादयः सन्ति । अविशेषेण उत्पद्यन्ते । उत्पन्नानाम् नियमः क्रियते । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।
KA I,498.2-12 Ro II,902-903 avyayāt āpaḥ lugvacanānarthakyam liṅgābhāvāt .avyayāt āpaḥ lugvacanam anarthakam . kim kāraṇam . liṅgābhāvāt . aliṅgam avyayam . kim idam bhavān supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati . yathā eva hi aliṅgam avyayam evam asaṅkhyam api . satyam etat . pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ supaḥ lukam mṛṣyati . āpaḥ punaḥ asya luki sati na kim cit api prayojanam asti . ucyamāne api etasmin svādyutpattiḥ na prāpnoti . kim kāraṇam . ekatvādīnām abhāvāt . ekatvādiṣu artheṣu svādayaḥ vidhīyante . na ca eṣām ekatvādayaḥ santi . aviśeṣeṇa utpadyante . utpannānām niyamaḥ kriyate . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam na ekasmin na bahuṣu . bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti . atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpasupaḥ iti sublukam śāsti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.