क्अ इइ,३३।२१-३४।७ रो इइइ,८९-९० कृष्यादिषु च अनुत्पत्तिः । कृष्यादिषु च अनुत्पत्तिः वक्तव्या । एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति । तत्र भवितव्यम् । पञ्चभिः हलैः कर्षयति इति । कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् । कृष्यादिषु च अनुत्पत्तिः सिद्धा । कुतः । नानाक्रियाणाम् कृष्यर्थत्वात् । नानाक्रियाः कृषेः अर्थाः । न अवश्यम् कृषिः विलेखने एव वर्तते । किम् तर्हि। प्रतिविधाने अपि वर्तते । यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः । आतः च प्रतिविधाने वर्तते । यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते । यज्यादिषु च अविपर्यासः । यज्यादिषु च अविपर्यासः वक्तव्यः । पुष्यमित्रः यजते । याजकाः याजयन्ति इति । तत्र भवितव्यम् । पुष्यमित्रः याजयते । याजकाः यजन्ति इति । यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् । यज्यादिषु च अविपर्यासः सिद्धः । कुतः । नानाक्रियाणाम् यज्यर्थत्वात् । नानाक्रियाः यजेः अर्थाः । न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते । किम् तर्हि । त्यागे अपि वर्तते । अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति । तम् च पुष्यमित्रः करोति । याजकाः प्रयोजयन्ति ।
KA II,33.21-34.7 Ro III,89-90 kṛṣyādiṣu ca anutpattiḥ . kṛṣyādiṣu ca anutpattiḥ vaktavyā . ekānte tūṣṇīm āsīnaḥ ucyate pañcabhiḥ halaiḥ kṛṣati iti . tatra bhavitavyam . pañcabhiḥ halaiḥ karṣayati iti . kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt . kṛṣyādiṣu ca anutpattiḥ siddhā . kutaḥ . nānākriyāṇām kṛṣyarthatvāt . nānākriyāḥ kṛṣeḥ arthāḥ . na avaśyam kṛṣiḥ vilekhane eva vartate . kim tarhi. pratividhāne api vartate . yat asau bhaktabījabalīvardaiḥ pratividhānam karoti saḥ kṛṣyarthaḥ . ātaḥ ca pratividhāne vartate . yadahaḥ eva asau na pratividhatte tadahaḥ tat karma na pravartate . yajyādiṣu ca aviparyāsaḥ . yajyādiṣu ca aviparyāsaḥ vaktavyaḥ . puṣyamitraḥ yajate . yājakāḥ yājayanti iti . tatra bhavitavyam . puṣyamitraḥ yājayate . yājakāḥ yajanti iti . yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt . yajyādiṣu ca aviparyāsaḥ siddhaḥ . kutaḥ . nānākriyāṇām yajyarthatvāt . nānākriyāḥ yajeḥ arthāḥ . na avaśyam yajiḥ haviṣprakṣepaṇe eva vartate . kim tarhi . tyāge api vartate . aho yajate iti ucyate yaḥ suṣṭhu tyāgam karoti . tam ca puṣyamitraḥ karoti . yājakāḥ prayojayanti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.