क्अ इइ,१४८।११-१४९।३ रो इइइ,३३१-३३२ स्त्रीग्रहणम् किमर्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् । इह मा भूत् । व्यतिपाकः वर्तते इति । अथ किमर्थम् पृथक् ग्रहणम् । पृथक् ग्रहणम् बाधकबाधनार्थम् । पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् । ये तस्य बाधकाः तद्बाधनार्थम् । किम् प्रयोजनम् । व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते । व्यावचर्ची वर्तते । तत्र व्यतीक्षादिषु दोषः । तत्र व्यतीक्षादिषु दोषः भवति । व्यतीक्षा वर्तते । व्यतीहा वर्तते । सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च । सिद्धम् एतत् । कथम् । प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः । स्त्रियाम् क्तिन् । ततः कर्मव्यतिहारे णच् । ततः णिचः ।
KA II,148.11-149.3 Ro III,331-332 strīgrahaṇam kimartham . karmavyatihāre strīgrahaṇam vyatipākārtham . karmavyatihāre strīgrahaṇam kriyate vyatipākārtham . iha mā bhūt . vyatipākaḥ vartate iti . atha kimartham pṛthak grahaṇam . pṛthak grahaṇam bādhakabādhanārtham . pṛthak grahaṇam kriyate bādhakabādhanārtham . ye tasya bādhakāḥ tadbādhanārtham . kim prayojanam . vyāvacorīvyāvacarcyartham . vyāvacorī vartate . vyāvacarcī vartate . tatra vyatīkṣādiṣu doṣaḥ . tatra vyatīkṣādiṣu doṣaḥ bhavati . vyatīkṣā vartate . vyatīhā vartate . siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca . siddham etat . katham . prakṛte eva strīgrahaṇe ayam yogaḥ kartavyaḥ . striyām ktin . tataḥ karmavyatihāre ṇac . tataḥ ṇicaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.