Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.26

Patanjali: Vyakaranamahabhasya 3.1.26

क्अ इइ,३१।७-३२।२६ रो इइइ,८०-८६ कथम् इदम् विज्ञायते । हेतुमति अभिधेये णिच् भवति इति । आहोस्वित् हेतुमति यः धातुः वर्तते इति । युक्तम् पुनः इदम् विचारयितुम् । ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते । यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् । न एतत् अस्ति । भवन्ति इह हि विषयसप्तम्यः अपि । तत् यथा । प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति । एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा । अत उत्तरम् पठति । हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः । हेतुमति इति कारकम् उपादीयते । किम् प्रयोजनम् । प्रत्ययार्थपरिग्रहार्थम् । एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति । यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते । यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति । प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते । तनूकरणक्रियायाम् तक्षः इति । अस्तु प्रकृत्यर्थविशेषणम् । कः दोषः । इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः । स्वशब्देन उक्तत्वात् न भविष्यति । प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः । यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते । यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते । इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न दोषः । प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते । यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया । इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति । इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति । अस्तु तर्हि प्रत्ययार्थविशेषणम् । यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति । भवति हि तस्य तस्मिन् ईप्सा । इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति । इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति । इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति । न एषः दोषः । यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति । एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति । यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति । न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति । कथम् तर्हि । साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते । ग्रामम् गच्छ । ग्रामाय गच्छ इति । यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति । न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति । कथम् तर्हि । साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते । एधोदकस्य उपस्कुरुष्व इति । यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति । उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति । यत् अपि उच्यते इह च अभिषावयति परिषावयति

KA II,31.7-32.26 Ro III,80-86 katham idam vijñāyate . hetumati abhidheye ṇic bhavati iti . āhosvit hetumati yaḥ dhātuḥ vartate iti . yuktam punaḥ idam vicārayitum . nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate . yadi hi prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam brūyāt . na etat asti . bhavanti iha hi viṣayasaptamyaḥ api . tat yathā . pramāṇe yat prātipadikam vartate striyām yat prātipadikam vartate iti . evam iha api hetumati abhidheye ṇic bhavati hetumati yaḥ dhātuḥ vartate iti jāyate vicāraṇā . ata uttaram paṭhati . hetumati iti kārakopādānam pratyayārthaparigrahārtham yathā tanūkaraṇe takṣaḥ . hetumati iti kārakam upādīyate . kim prayojanam . pratyayārthaparigrahārtham . evam sati pratyayārthaḥ suparigṛhītaḥ bhavati . yathā tanūkaraṇe takṣaḥ iti tanūkaraṇam upādīyate . yadi tarhi tadvat prakṛtyarthaviśeṣaṇam bhavati . prakṛtyarthaviśeṣaṇam hi tat tatra vijñāyate . tanūkaraṇakriyāyām takṣaḥ iti . astu prakṛtyarthaviśeṣaṇam . kaḥ doṣaḥ . iha hi uktaḥ karoti preṣitaḥ karoti iti ṇic prāpnoti . pratyayārthaviśeṣaṇe punaḥ sati na eṣaḥ doṣaḥ . svaśabdena uktatvāt na bhaviṣyati . prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ . yatra na antareṇa śabdam arthasya gatiḥ bhavati tatra śabdaḥ prayujyate . yatra hi antareṇa api śabdam arthasya gatiḥ bhavati na tatra śabdaḥ prayujyate . iha tarhi pācayati odanam devadattaḥ yajñadattena iti ubhayoḥ kartroḥ lena abhidhānam prāpnoti . pratyayārthaviśeṣaṇe punaḥ sati na doṣaḥ . pradhānakartari lādayaḥ bhavanti iti pradhānakartā lena abhidhīyate . yaḥ ca apradhānam siddha tatra kartari iti eva tṛtīyā . iha ca gamitaḥ grāmam devadattaḥ yajñadattanea iti avyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti . iha ca vyatibhedayante vyaticchedayante iti avyatiriktaḥ hiṃsārthaḥ iti kṛtvā na gatihiṃsārthebhyaḥ iti pratiṣedhaḥ prāpnoti . astu tarhi pratyayārthaviśeṣaṇam . yadi pratyayārthaviśeṣaṇam pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti . bhavati hi tasya tasmin īpsā . iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti . iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti . iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi iti etat niyamārtham bhaviṣyati . eteṣām eva aṇyantānām yaḥ kartā saḥ ṇau karmasañjñaḥ bhavati na anyeṣām iti . yat api ucyate iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ iti . na asau evam preṣyate gaccha grāmam iti . katham tarhi . sādhanaviśiṣṭām asau kriyām preṣyate . grāmam gaccha . grāmāya gaccha iti . yat api ucyate iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti iti . na asau evam preṣyate upaskuruṣva edhodakasya iti . katham tarhi . sādhanaviśiṣṭām asau kriyām preṣyate . edhodakasya upaskuruṣva iti . yat api ucyate iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti iti . uktam tatra kṛdgrahaṇasya prayojanam kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti . yat api ucyate iha ca abhiṣāvayati pariṣāvayati

