क्अ इइ,१३०।२१-१३१।१३ रो इइइ,२९८-३०० तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य । तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् । होता पोता । अनुपसर्गस्य इति किमर्थम् । प्रशास्ता प्रतिहर्ता । नयतेः षुक् च । नयतेः षुक् वक्तव्यः । तृन् च प्रत्ययः वक्तव्यञ्। नेष्टा । न वा धात्वन्यत्वात् । न वा वक्तव्यम् । किम् कारणम् । धात्वन्यत्वात् । धात्वन्तरम् नेषतिः । कथम् ज्ञायते । नेषतु नेष्टात् इति दर्शनात् । नेषतु नेष्टात् इति प्रयोगः दृश्यते । इन्द्रः नः तेन नेषतु । गाः वः नेष्टात् । त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च । त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति । त्वष्टा । किम् पुनः इदम् त्विषेः एव अनिट्वम् । न इति आह । यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति । क्षदेः च युक्ते । क्षदेः च युक्ते तृन् वक्तव्यः । क्षत्ता । छन्दसि तृच् च । छन्दसि तृच् च तृन् च वक्तव्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।
KA II,130.21-131.13 Ro III,298-300 tṛnvidhau ṛtvikṣu ca anupasargasya . tṛnvidhau ṛtvikṣu ca anupasargasya iti vaktavyam . hotā potā . anupasargasya iti kimartham . praśāstā pratihartā . nayateḥ ṣuk ca . nayateḥ ṣuk vaktavyaḥ . tṛn ca pratyayaḥ vaktavyañ. neṣṭā . na vā dhātvanyatvāt . na vā vaktavyam . kim kāraṇam . dhātvanyatvāt . dhātvantaram neṣatiḥ . katham jñāyate . neṣatu neṣṭāt iti darśanāt . neṣatu neṣṭāt iti prayogaḥ dṛśyate . indraḥ naḥ tena neṣatu . gāḥ vaḥ neṣṭāt . tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca . tviṣeḥ devatāyām tṛn vaktavyaḥ akāraḥ ca upadhāyāḥ aniṭvam ca iti . tvaṣṭā . kim punaḥ idam tviṣeḥ eva aniṭvam . na iti āha . yat ca anukrāntam yat ca anukraṃsyate sarvasya eṣaḥ śeṣaḥ aniṭvam iti . kṣadeḥ ca yukte . kṣadeḥ ca yukte tṛn vaktavyaḥ . kṣattā . chandasi tṛc ca . chandasi tṛc ca tṛn ca vaktavyaḥ . kṣattṛbhyaḥ saṅgrahītṛbhyaḥ . kṣattṛbhyaḥ saṅgrahītṛbhyaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.