क्अ इइ,२०३।१८-२०४।८ रो इइइ,४६६-४६८ कस्य अयम् प्रतिषेधः । ङीप् अनन्तरः तस्य प्रतिषेधः । अथ इदानीम् ङीपि प्रतिषिद्धे षट्सञ्ज्ञानाम् अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् । अतः इति प्राप्नोति । असिद्धः नलोपः । तस्य असिद्धत्वात् न भविष्यति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते । इदम् अपि तत्र परिगण्यते । प्रत्याहारात् चापा सिद्धम् । सुप् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । प्रथमैकवचनात् प्रभृति आ चापः पकारात् । यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे । इत्त्वे दोषः भवति । बहुचर्मिका । प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति । तस्मात् न उभौ । तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । स्त्रियाम् इति वर्तते । स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः ।
KA II,203.18-204.8 Ro III,466-468 kasya ayam pratiṣedhaḥ . ṅīp anantaraḥ tasya pratiṣedhaḥ . atha idānīm ṅīpi pratiṣiddhe ṣaṭsañjñānām ante lupte ṭābutpattiḥ kasmāt na syāt . ataḥ iti prāpnoti . asiddhaḥ nalopaḥ . tasya asiddhatvāt na bhaviṣyati . parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . idam api tatra parigaṇyate . pratyāhārāt cāpā siddham . sup iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . prathamaikavacanāt prabhṛti ā cāpaḥ pakārāt . yadi pratyāhāragrahaṇam doṣaḥ tu ittve . ittve doṣaḥ bhavati . bahucarmikā . pratyayasthāt kāt pūrvasya ātaḥ iti ittvam na prāpnoti . tasmāt na ubhau . tasmāt ṣaṭsañjñakebhyaḥ ubhau na bhavataḥ iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . striyām iti vartate . striyām yat prāpnoti tasya pratiṣedhaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.