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।१-८ रो इइइ,८७-८८ हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् । हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् । यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति । किम् प्रयोजनम् । बिक्षादिषु दर्शनात् । भिक्षादिषु हि णिच् दृश्यते । भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति । किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति । एवम् मन्यते । चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति । भिक्षाः च अचेतनाः । न एषः दोषः । न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति । तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति । भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति । तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।

KA II,33.1-8 Ro III,87-88 hetunirdeśaḥ ca nimittamātram bikṣādiṣu darśanāt . hetunirdeśaḥ ca nimittamātram draṣṭavyam . yāvat brūyāt nimittam kāraṇam iti tāvt hetuḥ iti . kim prayojanam . bikṣādiṣu darśanāt . bhikṣādiṣu hi ṇic dṛśyate . bhikṣāḥ vāsayanti .kāriṣaḥ agniḥ adhyāpayati iti . kim punaḥ kāraṇam pāribhāṣike hetau na sidhyati . evam manyate . cetanāvataḥ etat bhavati preṣaṇam adhyeṣaṇam ca iti . bhikṣāḥ ca acetanāḥ . na eṣaḥ doṣaḥ . na avaśyam saḥ eva vāsam prayojayati yaḥ āha uṣyatām iti . tūṣṇīm āsīnaḥ yaḥ tatsamarthāni ācarati saḥ api vāsam prayojayati . bhikṣāḥ ca api pracurāḥ vyañjanavatyaḥ labhyamānāḥ vāsam prayojayanti . tathā kārīṣaḥ agniḥ nirvāte ekānte suprajvalitaḥ adhyayanam prayojayati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।९-२० रो इइइ,८८-८९ इह कः चित् कम् चित् आह । पृच्छतु मा भवान् । अनुयुङ्क्ताम् मा भवान् इति । अत्र णिच् कस्मात् न भवति । अकर्तृत्वात् । न हि असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः । भूतभविष्यत्कालायाः अपि भवितव्यम् । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् अकार्षीत् । इमाम् क्रियाम् करिष्यति इति । इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते । अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् कुरु इति । कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते । कथम् । कर्ता च अस्याः क्रियायाः भव इति । एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते । अथ अपि कथम् चित् कर्ता स्यात् । एवम् अपि न दोषः । लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति । विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः । यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् । तत् यथा आसय शायय इति ।

