क्अ इइ,८०।१५-२६ रो इइइ,१९९-२०० अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति । किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति । कः च अत्र विशेषः । स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः । स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति । क्त । हसितम् छात्रस्य्स् शोभनम् । घञ् अपि प्राप्नोति । ल्युट् । हसनम् छात्रस्य्स् शोभनम् । घञ् अपि प्राप्नोति । तुमुन् । इच्छति भोक्तुम् । लिङ्लोटौ अपि प्राप्नुतः । खलर्थः । ईषत्पानः सोमः भवता । खल् अपि प्राप्नोति । एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् । आसित्वा भुङ्क्ते । आस्यते भोक्तुम् इति अपि यथा स्यात् । कालादिषु तुमुनि । कालादिषु तुमुनि वावचनम् कर्तव्यम् । कालः भोक्तुम् । कालः भोजनस्य इति अपि यथा स्यात् ।
KA II,80.15-26 Ro III,199-200 atha katham idam vijñāyate astriyām iti . kim striyām na bhavati āhosvit prāk striyāḥ bhavati iti . kaḥ ca atra viśeṣaḥ . striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ . striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti . kta . hasitam chātrasys śobhanam . ghañ api prāpnoti . lyuṭ . hasanam chātrasys śobhanam . ghañ api prāpnoti . tumun . icchati bhoktum . liṅloṭau api prāpnutaḥ . khalarthaḥ . īṣatpānaḥ somaḥ bhavatā . khal api prāpnoti . evam tarhi striyāḥ prāk iti vakṣyāmi . striyāḥ prāk iti cet ktvāyām vāvacanam . striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam . āsitvā bhuṅkte . āsyate bhoktum iti api yathā syāt . kālādiṣu tumuni . kālādiṣu tumuni vāvacanam kartavyam . kālaḥ bhoktum . kālaḥ bhojanasya iti api yathā syāt .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.