क्अ इइ,१८२।८-१८३।१ रो इइइ,४०३-४०४ टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः । टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः । पचमानः यजमानः । टितः इति एत्वम् प्राप्नोति । उक्तम् वा । किम् उक्तम् । ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति । न एतत् अस्ति उक्तम् । एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत । टित् आत्मनेपदम् टिदात्मनेपदम् । टिदात्मनेपदानाम् इति । तत् च न । टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते । अवश्यम् च एतत् एवम् विज्ञेयम् । टित् आत्मनेपदम् टिदात्मनेपदम् । टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत । न एषः टित् । कः तर्हि । ठित् । सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति । कथम् इटः अत् इति । इठः अत् इति वक्ष्यामि इति । तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् । लविषीष्ट । इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति । तस्मात् टित् एषः । आदिः तर्हि कस्मात् न भवति । सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति । तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति । पर्यवपाद्यस्य कस्मात् न भवति । लविषीष्ट इति । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति । इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति । के च प्रकृताः । तादयः । आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् । इशिसीरिचः डारौरःसु । टित् अटितः । प्रकृते तत् । गुणे कथम् ।
KA II,182.8-183.1 Ro III,403-404 ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ . ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ vaktavyaḥ . pacamānaḥ yajamānaḥ . ṭitaḥ iti etvam prāpnoti . uktam vā . kim uktam . jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya iti . na etat asti uktam . evam kila tat uktam syāt yadi evam vijñāyeta . ṭit ātmanepadam ṭidātmanepadam . ṭidātmanepadānām iti . tat ca na . ṭitaḥ lakārasya yāni ātmanepadāni iti evam etat vijñāyate . avaśyam ca etat evam vijñeyam . ṭit ātmanepadam ṭidātmanepadam . ṭidātmanepadānām iti vijñāyamāne akurvi atra api prasajyeta . na eṣaḥ ṭit . kaḥ tarhi . ṭhit . saḥ ca avaśyam ṭhit kartavyaḥ ādiḥ mā bhūt iti . katham iṭaḥ at iti . iṭhaḥ at iti vakṣyāmi iti . tat ca avaśyam vaktavyam paryavapādyasya mā bhūt . laviṣīṣṭa . iha tarhi iṣam ūrjam aham itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti . tasmāt ṭit eṣaḥ . ādiḥ tarhi kasmāt na bhavati . saptadaśa ādeśāḥ sthāneyogatvam prayojayanti . tān ekaḥ na utsahate vihantum iti kṛtvā ādiḥ na bhaviṣyati . paryavapādyasya kasmāt na bhavati . laviṣīṣṭa iti . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . idam tarhi uktam prākṛtānām ātmanepadānām etvam bhavati iti . ke ca prakṛtāḥ . tādayaḥ . āne muk jñāpakam tu etve ṭittaṅām . iśisīricaḥ ḍārauraḥsu . ṭit aṭitaḥ . prakṛte tat . guṇe katham .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.