Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.44

Patanjali: Vyakaranamahabhasya 3.1.44

क्अ इइ,५१।२-५२।८ रो इइइ,१३०-१३२ किमर्थः चकारः । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । सिचि वृद्धिः परस्मैपदेषु इति । सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत । न एतत् अस्ति प्रयोजनम् । परस्मैपदेषु इति उच्यते । न च अत्र परस्मैपदम् पश्यामः । स्वरार्थः तर्हि । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । अनच्कः अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । इटि कृते साच्कः भविष्यति । तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति । न सिध्यति । आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति । अतः उत्तरम् पठति । सिचः चित्करणानर्थक्यम् स्थानिवत्वात् । सिचः चित्करणम् नर्थयम् । किम् कारणम् । स्थानिवत्वात् । स्थानिवद्भावात् चित् भविष्यति । अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् । अर्थवत् तु चित्करणम् । कः अर्थः । चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति । न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते । तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत । तस्मात् चित्करणम् । तस्मात् चकारः कर्तव्यः । अथ इदित्करणम् किमर्थम् । इदित्करणम् नकारलोपाभावार्थम् । इदित्करणम् क्रियते नकारलोपः मा भूत् इति । अमंस्त अमंस्थाः । अनिदिताम् हलः उपधायाः क्ङिति इति । न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । सिचि एव नलोपः यथा स्यात् । परस्मिन् निमित्ते मा भूत् इति । कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते । अयम् अस्ति विशेषः । सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति । परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति । समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् । ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति । कथम् । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति । इदित्त्वात् वा स्थानिवत्त्वात् । अथ अपि अनेन इदिता अर्थः स्यात् । अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति।

KA II,51.2-52.8 Ro III,130-132 kimarthaḥ cakāraḥ . viśeṣaṇārthaḥ . kva viśeṣaṇārthena arthaḥ . sici vṛddhiḥ parasmaipadeṣu iti . sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti atra api prasajyeta . na etat asti prayojanam . parasmaipadeṣu iti ucyate . na ca atra parasmaipadam paśyāmaḥ . svarārthaḥ tarhi . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . etat api na asti prayojanam . anackaḥ ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . iṭi kṛte sāckaḥ bhaviṣyati . tatra pratyayādyudāttatvena iṭaḥ udāttatvam bhaviṣyati . na sidhyati . āgamāḥ anudāttāḥ bhavanti iti anudāttatvam prāpnoti . ataḥ uttaram paṭhati . sicaḥ citkaraṇānarthakyam sthānivatvāt . sicaḥ citkaraṇam narthayam . kim kāraṇam . sthānivatvāt . sthānivadbhāvāt cit bhaviṣyati . arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam . arthavat tu citkaraṇam . kaḥ arthaḥ . citkaraṇasāmarthyāt hi iṭaḥ udāttatvam bhaviṣyati . na aprāpte pratyayasvare āgamānudāttatvam ārabhyate . tat yathā eva pratyayasvaram bādhate evam sthānivadbhāvāt api yā prāptiḥ tām api bādheta . tasmāt citkaraṇam . tasmāt cakāraḥ kartavyaḥ . atha iditkaraṇam kimartham . iditkaraṇam nakāralopābhāvārtham . iditkaraṇam kriyate nakāralopaḥ mā bhūt iti . amaṃsta amaṃsthāḥ . aniditām halaḥ upadhāyāḥ kṅiti iti . na vā hanteḥ sicaḥ kitkaraṇam nakāralopābhāvasya . na vā etat prayojanam asti . kim kāraṇam . yat ayam hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti tat jñāpayati ācāryaḥ na sijantasya nakārlopaḥ bhavati iti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . sici eva nalopaḥ yathā syāt . parasmin nimitte mā bhūt iti . kaḥ punaḥ atra viśeṣaḥ sici vā nalope sati parasmin vā nimitte . ayam asti viśeṣaḥ . sici nalope sati nalopasya asiddhatvāt akāralopaḥ na bhavati . parasmin punaḥ nimitte nalope sati akāralopaḥ prāpnoti . samānāśrayam asiddham vyāśrayam ca idam . nanu ca parasmin api nimitte nalope sati akāralopaḥ na bhaviṣyati . katham . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ṭat etat hanteḥ sicaḥ kitkaraṇam jñāpakam eva na sijantasya nalopaḥ bhavati iti . idittvāt vā sthānivattvāt . atha api anena iditā arthaḥ syāt . ayam ādeśaḥ sthānivadbhāvāt idit bhaviṣyati.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५२।९-५३।५ रो इइइ,१३३-१३५ स्पृशमृशकृषतृपदृपः सिच् वा । स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् । स्पृश । अस्पृक्षत् अस्प्राक्षीत् । स्पृश । मृश । अमृक्षत् अम्राक्षीत् । मृश । कृष । अकृक्षत् अक्राक्षीत् । कृष । तृप । अतृपत् अत्राप्सीत् । तृप । दृप । अदृपत् अद्रप्सीत् । किम् प्रयोजनम् । सिच् यथा स्यात । अथ क्सः सिद्धः । सिद्धः शलः इगुपधात् अनिटः इति । सिच् अपि सिद्धः । कथम् । च्लेः चित्करणम् प्रत्याख्यायते । तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति । यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति । सिद्धम् तु सिचः यादित्वात् । सिद्धम् एतत् । कथम् । यादिः सिच् करिष्यते । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । किम् न श्रूयते यकारः । लुप्तनिर्दिष्टः यकारः । चङङोः कथम् । चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् । चङङोः अपि प्रश्लिष्टनिर्देशः अयम् : च अङ् चङ् अ अङ् अङ् । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । चिणः कथम् । चिणः अनित्त्वात् सिद्धम् । चिणः अनित्त्वात् सिद्धम् । किम् इदम् अनित्त्वात् । अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् । असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न। असत्याम् इत्सञ्ज्ञायाम् लोपः न । असति लोपे अनेकाल् । यदा अनेकाल् तदा सर्वादेशः । यदा सर्वादेशः तदा प्रययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति । अपि च त्रैशब्द्यम् न प्रकल्पते । अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति । सिचि पुनः सति विभाषा सिच् । सिचि अपि झल्लक्षणः अमागमः विभाषा । यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव । तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति ।

