क्अ इइ,१४।८-१५।४ रो इइइ,३९-४२ तुमुनन्तात् वा तस्य च लुग्वचनम् । तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः । कर्तुम् इच्छति चिकीर्षति । लिङुत्तमात् वा । लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः । कुर्याम् इति इच्छति चिकीर्षति । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् । अश्मा लुलुठिषते । कूलम् पिपतिषति इति । किम् पुनः कारणम् न सिध्यति । एवम् मन्यते । चेतनावतः एतत् भवति इच्छा इति । कूलम् च अचेतनम् । अचेतनग्रहणेन न अर्थः । आशङ्कायाम् इति एव । इदम् अपि सिद्धम् भवति । श्वा मुमूर्षति । न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः । न वा कर्तव्यम् । किम् कारणम् । तुल्यकारणत्वात् । तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने । किम् कारणम् । इच्छयाः हि प्रवृत्तितः उपलब्धिः । इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति । यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति । कटम् करिष्यामि इति । किम् तर्हि । सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते । कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति । श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति । उपमानात् वा सिद्धम् । उपमानात् वा सिद्धम् एतत् । कथम् । लुलुठिषते इव लुलुठिषते । पिपतिषति इव पिपतिषति । न तिङन्तेन उपमानम् अस्ति । एवम् तर्हि इच्छा इव इच्छा । सर्वस्य वा चेतनावत्त्वात् । अथ वा सर्वम् चेतनावत् । एवम् हि आह । कंसकाः सर्पन्ति । शिरीषः अधः स्वपिति । सुवर्चला आदित्यम् अनु पर्येति । आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति । अयस्कान्तम् अयः सङ्क्रामति । ऋषिः पठति श्र्णोत ग्रावाणः ।
KA II,14.8-15.4 Ro III,39-42 tumunantāt vā tasya ca lugvacanam . tumunantāt vā san vaktavyaḥ tasya ca tumunaḥ luk vaktavyaḥ . kartum icchati cikīrṣati . liṅuttamāt vā . liṅuttamāt vā san vaktavyaḥ tasya ca liṅaḥ luk vaktavyaḥ . kuryām iti icchati cikīrṣati . āśaṅkāyām acetaneṣu upasaṅkhyānam . āśaṅkāyām acetaneṣu upasaṅkhyānam kartavyam . aśmā luluṭhiṣate . kūlam pipatiṣati iti . kim punaḥ kāraṇam na sidhyati . evam manyate . cetanāvataḥ etat bhavati icchā iti . kūlam ca acetanam . acetanagrahaṇena na arthaḥ . āśaṅkāyām iti eva . idam api siddham bhavati . śvā mumūrṣati . na vā tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ . na vā kartavyam . kim kāraṇam . tulyakāraṇatvāt . tulyam hi kāraṇam cetanāvati devadatte kūle ca acetane . kim kāraṇam . icchayāḥ hi pravṛttitaḥ upalabdhiḥ . icchayāḥ hi pravṛttitaḥ upalabdhiḥ bhavati . yaḥ api asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati . kaṭam kariṣyāmi iti . kim tarhi . sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate . kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram upasaṅkrāmati . śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ ca bhavanti . upamānāt vā siddham . upamānāt vā siddham etat . katham . luluṭhiṣate iva luluṭhiṣate . pipatiṣati iva pipatiṣati . na tiṅantena upamānam asti . evam tarhi icchā iva icchā . sarvasya vā cetanāvattvāt . atha vā sarvam cetanāvat . evam hi āha . kaṃsakāḥ sarpanti . śirīṣaḥ adhaḥ svapiti . suvarcalā ādityam anu paryeti . āskanda kapilaka iti ukte tṛṇam āskandati . ayaskāntam ayaḥ saṅkrāmati . ṛṣiḥ paṭhati śrṇota grāvāṇaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.