क्अ इइ,८२।२-१० रो इइइ,२०२-२०३ अज्ग्रहणम् किमर्थम् । अजन्तात् यथा स्यात् । हलन्तात् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । हलन्तात् ण्यत् विधीयते । सः बाधकः भविष्यति । यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत । अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् । एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च । उच्यन्ते च तव्यादयः । ते वचनात् भविष्यन्ति । न एतत् अस्ति प्रयोजनम् । वासरूपेण तव्यादयः भविष्यन्ति । इदम् तर्हि प्रयोजनम् । अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् । लव्यम् पव्यम् । आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति । तथा दित्स्यम् धित्स्यम् । आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति । अज्ग्रहणसामर्थ्यात् यत् एव भवति ।
KA II,82.2-10 Ro III,202-203 ajgrahaṇam kimartham . ajantāt yathā syāt . halantāt mā bhūt iti . na etat asti prayojanam . halantāt ṇyat vidhīyate . saḥ bādhakaḥ bhaviṣyati . yathā eva tarhi ṇyat yatam bādhate evam tavyādīn api bādheta . ajgrahaṇe punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat . etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca . ucyante ca tavyādayaḥ . te vacanāt bhaviṣyanti . na etat asti prayojanam . vāsarūpeṇa tavyādayaḥ bhaviṣyanti . idam tarhi prayojanam . ajantabhūtapūrvamātrāt api yathā syāt . lavyam pavyam . ārdhadhātukasāmānye guṇe kṛte yi pratyayasāmānye ca vāntādeśe kṛte halantāt iti ṇyat prāpnoti . tathā ditsyam dhitsyam . ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti . ajgrahaṇasāmarthyāt yat eva bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.