Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.7

Patanjali: Vyakaranamahabhasya 3.1.7

क्अ इइ,१२-१४।७ रो इइइ,३३-३९ धातोः इति किमर्थम् । प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् । सोपसर्गात् मा भूत् । कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् । कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् । कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति । सोपर्सर्गम् वै कर्म । ततः उत्पत्तिः प्राप्नोति । सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म । सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः । अनुपसर्गम् हि कर्म । अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति । सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् । यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् । किम् कारणम् । अकर्मत्वात् । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः मा भूत् । सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् । सुबन्तात् च सनः अप्रसङ्गः । किम् कारणम् । क्यजादीनाम् अपवादत्वात् । सुबन्तात् क्यजादयः विधीयन्ते । ते अपवादत्वात् बाधकाः भविष्यन्ति । अनभिधानात् वा । अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति । न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति । यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति । भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् । परेच्छायाम् तु प्राप्नोति : राज्ञः पुत्रम् इच्छति इति । एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति । किम् । समानकर्तृकात् इति उच्यते । न च सुबन्तस्य समानः कर्ता अस्ति । एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति । इह तु प्राप्नोति : आसितुम् इच्छति शयितुम् इच्छति । इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् । तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति । एवम् अपि इह प्राप्नोति : आसनम् इच्छति शयनम् इच्छति इति । इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् । यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति । अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत : सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति । कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् । कर्मसमानकर्तृकग्रहणम् च अनर्थकम् । किम् कारणम् । इच्छाभिधाने प्रत्ययविधानात् । इच्छायाम् अभिधेयायाम् सन् विधीयते । अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते । न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । अङ्गपरिमाणार्थम् तु । अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा । अङ्गपरिमाणम् ज्ञास्यामि इति । किम् पुनः अत्र ज्यायः । धातुग्रहणम् एव ज्यायः । अङ्गपरिमाणम् च एव विज्ञातम् भवति । अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति । यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः । युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति । एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् । ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति । न एषः दोषः । कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी । कर्मणः धातोः इति । किम् तर्हि । अवयवयोगा एषा षष्ठी । कर्मणः यः धातुः अवयवः । यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति । चिकीर्षति जिहीर्षति इति । एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति । कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः । महान्तम् पुत्रम् इच्छति । कर्मणः यत् सुबन्तम् अवययः इति । न कर्तव्यः । असामर्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः । वावचनम् च अनर्थकम् । किम् कारणम् । तत्र नित्यत्वात् सनः । इह