KA II,52.9-53.5 Ro III,133-135 spṛśamṛśakṛṣatṛpadṛpaḥ sic vā . spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti vaktavyam . spṛśa . aspṛkṣat asprākṣīt . spṛśa . mṛśa . amṛkṣat amrākṣīt . mṛśa . kṛṣa . akṛkṣat akrākṣīt . kṛṣa . tṛpa . atṛpat atrāpsīt . tṛpa . dṛpa . adṛpat adrapsīt . kim prayojanam . sic yathā syāta . atha ksaḥ siddhaḥ . siddhaḥ śalaḥ igupadhāt aniṭaḥ iti . sic api siddhaḥ . katham . cleḥ citkaraṇam pratyākhyāyate . tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ na bhaviṣyati . yadi evam antyasaya sijādayaḥ prāpnuvanti . siddham tu sicaḥ yāditvāt . siddham etat . katham . yādiḥ sic kariṣyate . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . kim na śrūyate yakāraḥ . luptanirdiṣṭaḥ yakāraḥ . caṅaṅoḥ katham . caṅaṅoḥ praśliṣṭanirdeśāt siddham . caṅaṅoḥ api praśliṣṭanirdeśaḥ ayam : ca aṅ caṅ a aṅ aṅ . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . ciṇaḥ katham . ciṇaḥ anittvāt siddham . ciṇaḥ anittvāt siddham . kim idam anittvāt . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyāyām pratyayasañjñayām itsañjñā na. asatyām itsañjñāyām lopaḥ na . asati lope anekāl . yadā anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tadā prayayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . evam ca tatra vārttikakārasya nirṇayaḥ saprayojanam citkaraṇam iti . api ca traiśabdyam na prakalpate . aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati . sici punaḥ sati vibhāṣā sic . sici api jhallakṣaṇaḥ amāgamaḥ vibhāṣā . yasya khalu api amā nimittam na vihanyate saḥ syāt eva . tasmāt suṣṭhu ucyate spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti .

Sanskrit only: no published translation is held for this verse.