KA II,33.9-20 Ro III,88-89 iha kaḥ cit kam cit āha . pṛcchatu mā bhavān . anuyuṅktām mā bhavān iti . atra ṇic kasmāt na bhavati . akartṛtvāt . na hi asau samprati pṛcchati . tūṣṇīm āste . kim ca bhoḥ vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ . bhūtabhaviṣyatkālāyāḥ api bhavitavyam . abhisambandhaḥ tatra kriyate . imām kriyām akārṣīt . imām kriyām kariṣyati iti . iha punaḥ na kaḥ cit abhisambandhaḥ kriyate na ca asau samprati pṛcchati . tūṣṇīm āste . yadi tarhi kartā na asti katham tarhi kartṛpratyayena loṭā abhidhīyate . atham katham asmin apṛcchati ayam pracchiḥ vartate . abhisambandhaḥ tatra kriyate . imām kriyām kuru iti . kartrā api tarhi abhisambandhaḥ kriyate . katham . kartā ca asyāḥ kriyāyāḥ bhava iti . evam na ca kartā kartṛpratyayena ca loṭā abhidhīyate . atha api katham cit kartā syāt . evam api na doṣaḥ . loṭā uktatvāt preṣaṇasya ṇic na bhaviṣyati . vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ . yatra ca dvitīyaḥ prayojyaḥ arthaḥ bhavati bhavati tatra ṇic . tat yathā āsaya śāyaya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।२१-३४।७ रो इइइ,८९-९० कृष्यादिषु च अनुत्पत्तिः । कृष्यादिषु च अनुत्पत्तिः वक्तव्या । एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति । तत्र भवितव्यम् । पञ्चभिः हलैः कर्षयति इति । कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् । कृष्यादिषु च अनुत्पत्तिः सिद्धा । कुतः । नानाक्रियाणाम् कृष्यर्थत्वात् । नानाक्रियाः कृषेः अर्थाः । न अवश्यम् कृषिः विलेखने एव वर्तते । किम् तर्हि। प्रतिविधाने अपि वर्तते । यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः । आतः च प्रतिविधाने वर्तते । यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते । यज्यादिषु च अविपर्यासः । यज्यादिषु च अविपर्यासः वक्तव्यः । पुष्यमित्रः यजते । याजकाः याजयन्ति इति । तत्र भवितव्यम् । पुष्यमित्रः याजयते । याजकाः यजन्ति इति । यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् । यज्यादिषु च अविपर्यासः सिद्धः । कुतः । नानाक्रियाणाम् यज्यर्थत्वात् । नानाक्रियाः यजेः अर्थाः । न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते । किम् तर्हि । त्यागे अपि वर्तते । अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति । तम् च पुष्यमित्रः करोति । याजकाः प्रयोजयन्ति ।

KA II,33.21-34.7 Ro III,89-90 kṛṣyādiṣu ca anutpattiḥ . kṛṣyādiṣu ca anutpattiḥ vaktavyā . ekānte tūṣṇīm āsīnaḥ ucyate pañcabhiḥ halaiḥ kṛṣati iti . tatra bhavitavyam . pañcabhiḥ halaiḥ karṣayati iti . kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt . kṛṣyādiṣu ca anutpattiḥ siddhā . kutaḥ . nānākriyāṇām kṛṣyarthatvāt . nānākriyāḥ kṛṣeḥ arthāḥ . na avaśyam kṛṣiḥ vilekhane eva vartate . kim tarhi. pratividhāne api vartate . yat asau bhaktabījabalīvardaiḥ pratividhānam karoti saḥ kṛṣyarthaḥ . ātaḥ ca pratividhāne vartate . yadahaḥ eva asau na pratividhatte tadahaḥ tat karma na pravartate . yajyādiṣu ca aviparyāsaḥ . yajyādiṣu ca aviparyāsaḥ vaktavyaḥ . puṣyamitraḥ yajate . yājakāḥ yājayanti iti . tatra bhavitavyam . puṣyamitraḥ yājayate . yājakāḥ yajanti iti . yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt . yajyādiṣu ca aviparyāsaḥ siddhaḥ . kutaḥ . nānākriyāṇām yajyarthatvāt . nānākriyāḥ yajeḥ arthāḥ . na avaśyam yajiḥ haviṣprakṣepaṇe eva vartate . kim tarhi . tyāge api vartate . aho yajate iti ucyate yaḥ suṣṭhu tyāgam karoti . tam ca puṣyamitraḥ karoti . yājakāḥ prayojayanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३४।८-१३ रो इइइ,९१-९२ तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् । तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । सूत्रयत्याद्यर्थम् । सूत्रम् करोति । सूत्रयति । इह व्याकरणस्य सूत्रम् करोति । व्याकरणम् सूत्रयति इति । वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया । केन एतत् एवम् भवति । यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते । अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