KA II,12-14.7 Ro III,33-39 dhātoḥ iti kimartham . prakartum aicchat prācikīrṣat . sopasargāt mā bhūt . karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam . karmagrahaṇāt sanvidhau dhātugrahaṇam anarthakam . karmaṇaḥ samānakartṛkāt icchāyām vā sambhavati iti eva dhātoḥ utpattiḥ bhaviṣyati . soparsargam vai karma . tataḥ utpattiḥ prāpnoti . sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma . sopasargam karma iti cet karmaviśeṣakaḥ upasargaḥ . anupasargam hi karma . avaśyam ca etat evam vijñeyam anupasargam karma iti . sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt . yaḥ hi manyate sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe sanaḥ avidhiḥ syāt . kim kāraṇam . akarmatvāt . idam tarhi prayojanam . subantāt utpattiḥ mā bhūt . subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt . subantāt ca sanaḥ aprasaṅgaḥ . kim kāraṇam . kyajādīnām apavādatvāt . subantāt kyajādayaḥ vidhīyante . te apavādatvāt bādhakāḥ bhaviṣyanti . anabhidhānāt vā . atha vā anabhidhānāt subantāt utpattiḥ na bhaviṣyati . na hi subantāt utpadyamānena sanā icchāyā abhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . iyam tāvat agatikā gatiḥ yat ucyate anabhidhānāt iti . yat api ucyate subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt iti . bhavet kasmāt cit aprasaṅgaḥ syāt ātmecchāyām . parecchāyām tu prāpnoti : rājñaḥ putram icchati iti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . samānakartṛkāt iti ucyate . na ca subantasya samānaḥ kartā asti . evam api bhavet kasmāt cit aprasaṅgaḥ yasya kartā na asti . iha tu prāpnoti : āsitum icchati śayitum icchati . icchāyām arthe san vidhīyate icchārtheṣu ca tumun . tatra tumunā uktatatvāt tasya arthasya san na bhaviṣyati . evam api iha prāpnoti : āsanam icchati śayanam icchati iti . iha yaḥ viśeṣaḥ upādhiḥ vā upādīyate dyotye tasmin tena bhavitavyam . yaḥ ca iha arthaḥ gamyate āsitum icchati śayitum icchati svayam tām kriyām kartum icchati iti na asau iha gamyate āsanam icchati śayanam icchati iti . anyasya api āsanam icchati iti eṣaḥ api arthaḥ gamyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe iha prasajyeta : saṅgatam icchati devadattaḥ yajñadattena iti . karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt . karmasamānakartṛkagrahaṇam ca anarthakam . kim kāraṇam . icchābhidhāne pratyayavidhānāt . icchāyām abhidheyāyām san vidhīyate . akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam . icchāyām abhidheyāyām san vidhīyate . na ca akarmaṇaḥ asamānakartṛkāt vā utpadyamānena sanā icchāyā abhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . aṅgaparimāṇārtham tu . aṅgaparimāṇārtham tarhi anyatarat kartavyam karmagrahaṇam dhātugrahaṇam vā . aṅgaparimāṇam jñāsyāmi iti . kim punaḥ atra jyāyaḥ . dhātugrahaṇam eva jyāyaḥ . aṅgaparimāṇam ca eva vijñātam bhavati . api ca dhātoḥ vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā siddhā bhavati . yat ca api etat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti svapakṣaḥ anena varṇitaḥ . yuktam iha draṣṭavyam kim nyāyyam karma iti . etat ca atra yuktam yat sopasargam karma syāt . nanu ca uktam sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti . na eṣaḥ doṣaḥ . karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā pañcamī . karmaṇaḥ dhātoḥ iti . kim tarhi . avayavayogā eṣā ṣaṣṭhī . karmaṇaḥ yaḥ dhātuḥ avayavaḥ . yadi avayavayogā eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti . cikīrṣati jihīrṣati iti . eṣaḥ api vyapadeśivadbhāvena karmaṇaḥ dhātuḥ avayaḥ bhavati . kāmam tarhi anena eva hetunā kyac api kartavyaḥ . mahāntam putram icchati . karmaṇaḥ yat subantam avayayaḥ iti . na kartavyaḥ . asāmarthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . vāvacanānarthakyam ca tatra nityatvāt sanaḥ . vāvacanam ca anarthakam . kim kāraṇam . tatra nityatvāt sanaḥ . iha

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१४।८-१५।४ रो इइइ,३९-४२ तुमुनन्तात् वा तस्य च लुग्वचनम् । तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः । कर्तुम् इच्छति चिकीर्षति । लिङुत्तमात् वा । लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः । कुर्याम् इति इच्छति चिकीर्षति । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् । अश्मा लुलुठिषते । कूलम् पिपतिषति इति । किम् पुनः कारणम् न सिध्यति । एवम् मन्यते । चेतनावतः एतत् भवति इच्छा इति । कूलम् च अचेतनम् । अचेतनग्रहणेन न अर्थः । आशङ्कायाम् इति एव । इदम् अपि सिद्धम् भवति । श्वा मुमूर्षति । न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः । न वा कर्तव्यम् । किम् कारणम् । तुल्यकारणत्वात् । तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने । किम् कारणम् । इच्छयाः हि प्रवृत्तितः उपलब्धिः । इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति । यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति । कटम् करिष्यामि इति । किम् तर्हि । सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते । कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति । श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति । उपमानात् वा सिद्धम् । उपमानात् वा सिद्धम् एतत् । कथम् । लुलुठिषते इव लुलुठिषते । पिपतिषति इव पिपतिषति । न तिङन्तेन उपमानम् अस्ति । एवम् तर्हि इच्छा इव इच्छा । सर्वस्य वा चेतनावत्त्वात् । अथ वा सर्वम् चेतनावत् । एवम् हि आह । कंसकाः सर्पन्ति । शिरीषः अधः स्वपिति । सुवर्चला आदित्यम् अनु पर्येति । आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति । अयस्कान्तम् अयः सङ्क्रामति । ऋषिः पठति श्र्णोत ग्रावाणः ।

