क्अ इइ,१८७।२-१८८।२ रो इइइ,४१२-४१४ किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् । कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् । यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् । अथ निवृत्तम् ततः प्रापकम् । कः च अत्र विशेषः । जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् । जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् । आतः सिज्लुगन्तात् इति वक्तव्यम् । इह मा भूत् । अकार्षुः अहार्षुः । अस्तु तर्हि प्रापकम् । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः । अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । एवकारकरणम् च । एवकारकरणम् च कर्तव्यम् । लङः शाकटायनस्य एव इति । नियमाऋथः पुनः सति न अर्थः एवकारेण । ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः । यथा एवम् विज्ञायेत लङः शाकटायनस्य एव । मा एवम् विज्ञायि लङः एव शाकटायनस्य इति । किम् च स्यात् । लुङः शाकटायनस्य न स्यात् । अदुः अपुः अधुः अस्थुः । लङ्ग्रहणम् च । लङ्ग्रहणम् च कर्तव्यम् । लङः शाकटायनस्य एव इति । नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन । आतः ङितः इति वर्तते । न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः । अस्तु तर्हि नियमार्थः । ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति । न एषः दोषः । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यः द्वाभ्याम् अनन्तरः आतः च सिचः च । अथ तत् एवकारकरणम् न एव कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । उत्तरार्थम् । लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् । इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा । अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । लङ् एव यः लङ् तत्र यथा स्यात् । लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।
KA II,187.2-188.2 Ro III,412-414 kim idam jusi ākāragrahaṇam niyamārtham āhosvit prāpakam . katham ca niyamārtham syāt katham vā prāpakam . yadi sijgrahaṇam anuvartate tataḥ niyamārtham . atha nivṛttam tataḥ prāpakam . kaḥ ca atra viśeṣaḥ . jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam . jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam kartavyam . ātaḥ sijlugantāt iti vaktavyam . iha mā bhūt . akārṣuḥ ahārṣuḥ . astu tarhi prāpakam . prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ . prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ vaktavyaḥ . abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . evakārakaraṇam ca . evakārakaraṇam ca kartavyam . laṅaḥ śākaṭāyanasya eva iti . niyamāṛthaḥ punaḥ sati na arthaḥ evakāreṇa . nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi evakāraḥ kartavyaḥ . yathā evam vijñāyeta laṅaḥ śākaṭāyanasya eva . mā evam vijñāyi laṅaḥ eva śākaṭāyanasya iti . kim ca syāt . luṅaḥ śākaṭāyanasya na syāt . aduḥ apuḥ adhuḥ asthuḥ . laṅgrahaṇam ca . laṅgrahaṇam ca kartavyam . laṅaḥ śākaṭāyanasya eva iti . niyamārthe punaḥ sati na arthaḥ laṅgrahaṇena . ātaḥ ṅitaḥ iti vartate . na ca anyaḥ ākārāt anantaraḥ ṅit asti anyat ataḥ laṅaḥ . astu tarhi niyamārthaḥ . nanu ca uktam jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam iti . na eṣaḥ doṣaḥ . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yaḥ dvābhyām anantaraḥ ātaḥ ca sicaḥ ca . atha tat evakārakaraṇam na eva kartavyam . kartavyam ca . kim prayojanam . uttarārtham . liṭ ca liṅ āśiṣi ārdhadhātukam eva yathā syāt . itarathā hi vacanāt ārdhadhātukasañjñā syāt tiṅgrahaṇena ca grahaṇāt sārvadhātukasañjñā . atha tat laṅgrahaṇam na eva kartavyam . kartavyam ca . kim prayojanam . laṅ eva yaḥ laṅ tatra yathā syāt . laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.