क्अ इइ,५३।७-२५ रो इइइ,१३५-१३६ क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् । क्सविधाने इगुपधाभावः । किम् कारणम् । च्लेः गुणनिमित्तत्वात् । च्लिः गुणनिमित्तम् । तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति । न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य । न वा एषः दोषः । किम् कारणम् । क्सस्य अनवकाशत्वात् । अनवकाशः क्सः गुणम् बाधिष्यते । अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् । अनिड्वचनम् अविशेषणम् । किम् कारणम् । च्लेः नित्यादिष्टत्वात् । नित्यादिष्टः च्लिः न क्व चित् श्रूयते । तत्र च्लेः अनिटः इति क्सः न प्राप्नोति । न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः । न वा एषः दोषः । किम् कारणम् । क्सस्य सिजपवादत्वात् । सिजपवादः क्सः । सः च अनिडाश्रयः । न च अपवादविषये उपसर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते । तत् न तावत् अत्र कदा चित् सिच् भवति । अपवादम् क्सम् प्रतीक्षते । क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् । अनिटि प्रसिद्धे क्सविद्धिः । अनिटि प्रसिद्धे क्सः भविष्यति । सिच् इदानीम् क्व भविष्यति । शेषे सिज्विधानम् । शेषे सिज्विधानम् भविष्यति । अकोषीत् अमोषीत् इति ।
KA II,53.7-25 Ro III,135-136 ksavidhāne igupadhābhāvaḥ cleḥ guṇanimittatvāt . ksavidhāne igupadhābhāvaḥ . kim kāraṇam . cleḥ guṇanimittatvāt . cliḥ guṇanimittam . tatra clau eva guṇe kṛte igupadhāt iti ksaḥ na prāpnoti . na vā ksasya anavakāśatvāt apavādaḥ guṇasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . ksasya anavakāśatvāt . anavakāśaḥ ksaḥ guṇam bādhiṣyate . aniḍvacanam aviśeṣaṇam cleḥ nityādiṣṭatvāt . aniḍvacanam aviśeṣaṇam . kim kāraṇam . cleḥ nityādiṣṭatvāt . nityādiṣṭaḥ cliḥ na kva cit śrūyate . tatra cleḥ aniṭaḥ iti ksaḥ na prāpnoti . na vā ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭi prasiddhe ksaviddhiḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ksasya sijapavādatvāt . sijapavādaḥ ksaḥ . saḥ ca aniḍāśrayaḥ . na ca apavādaviṣaye upasargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam utsargaḥ abhiniviśate . tat na tāvat atra kadā cit sic bhavati . apavādam ksam pratīkṣate . ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭtvam prasiddham . aniṭi prasiddhe ksaviddhiḥ . aniṭi prasiddhe ksaḥ bhaviṣyati . sic idānīm kva bhaviṣyati . śeṣe sijvidhānam . śeṣe sijvidhānam bhaviṣyati . akoṣīt amoṣīt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.