क्अ इइ,११६।११-११७।२३ रो इइइ,२६३-२६६ किम् उपेयिवान् इति निपातनम् क्रियते । उपेयुषि निपातनम् इडर्थम् । उपेयुषि निपातनम् क्रियते इडर्थम् । इट् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति । द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् इट् इति । किम् अत्र कर्तव्यम् । परत्वात् इडागमः । नित्यम् द्विर्वचनम् । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । इट् अपि नित्यः । कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति । न अत्र एकादेशः प्राप्नोति । किम् कारणम् । दीर्घः इणः किति इति दीर्घत्वेन बाधते । तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति । उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति । एकादिष्टस्य ईय्भावार्थम् तु । एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते । एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते । ननु च उक्तम् न अत्र एकादेशः प्राप्नोति । किम् कारणम् । दीर्घः इणः किति इति दीर्घत्वेन बाधते इति । तत् हि न सुष्ठु उच्यते । न हि दीर्घत्वम् एकादेशम् बाधते । कः तर्हि बाधते । यणादेशः । सः च क्व बाधते । यत्र अस्य निमित्तम् अस्ति । यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः । व्यञ्जने यणादेशार्थम् वा । अथ वा व्यञ्जने एव यणादेशः निपात्यते । यणादेशे कृते एकाचः इति इट् सिद्धः भवति । अपरः आह : न उपेयिवान् निपात्यः । द्विर्वचनाद् इट् भविष्यति परत्वात् । द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन । इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् । अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च । द्विर्वचने च कृते एकाच् भवति । कथम् । एकादेशे कृते । तस्मात् इट् बाधते द्वित्वम् । तस्मात् इट् द्विर्वचनम् बाधते । अनूचानः कर्तरि । अनूचानः कर्तरीति वक्तव्यम् । अनूक्तवान् अनूचानः । अनूक्तम् इति एव अन्यत्र । न उपेयिवान् निपात्यः । द्विर्वचनाद् इट् भविष्यति परत्वात् । अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अस्य पुनः इट् च नित्यः द्विव्रचनम् च । न विहन्यते हि अस्य । द्विर्वचने च एकाच्त्वात् । तस्मात् इट् बाधते द्वित्वम् ।
KA II,116.11-117.23 Ro III,263-266 kim upeyivān iti nipātanam kriyate . upeyuṣi nipātanam iḍartham . upeyuṣi nipātanam kriyate iḍartham . iṭ yathā syāt . na etat asti prayojanam . siddhaḥ atra iṭ vasvekākādghasām iti . dvirvacane kṛte anekāctvāt na prāpnoti . idam iha sampradhāryam . dvirvacanam kriyatām iṭ iti . kim atra kartavyam . paratvāt iḍāgamaḥ . nityam dvirvacanam . kṛte api iṭi prāpnoti akṛte api prāpnoti . iṭ api nityaḥ . kṛte api dvirvacane ekādeśe ca prāpnoti akṛte api prāpnoti . na atra ekādeśaḥ prāpnoti . kim kāraṇam . dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate . tat etat upeyuṣi nipātanam iḍartham kriyate . upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ . upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ bhavati . upeyuṣā upeyuṣe upeyuṣaḥ upeyuṣi iti . ekādiṣṭasya īybhāvārtham tu . ekādiṣṭasya īybhāvārtham tu nipātanam kriyate . ekādiṣṭasya īy iti etat rūpam nipātyate . nanu ca uktam na atra ekādeśaḥ prāpnoti . kim kāraṇam . dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate iti . tat hi na suṣṭhu ucyate . na hi dīrghatvam ekādeśam bādhate . kaḥ tarhi bādhate . yaṇādeśaḥ . saḥ ca kva bādhate . yatra asya nimittam asti . yatra hi nimittam na asti niṣpratidvandvaḥ tatra ekādeśaḥ . vyañjane yaṇādeśārtham vā . atha vā vyañjane eva yaṇādeśaḥ nipātyate . yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ bhavati . aparaḥ āha : na upeyivān nipātyaḥ . dvirvacanād iṭ bhaviṣyati paratvāt . dvirvacanam kriyatām iṭ iti iṭ bhaviṣyati vipratiṣedhena . iha api tarhi dvirvacanāt iṭ syāt bibhidvān cicchidvān . anyeṣām ekācām dvirvacanam nityam iti āhuḥ . anyeṣām ekācām nityam dvirvacanam . kṛte api iṭi prāpnoti akṛte api prāpnoti . asya punaḥ iṭ ca nityaḥ dvivracanam ca . asya punaḥ iṭ ca eva nityaḥ dvivracanam ca . dvirvacane ca kṛte ekāc bhavati . katham . ekādeśe kṛte . tasmāt iṭ bādhate dvitvam . tasmāt iṭ dvirvacanam bādhate . anūcānaḥ kartari . anūcānaḥ kartarīti vaktavyam . anūktavān anūcānaḥ . anūktam iti eva anyatra . na upeyivān nipātyaḥ . dvirvacanād iṭ bhaviṣyati paratvāt . anyeṣām ekācām dvirvacanam nityam iti āhuḥ . asya punaḥ iṭ ca nityaḥ dvivracanam ca . na vihanyate hi asya . dvirvacane ca ekāctvāt . tasmāt iṭ bādhate dvitvam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.