क्अ इइ,३३।९-२० रो इइइ,८८-८९ इह कः चित् कम् चित् आह । पृच्छतु मा भवान् । अनुयुङ्क्ताम् मा भवान् इति । अत्र णिच् कस्मात् न भवति । अकर्तृत्वात् । न हि असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः । भूतभविष्यत्कालायाः अपि भवितव्यम् । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् अकार्षीत् । इमाम् क्रियाम् करिष्यति इति । इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते । अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् कुरु इति । कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते । कथम् । कर्ता च अस्याः क्रियायाः भव इति । एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते । अथ अपि कथम् चित् कर्ता स्यात् । एवम् अपि न दोषः । लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति । विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः । यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् । तत् यथा आसय शायय इति ।
KA II,33.9-20 Ro III,88-89 iha kaḥ cit kam cit āha . pṛcchatu mā bhavān . anuyuṅktām mā bhavān iti . atra ṇic kasmāt na bhavati . akartṛtvāt . na hi asau samprati pṛcchati . tūṣṇīm āste . kim ca bhoḥ vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ . bhūtabhaviṣyatkālāyāḥ api bhavitavyam . abhisambandhaḥ tatra kriyate . imām kriyām akārṣīt . imām kriyām kariṣyati iti . iha punaḥ na kaḥ cit abhisambandhaḥ kriyate na ca asau samprati pṛcchati . tūṣṇīm āste . yadi tarhi kartā na asti katham tarhi kartṛpratyayena loṭā abhidhīyate . atham katham asmin apṛcchati ayam pracchiḥ vartate . abhisambandhaḥ tatra kriyate . imām kriyām kuru iti . kartrā api tarhi abhisambandhaḥ kriyate . katham . kartā ca asyāḥ kriyāyāḥ bhava iti . evam na ca kartā kartṛpratyayena ca loṭā abhidhīyate . atha api katham cit kartā syāt . evam api na doṣaḥ . loṭā uktatvāt preṣaṇasya ṇic na bhaviṣyati . vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ . yatra ca dvitīyaḥ prayojyaḥ arthaḥ bhavati bhavati tatra ṇic . tat yathā āsaya śāyaya iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.