क्अ इइ,१४१।२२-१४२।१३ रो इइइ,३१७-३१८ किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति । अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् । अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् । गोदायः व्रजति । कम्बलदायः व्रजति इति । किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् । इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति । अण् च अपि तृजादिः । एवम् तर्हि उभयम् अनेन क्रियते । अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । कर्मग्रहणसामर्थ्यात् । कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः । वचनग्रहणम् प्रकृतम् अनुवर्तते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अपर्यायेण इति तु वक्तव्यम् । कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । चेन सन्नियोगः करिष्यते । अण् कर्मणि च । किम् च अन्यत् । क्रियायाम् उपपदे क्रियार्थायाम् इति । एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति । चेन एव सन्नियोगः करिष्यते । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।
KA II,141.22-142.13 Ro III,317-318 kimartham idam ucyate na aviśeṣeṇa karmaṇi aṇ vihitaḥ saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati . aṇaḥ punarvacanam apavādaviṣaye anivṛttyartham . aṇaḥ punarvacanam kriyate apavādaviṣaye anivṛttiḥ yathā syāt . godāyaḥ vrajati . kambaladāyaḥ vrajati iti . kim ucyate apavādaviṣaye anivṛttiḥ yathā syāt iti na punaḥ utsargaviṣaye pratipadavidhyartham syāt . idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . aṇ ca api tṛjādiḥ . evam tarhi ubhayam anena kriyate . apavādaviṣaye cānivṛttiḥ utsargaviṣaye pratipadavidhānam . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . karmagrahaṇasāmarthyāt . katham punaḥ antareṇa karmagrahaṇam karmaṇi aṇ labhyaḥ . vacanagrahaṇam prakṛtam anuvartate . asti prayojanam etat . kim tarhi iti . aparyāyeṇa iti tu vaktavyam . kadā cit hi karmaṇi syāt kadā cit kriyāyām upapade kriyārthāyām iti . tat tarhi vaktavyam . na vaktavyam . cena sanniyogaḥ kariṣyate . aṇ karmaṇi ca . kim ca anyat . kriyāyām upapade kriyārthāyām iti . evam api pratyekam upapadasañjñā na prāpnoti . cena eva sanniyogaḥ kariṣyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.