क्अ इइ,१८५।१८-१८६।१२ रो इइइ,४१०-४११ यासुडादेः सीयुट्प्रतिषेधः । यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः । चिनुयुः सुनुयुः । लिङः सीयुट् इति सीयुट् प्राप्नोति । न वा वाक्यापकर्षात् । न वा वक्तव्यः । किम् कारणम् । वाक्यापकर्षात् । वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते । सुट्तिथोः तु अपकर्षविज्ञानम् । सुटः तिथोः तु अपकर्षः विज्ञायेत । कृषीष्ट कृषीष्ठाः । अनादेः च सुड्वचनम् । अनादेः च सुट् वक्तव्यः । कृषीयास्ताम् कृषीयास्थाम् । तकारथकारादेः लिङः इति सुट् न प्राप्नोति । न वा तिथोः प्रधानभावात् तद्विशेषणम् लिङ्ग्रहणम् । न वा वक्तव्यम् । किम् कारणम् । तिथोः प्रधानभावात् । तिथौ एव तत्र प्रधानम् । तद्विशेषणम् लिङ्ग्रहणम् । न एवम् विज्ञायते । तकारथकारयोः लिङः इति । कथम् तर्हि । तकारथकारयोः सुट् भवति तौ चेत् लिङः इति ।
KA II,185.18-186.12 Ro III,410-411 yāsuḍādeḥ sīyuṭpratiṣedhaḥ . yāsuḍādeḥ sīyuṭaḥ pratiṣedhaḥ vaktavyaḥ . cinuyuḥ sunuyuḥ . liṅaḥ sīyuṭ iti sīyuṭ prāpnoti . na vā vākyāpakarṣāt . na vā vaktavyaḥ . kim kāraṇam . vākyāpakarṣāt . vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate . suṭtithoḥ tu apakarṣavijñānam . suṭaḥ tithoḥ tu apakarṣaḥ vijñāyeta . kṛṣīṣṭa kṛṣīṣṭhāḥ . anādeḥ ca suḍvacanam . anādeḥ ca suṭ vaktavyaḥ . kṛṣīyāstām kṛṣīyāsthām . takārathakārādeḥ liṅaḥ iti suṭ na prāpnoti . na vā tithoḥ pradhānabhāvāt tadviśeṣaṇam liṅgrahaṇam . na vā vaktavyam . kim kāraṇam . tithoḥ pradhānabhāvāt . tithau eva tatra pradhānam . tadviśeṣaṇam liṅgrahaṇam . na evam vijñāyate . takārathakārayoḥ liṅaḥ iti . katham tarhi . takārathakārayoḥ suṭ bhavati tau cet liṅaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.