KA II,34.8-13 Ro III,91-92 tat karoti iti upasaṅkhyānam sūtrayatyādyartham . tat karoti iti upasaṅkhyānam kartavyam . kim prayojanam . sūtrayatyādyartham . sūtram karoti . sūtrayati . iha vyākaraṇasya sūtram karoti . vyākaraṇam sūtrayati iti . vākye ṣaṣṭhī utpanne ca pratyaye dvitīyā . kena etat evam bhavati . yaḥ asau sūtravyākaraṇayoḥ abhisambandhaḥ saḥ utpanne pratyaye nivartate . asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३४।१४-३६।२१ रो इइइ,९२-९७ आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् । कंसवधम् आचष्टे कंसम् घातयति । बलिबन्धम् आचष्टे बलिम् बन्धयति । आख्यानात् च प्रतिषेधः । आख्यानशब्दात् च प्रतिषेधः वक्तव्यः । आख्यानम् आचष्टे । किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् । किम् च अतः । यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति । राजागमनम् आचष्टे ऋअजानम् आगमयति । अथ क्रियान्वाख्यानमात्रात् न दोषः भवति । यथा न दोषः तथा अस्तु । दृश्यर्थानाम् च प्रवृत्तौ । दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । मृगरमणम् आचष्टे मृगान् रमयति इति । दृश्यर्थानाम् इति किमर्थम् । यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति । आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् । कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति । चित्रीकरणे प्रापि । चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति । नक्षत्रयोगे ज्ञि । नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । पुष्ययोगम् जानाति पुष्येण योजयति । मघाभिः योजयति । तत् तर्हि बहु वक्तव्यम् । न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् । न वा वक्तव्यम् । किम् कारणम् । सामान्यकृतत्वात् । सामान्येन एव अत्र णिच् भविष्यति । हेतुमति इति । किम् कारणम् । हेतुतः हि अविशिष्टम् । हेतुतः हि अविशिष्टम् भवति । तुल्या हि हेतुता देवदत्ते च आदित्ये च । न सिध्यति । स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते । न च असौ आदित्यम् प्रयोजयति । स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् । यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् । कथम् । प्रवृत्तिः हि उभयत्र अनपेक्ष्य । प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च । न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते । सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते । ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति । तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति । तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति । एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् । यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् । यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः । यत् अभिप्रायेषु सज्जन्ते । ईदृशौ वध्रौ कुरु । ईदृशौ पटुकौ कुरु । आदित्यः च अस्य अभिप्राये सज्जते । एषः तस्य अभिप्रायः । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति । तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति । भवेत् इह वर्तमानकालता युक्ता । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति । तत्रस्थस्य हि तस्य आदित्यः उदेति । इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ । अत्र अपि युक्ता । कथम् । ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति । चित्रेषु कथम् । चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च । ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते । ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान्

