Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.44·3.1.44.2

Patanjali: Vyakaranamahabhasya 3.1.44.2

P 3.1.44.2

क्अ इइ,५२।९-५३।५ रो इइइ,१३३-१३५ स्पृशमृशकृषतृपदृपः सिच् वा । स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् । स्पृश । अस्पृक्षत् अस्प्राक्षीत् । स्पृश । मृश । अमृक्षत् अम्राक्षीत् । मृश । कृष । अकृक्षत् अक्राक्षीत् । कृष । तृप । अतृपत् अत्राप्सीत् । तृप । दृप । अदृपत् अद्रप्सीत् । किम् प्रयोजनम् । सिच् यथा स्यात । अथ क्सः सिद्धः । सिद्धः शलः इगुपधात् अनिटः इति । सिच् अपि सिद्धः । कथम् । च्लेः चित्करणम् प्रत्याख्यायते । तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति । यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति । सिद्धम् तु सिचः यादित्वात् । सिद्धम् एतत् । कथम् । यादिः सिच् करिष्यते । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । किम् न श्रूयते यकारः । लुप्तनिर्दिष्टः यकारः । चङङोः कथम् । चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् । चङङोः अपि प्रश्लिष्टनिर्देशः अयम् : च अङ् चङ् अ अङ् अङ् । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । चिणः कथम् । चिणः अनित्त्वात् सिद्धम् । चिणः अनित्त्वात् सिद्धम् । किम् इदम् अनित्त्वात् । अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् । असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न। असत्याम् इत्सञ्ज्ञायाम् लोपः न । असति लोपे अनेकाल् । यदा अनेकाल् तदा सर्वादेशः । यदा सर्वादेशः तदा प्रययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति । अपि च त्रैशब्द्यम् न प्रकल्पते । अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति । सिचि पुनः सति विभाषा सिच् । सिचि अपि झल्लक्षणः अमागमः विभाषा । यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव । तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति ।

KA II,52.9-53.5 Ro III,133-135 spṛśamṛśakṛṣatṛpadṛpaḥ sic vā . spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti vaktavyam . spṛśa . aspṛkṣat asprākṣīt . spṛśa . mṛśa . amṛkṣat amrākṣīt . mṛśa . kṛṣa . akṛkṣat akrākṣīt . kṛṣa . tṛpa . atṛpat atrāpsīt . tṛpa . dṛpa . adṛpat adrapsīt . kim prayojanam . sic yathā syāta . atha ksaḥ siddhaḥ . siddhaḥ śalaḥ igupadhāt aniṭaḥ iti . sic api siddhaḥ . katham . cleḥ citkaraṇam pratyākhyāyate . tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ na bhaviṣyati . yadi evam antyasaya sijādayaḥ prāpnuvanti . siddham tu sicaḥ yāditvāt . siddham etat . katham . yādiḥ sic kariṣyate . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . kim na śrūyate yakāraḥ . luptanirdiṣṭaḥ yakāraḥ . caṅaṅoḥ katham . caṅaṅoḥ praśliṣṭanirdeśāt siddham . caṅaṅoḥ api praśliṣṭanirdeśaḥ ayam : ca aṅ caṅ a aṅ aṅ . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . ciṇaḥ katham . ciṇaḥ anittvāt siddham . ciṇaḥ anittvāt siddham . kim idam anittvāt . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyāyām pratyayasañjñayām itsañjñā na. asatyām itsañjñāyām lopaḥ na . asati lope anekāl . yadā anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tadā prayayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . evam ca tatra vārttikakārasya nirṇayaḥ saprayojanam citkaraṇam iti . api ca traiśabdyam na prakalpate . aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati . sici punaḥ sati vibhāṣā sic . sici api jhallakṣaṇaḥ amāgamaḥ vibhāṣā . yasya khalu api amā nimittam na vihanyate saḥ syāt eva . tasmāt suṣṭhu ucyate spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti .

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/P/3.1.44.2

Cite as: Patanjali: Vyakaranamahabhasya 3.1.44.2, in HREEM (hreem.cc/library/P/3.1.44.2), after GRETIL, Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay….

Edition, numbering and licence

GRETIL 6_sastra/1_gram/pmbhasuu.htm — Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-196

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text