क्अ इइ,२१।८-१८ रो इइइ,५८-५९ आचारे गल्भक्लीबहोडेभ्यः क्विप् वा । आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः । अवगल्भते अवगल्भायते । क्लीब । विक्लीबते विक्लीबायते । क्लीब । होड । विहोडते विहोडायते । किम् प्रयोजनम् । क्रियावचनता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । धातवः एव गल्भादयः । न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । इदम् तर्हि प्रयोजनम् । अवगल्भा विक्लीबा विहोडा । अ प्रत्ययात् इति अकारः यथा स्यात् । मा भूत् एवम् । गुरोः च हलः इति एवम् भविष्यति । इदम् तर्हि । अवगल्भाम् चक्रे । विक्लीबाम् चक्रे । विहोडाम् चक्रे । कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् । अपरः आह : सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् । न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति । गल्भ क्लीब होड ।
KA II,21.8-18 Ro III,58-59 ācāre galbhaklībahoḍebhyaḥ kvip vā . ācāre galbhaklībahoḍebhyaḥ kvip vā vaktavyaḥ . avagalbhate avagalbhāyate . klība . viklībate viklībāyate . klība . hoḍa . vihoḍate vihoḍāyate . kim prayojanam . kriyāvacanatā yathā syāt . na etat asti prayojanam . dhātavaḥ eva galbhādayaḥ . na ca eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . idam tarhi prayojanam . avagalbhā viklībā vihoḍā . a pratyayāt iti akāraḥ yathā syāt . mā bhūt evam . guroḥ ca halaḥ iti evam bhaviṣyati . idam tarhi . avagalbhām cakre . viklībām cakre . vihoḍām cakre . kāspratyayāt ām amantre iti ām yathā syāt . aparaḥ āha : sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati iti evamartham . na tarhi idānīm galbhādyanukramaṇam kartavyam . kartavyam ca . kim prayojanam . ātmanepadārtham anubandhān āsaṅkṣyāmi iti . galbha klība hoḍa .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.