KA II,34.14-36.21 Ro III,92-97 ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam . ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti vaktavyam . kaṃsavadham ācaṣṭe kaṃsam ghātayati . balibandham ācaṣṭe balim bandhayati . ākhyānāt ca pratiṣedhaḥ . ākhyānaśabdāt ca pratiṣedhaḥ vaktavyaḥ . ākhyānam ācaṣṭe . kim punaḥ yāni etāni sañjñābhūtāni ākhyānāni tataḥ utpattyā bhavitavyam āhosvit kriyānvākhyānamātrāt . kim ca ataḥ . yadi sañjñābhūtebhyaḥ iha na prāpnoti . rājāgamanam ācaṣṭe ṛajānam āgamayati . atha kriyānvākhyānamātrāt na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . dṛśyarthānām ca pravṛttau . dṛśyarthānām ca pravṛttau kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . mṛgaramaṇam ācaṣṭe mṛgān ramayati iti . dṛśyarthānām iti kimartham . yadā hi grāme mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti . āṅlopaḥ ca kālātyantasaṃyoge maryādāyām . kālātyantasaṃyoge maryādayām kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . ārātrimvivāsam ācaṣṭe rātrim vivāsayati iti . citrīkaraṇe prāpi . citrīkaraṇe prāpyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati . nakṣatrayoge jñi . nakṣatrayoge jānātyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . puṣyayogam jānāti puṣyeṇa yojayati . maghābhiḥ yojayati . tat tarhi bahu vaktavyam . na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam . na vā vaktavyam . kim kāraṇam . sāmānyakṛtatvāt . sāmānyena eva atra ṇic bhaviṣyati . hetumati iti . kim kāraṇam . hetutaḥ hi aviśiṣṭam . hetutaḥ hi aviśiṣṭam bhavati . tulyā hi hetutā devadatte ca āditye ca . na sidhyati . svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate . na ca asau ādityam prayojayati . svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṃśayena tulyam . yam bhavān svatrantraprayojakam muktasaṃśayam nyāyyam manyate pācayati odanam devadattaḥ yajñadattena iti tena etat tulyam . katham . pravṛttiḥ hi ubhayatra anapekṣya . pravṛttiḥ hi ubhayatra anapekṣya eva kim cit bhavati devadatte ca āditye ca . na iha kaḥ cit paraḥ anugrahītavyaḥ iti pravartate . sarve ime svabhūtyartham pravartante . ye tāvat ete guruśuśrūṣavaḥ te api svabhūtyartham eva pravartante pāralaukikam ca naḥ bhaviṣyati iha ca naḥ prītaḥ guruḥ adhyāpayiṣyati iti . tathā yat etat dāsakarmakaram nāma ete api svabhūtyartham eva pravartantebhaktam celam ca lapsyāmahe paribhāṣāḥ ca na naḥ bhaviṣyanti iti . tathā ye ete śilpinaḥ nāme te api svabhūtyartham eva pravartante vetanam ca lapsyāmahe mitrāṇi ca naḥ bhaviṣyanti iti . evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu kurvataḥ prayojakaḥ iti cet tulyam . yadi kaḥ cit kurvataḥ prayojakaḥ nāma bhavati tena etat tulyam . yadi tarhi sarve ime svabhūtyartham pravartantekaḥ prayojyārthaḥ . yat abhiprāyeṣu sajjante . īdṛśau vadhrau kuru . īdṛśau paṭukau kuru . ādityaḥ ca asya abhiprāye sajjate . eṣaḥ tasya abhiprāyaḥ . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayeya iti . tam ca asya abhiprāyam ādityaḥ nirvartayati . bhavet iha vartamānakālatā yuktā . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati iti . tatrasthasya hi tasya ādityaḥ udeti . iha tu katham vartamānakālatām kaṃsam ghātayati balim bandhayati iti cirahate kaṃse cirabaddhe ca balau . atra api yuktā . katham . ye tāvat ete śobhikāḥ nāma ete pratyakṣam kaṃsam ghātayanti pratyakṣam ca balim bandhayanti iti . citreṣu katham . citreṣu api udgūrṇāḥ nipatitāḥ ca prahārāḥ dṛśyante kaṃsakarṣaṇyaḥ ca . granthikeṣu katham yatra śabdagaḍumātram lakṣyate . te api hi teṣām utpattiprabhṛti ā vināśāt ṛddhīḥ vyācakṣāṇāḥ sataḥ buddhiviṣayān

Sanskrit only: no published translation is held for this verse.