KA II,14.8-15.4 Ro III,39-42 tumunantāt vā tasya ca lugvacanam . tumunantāt vā san vaktavyaḥ tasya ca tumunaḥ luk vaktavyaḥ . kartum icchati cikīrṣati . liṅuttamāt vā . liṅuttamāt vā san vaktavyaḥ tasya ca liṅaḥ luk vaktavyaḥ . kuryām iti icchati cikīrṣati . āśaṅkāyām acetaneṣu upasaṅkhyānam . āśaṅkāyām acetaneṣu upasaṅkhyānam kartavyam . aśmā luluṭhiṣate . kūlam pipatiṣati iti . kim punaḥ kāraṇam na sidhyati . evam manyate . cetanāvataḥ etat bhavati icchā iti . kūlam ca acetanam . acetanagrahaṇena na arthaḥ . āśaṅkāyām iti eva . idam api siddham bhavati . śvā mumūrṣati . na vā tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ . na vā kartavyam . kim kāraṇam . tulyakāraṇatvāt . tulyam hi kāraṇam cetanāvati devadatte kūle ca acetane . kim kāraṇam . icchayāḥ hi pravṛttitaḥ upalabdhiḥ . icchayāḥ hi pravṛttitaḥ upalabdhiḥ bhavati . yaḥ api asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati . kaṭam kariṣyāmi iti . kim tarhi . sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate . kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram upasaṅkrāmati . śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ ca bhavanti . upamānāt vā siddham . upamānāt vā siddham etat . katham . luluṭhiṣate iva luluṭhiṣate . pipatiṣati iva pipatiṣati . na tiṅantena upamānam asti . evam tarhi icchā iva icchā . sarvasya vā cetanāvattvāt . atha vā sarvam cetanāvat . evam hi āha . kaṃsakāḥ sarpanti . śirīṣaḥ adhaḥ svapiti . suvarcalā ādityam anu paryeti . āskanda kapilaka iti ukte tṛṇam āskandati . ayaskāntam ayaḥ saṅkrāmati . ṛṣiḥ paṭhati śrṇota grāvāṇaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१५। ५-२३ रो इइइ,४२-४५ इमे इषवः बहवः पठ्यन्ते । तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति । इषेः छत्वभाविनः । यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति । एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते । कस्य च एतत् निपात्यते । कान्तिकर्मणः । अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म । इषेः उभे कर्मणी । यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म । एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति । एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी । अथ सनन्तात् सना भवितव्यम् : चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति । न भवितव्यम् । किम् कारणम् । अर्थगत्यर्थः शब्दप्रयोगः । अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः । न तर्हि इदानीम् इदम् भवति : एषितुम् इच्छति एषिषिषति इति । अस्ति अत्र विशेषः । एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः । इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः । येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः । तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् । भवति हि जुगुप्सिषते मीमांसिषते इति । शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः । सनन्तात् न सन् इष्यते ।

KA II,15. 5-23 Ro III,42-45 ime iṣavaḥ bahavaḥ paṭhyante . tatra na jñāyate kasya ayam arthe san vidhīyate iti . iṣeḥ chatvabhāvinaḥ . yadi evam kartum anvicchati kartum anveṣaṇā atra api prāpnoti . evam tarhi yasya striyām icchā iti etat rūpam nipātyate . kasya ca etat nipātyate . kāntikarmaṇaḥ . atha iha grāmam gantum icchati iti kasya kim karma . iṣeḥ ubhe karmaṇī . yadi evam grāmam gantum icchati grāmāya gantum icchati iti gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . evam tarhi gameḥ grāmaḥ karma iṣeḥ gamiḥ karma . evam api iṣyate grāmaḥ gantum iti parasādhane utpadyamānena lena grāmasya abhidhānam na prāpnoti . evam tarhi gameḥ grāmaḥ karma iṣeḥ ubhe karmaṇī . atha sanantāt sanā bhavitavyam : cikīrṣitum icchati jihīrṣitum icchati iti . na bhavitavyam . kim kāraṇam . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ . na tarhi idānīm idam bhavati : eṣitum icchati eṣiṣiṣati iti . asti atra viśeṣaḥ . ekasya atra iṣeḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . yena eva khalu api hetunā etat vākyam bhavati cikīrṣitum icchati jihīrṣitum icchati iti tena eva hetunā vṛttiḥ api prāpnoti . tasmāt sanantāt sanaḥ pratiṣedhaḥ vaktavyaḥ . tam ca api bruvatā iṣisanaḥ iti vaktavyam . bhavati hi jugupsiṣate mīmāṃsiṣate iti . śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . sanantāt na san iṣyate .

Sanskrit only: no published translation is held for this verse.